विष्णु पुराण · अध्याय 4.6
इति श्रीविष्णुमहापुराणे चतुर्थांसे पञ्चमो ऽध्यायः (5)
मैत्रेय उवाच
सूर्यस्य वंश्या भगवन्कथिता भवता मम ।
सोमस्याप्यखिलान्वश्याञ्छ्रोतुमिच्छामि पार्थिवान्
कीर्त्यते स्थिरकीर्तीनां येषामद्यापि संततिः ।
प्रसादसुमुखस्तान्मे ब्रह्मन्नाख्यातुमर्हसि
श्रीपराशर उवाच
श्रूयतां मुनिशार्दूल वंशः प्रतिथतेजसः ।
सोमस्यानुक्रमात्ख्याता यत्रोर्वीपतयो ऽभवन्
अयं हि वंशोतिबलपराक्रमद्युतिशीलचेष्टवद्भिर् अतिगुणान्वितैर् नहुषययातिकार्तवीर्यार्जुनादिभिर् भूपालैर् अलङ्कृतः तमहं कथयामि श्रूयताम्
अखिलजगत्स्त्रष्टुर्भगवतो नारायणस्य नाभिकलोजसमुद्भवाब्जयोनेर्ब्रह्मणः पुत्रो ऽत्रिः
अत्रेःसोमः
तं च भगवानब्जयोनिः अशेषौषधीद्विजनक्षत्राणामाधिपत्ये ऽभ्यषेचयत्
स च राजसूयमकरोत्
तत्प्रभावादत्युत्कृष्टाधिपत्याधिष्ठातृत्वाच्चैनं मद आविवेश
मदावलेपाच्च सकलदेवगुरोर्बृस्पतेस्तारां नाम पत्नीं जहार
बहुशश् च बृहस्पतिचोदितेन भगवता ब्रह्मणा चोद्यमानसकलैश् च देवर्षिभिर् याचमानो ऽपि न मुमोच
तस्य चन्द्रस्य च बृहस्पतेर्द्वषादुशाना पार्ष्णिग्राहोभूत्
अङ्गीरसश् च सकाशादुपलब्धविद्यो भगवान्रुद्रो बृहस्पतेः सहाय्यमकरोत्
यतश्चोशना ततो जंभकुंभाद्याः समस्ता एव दैत्यदानवनिकाया महान्तमुद्यमं चक्रुः
बृहस्पतेरपि सकलदेवसैन्ययुतः सहायः शक्रो ऽऽभवत्
एवं च तयोरतीवोग्रसंग्रामस्तारानिमित्तस्तारकामयो नामाभूत्
ततश् च समस्तशस्त्रण्यमुरेषु रुद्रपुरोगमा देवा देवेषु चाशेष्दानवा मुमुचुः
एवं देवासुराहवसंक्षोभक्षुब्धदृदयमशेषमेव जगद्ब्रह्मणं शरणं जगाम् ॥ 18 ॥
ततश् च भगवानब्जयोनिरप्युशनसं संकरमसुरान्देवांश् च निवार्य बृहस्पतये तारामदापयत्
तां चान्तःप्रसवामवलोक्य बृहस्पतिरप्याह
नैष मम क्षेत्रे भवत्यान्यस्य सुतो धार्यःसमुत्सृजैनमलमलमतिधाष्टर्येनेति
स च तेनैवमुक्तातिपतिव्रता भर्तृवचनानन्तरं तमिषीकास्तंबे गर्भमुत्ससर्ज
स चोत्सृष्टमात्र एवातितेजसा देवानां तेजांस्याचिक्षेप
बृहस्पतिमिन्दुं च तस्य कुमारस्यातिचारुतया साभलाषौ दृष्ट्वा देविःसमुत्पन्नसंदेहास्तारां पप्रच्छुः
सत्यं कथयास्माकमिति सुभगे सोमस्याथ वा बृहस्पतेरयं पुत्र इति
एवं तैर् उक्ता सा तारा ह्रिया किञ्चिन्नोवाच
बहुशोप्यभिहिता यदासौ देवेभ्यो नाच्चक्षे ततःस कुमारस्तां शप्तुमुद्यतः प्राह
दुष्टेंब कस्मान्मम तातं नाख्यासि
अद्यैव ते व्यलीकलज्जावत्यास् तथा शास्तिमहं करोमि
यथा च नैवमद्याप्यतिमन्थरवचनाभविष्यसीति
अथाह भगवान् पितामहः तं कुमारं सन्निवार्य स्वयमपृच्छत्तां ताराम्
वत्से कस्यायमात्मजः सोमस्य वा बृहस्पतेर्वा इत्युक्ता लज्जमानाह सोमस्येति
ततः प्रस्फुरदुच्ध्वासितामलकपोलकान्तिर्भगवानुडुपतिः कुमारमालिङ्ग्य साधु साधु वत्स प्राज्ञोसीतिबुध इति तस्य च नाम चक्रे
तदाख्यातमेवैतत् स च यथेलायामात्मजं पुरूरवममुत्पादयामास
पुरूरवास्त्वतिदानशीलो ऽतियज्वातितेजस्वी यं सत्यवादिनमतिरूपस्वितं मनस्विनं मित्रावरुणशापान्मानुषे लोके मया वस्तव्यमिति कृतमतिरुर्वशी ददर्श
दृष्टमात्रे च तस्मिन्नपहाय मानमशेषमपास्य स्वर्गसुखाभिलाषं तन्मनस्का भूत्वा तमेवोपतस्थे
सो ऽपि च तामतिशयितसकललोकस्त्रीकान्तिसौकुमार्यलावण्यगतिविलासहासादिगुमामवलोक्य तदायत्तचित्तवृत्तिर्बभूव
उभयमपि तन्मनस्कमनन्यदृष्टि परित्यक्तस मस्तान्यप्रयोजनमभूत्
राजा तु प्रागल्भ्यात्तामाह
सुभ्रु त्वामहमभिकामो ऽस्मि प्रसीदानुरागमुद्वहेत्युक्ता लज्जावखण्डितमुर्वशी तं प्राह
भवत्वेवं यदि मे समयपरिपालनं भवान् करोतीत्याख्याते पुनपि तामाह
आख्याहि मे समयमिति
अथ पृष्टा पुनरप्यब्रवीत्
शयनसमीपे ममोरणकद्वयं पुत्रभूतं नापनेयम्
भवांश् च मया न नग्नोद्रष्टव्यः
घृतमात्रं च ममाहार इति
एवमेवेति भूपातिरप्याह
तया सह स चावनिपतिरलाकयां चैत्ररथादिवनेष्वमलपद्मखण्डेषु मानसादिसरःस्वतिरमणीयेषु रममाण एकषष्टिवर्षाण्यनुदिनप्रवर्दधमानप्रमोदो ऽनयत्
उर्वशी च तदुपभोगात्प्रतिदिनप्रवर्धमानानु रागा अमरलोकवासे ऽपि न स्पृहां चकार
विना चोर्वश्या सुरलोको ऽप्सरसां सिद्धगन्धर्वाणां च नातिरमणीयो ऽभवत्
ततश्चोर्वशी पुरूरवसोःसमयविद्विश्वासुर्गन्धर्वसमवेतो निशि शयनाभ्याशादेकमुरणकं जहार
तस्याकाशे नीयमानस्योर्वशी शब्दमशृणोत्
एवमुवाच च ममानाथायाः पुत्रः केनापह्रियते कं शरणमुपयामीति
तदाकर्ण्य राजा मां देवी वीक्ष्यतीति न ययौ
अथान्यमप्युरणकमादाय गन्धर्वा ययुः
तस्याप्यपह्रियमाणस्याकर्ण्य शब्दमाकाशे पुनरप्यनाथास्म्यहमभर्तृका कापुरुषा श्रयेत्यार्तराविणी बभूव
राजाप्यमर्षवशादन्धकारमेतदिति खड्गमादाय दुष्टदुष्ट हतोसीति व्याहरन्नभ्यधावत्
तावच्च गन्धर्वै रप्यतीवोज्ज्वला विद्युज्जनिता
तत्प्रभया चोर्वशी राजानमपगतांबरं दृष्ट्वापवृत्तसमया तत्क्षणादेवापक्रान्ता
परित्यज्य तावप्युरणकौ गन्दर्वाःसुरलोकमुपगताः
राजापि च तौ मेषावादायातिहृष्टमनाः स्वशयनमायातो नोर्वशीं ददर्श
तां चापश्यन् व्यपगतांबर एवोन्मत्तरूपो बभ्राम
कुरुक्षेत्रे चांभोजसरस्यन्याभिश्चतसृभिर् अप्सरोभिः समवेतामुर्वशीं ददर्श
ततश्चोन्मत्तरूपो जाये हे तिष्ठ मनसि धोरे तिष्ठ वचसि कपटिके तिष्ठेत्येवमनेकप्रकारं सूक्तमवोचत्
आह चोर्वशी
महाराजालमनेनाविवेकचेष्टितेन
अन्तर्वत्न्यहमब्दान्ते भवतात्रागन्तव्यं कुमारस्ते भबिष्यति एकां च निशामहं त्वया सह वत्स्यामीत्युक्तः प्रहृष्टःस्वपुरं जगाम
तासां चाप्सरसामूर्वशी कथयामास
अयं स पुरुषोत्कृष्टो येनाहमेतावन्तं कालमनुरागाकृष्टमानसा सहोषितेति
एवमुक्तास्ताश्चाप्सरस ऊचुः
साधुसाध्वस्य रूपमप्यनेन सहास्माकमपि सर्वकालमास्या भवेदिति
अब्दे च पूर्णे स राजा तत्राजगाम
कुमारं चायुषमस्मै चोर्वशी ददौ
दत्त्वा चैकां निशां तेन राज्ञा सहोषित्वा पञ्च पुत्रोत्पत्तये गर्भमवाप
उवाच चैनं राजानमस्मत्प्रीत्या महाराजाय सर्व एव गन्धर्वा वरदाःसंवृत्ताः व्रियतां च वर इति
आह च राजा
विजितसकलारातिरविहतेन्द्रियसामर्थ्यो बन्धुमानमितबलकोशो ऽस्मि नान्यदस्माकमुर्वशीसालोक्यात्प्राप्तव्यमस्तितदहमनया सहोर्वश्या कालं नेतुमभिलषामीत्युक्ते गन्धर्वा राज्ञे ऽग्निस्थालीं ददुः
ऊचुश्चैनमग्निमाम्नायानुसारी भूत्वा त्रिधा कृत्वेर्वशी सलोकतामनोरथमुद्दिश्य सम्यग्यजेथाः ततो ऽवस्यमभिलषितमवाप्स्यतीत्युक्तस्तामग्निस्तालीमादाय जगाम
अन्तरटव्यामचितयत् अहो मे ऽतीव मुढता किमहमकरवम्
वह्निस्थाली मयैषानीता नोर्वशीति
अथैनामटव्यामेवाग्निस्थालीं तत्याज स्वपुरं च जगाम्
व्यतीतेर्ऽद्धरात्रे विनिद्रश्चाचिन्तयत्
ममोर्वशीसालोक्यप्राप्तयर्थमग्निस्थाली गन्धर्वैर् दत्ता सा च मयाटव्यां परित्यक्ता
तदहं तत्र तदाहरणाय यास्यामीत्युत्थाय तत्राप्युपगतो नाग्निस्थालीमपश्यत्
शमीगर्भं चाश्वात्थमग्निस्थालीस्थाने दृष्ट्वाचिन्तयत्
मयात्राग्निस्थाली निक्षिप्ता सा चाश्वत्थः शमीगर्भो ऽभूत्
तदेनमेवाहमग्निरूपमादाय स्वपुरमभिगम्यारणीं कृत्वा तदुत्पन्नाग्नेरुपास्तिं करिष्यामीति
एवमेव स्वपुरमभिगम्यारणिं चकार
तत्प्रमाणं चाङ्गुलैः कुर्वन् गायत्रीमपठत्
पठतश्चाक्षरसंख्यान्येवाङ्गुलान्यरण्यभवत्
तत्राग्निं निर्मथ्याग्नित्रयमाम्नायानुसारी भूत्वा जुहाव
उर्वशीसालोक्यं फलमभिसंधितवान्
तेनैव चाग्निविधिना बहुविधान् यज्ञानिष्ट्वा गान्धर्वलोकान वाप्योर्वश्या सहावियोगमवाप
एको ऽग्निरादावभवत् एकेन त्वत्र मन्वन्तरे त्रेधा प्रवर्तिताः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0