विष्णु पुराण · अध्याय 4.5
इति श्रीविष्णुमहापुराणे चतुर्थंशे चतुरथो ऽध्यायः (4)
श्रीपराशर उवाच
इक्ष्वाकुतिनयो योसौ निमिर्नाम्ना सहस्रं वत्सरं सत्रमारेभे
वसिष्ठिं च होतारं वरयामास
तमाह वसिष्ठोहमिन्द्रेण पञ्चवर्षशतयागार्थं प्रथमं वृतः
तदनन्तरं प्रतिपाल्यतामागतस्तवापि ऋत्विक् भविष्यमीत्युक्ते स पृथिवीपतिर्न किञ्चिदुक्तवान्
वसिष्ठोप्यनेन समन्विच्छितमित्यमारपतेर्यागमकरोत्
सो ऽपि तत्काल एवान्यैर् गौतमादिभिर् यागम् अकरोत्
समाप्ते चामरपतेर्यागे त्वरया वसिष्ठोनिमियज्ञं करिष्यामीत्याजगाम्
तत्कर्मकर्तृत्वं च गौतमस्य दृष्ट्वा स्वपते तस्मै राज्ञे मां प्रत्याख्यायैव तदनेन गौतमाय कर्मान्तरं समर्पितं यस्मात्तस्मादयं विदेहो भविष्यतीति शापं ददौ
प्रबुद्धश्चासाववनिपतिरपि प्रह
यस्मान्मामसंभाष्याज्ञानत एव शयानस्य शापोत्सर्गमसौ दुष्टगुरुश्चकार तस्मात्तस्यापि देहः पतिष्यतीति शापं दत्त्वा देहमत्यजत्
तच्छापाच्च मित्रावरुणयोस्तेजसि वसिष्ठस्य चेतः प्रविष्टम्
रुशीदर्शनादुद्भुतबीजप्रपातयोस्तयोःसकाशाद्वसिष्ठो देहमपरं लेभे
निमेरपि तच्छरीरमतिमनोहरगन्धतैलादिभिर् उपसंस्क्रियमाणं नैव क्लेदादिकं दोषमवाप सद्यो मृत इव तस्थौ
यज्ञसमाप्तौ भागग्रहणाय देवानागतानृत्विज ऊचुः ।
यजमानाय वरो दीयतामिति
देवैश् च छन्दितोसौ निमिराह
भगवन्तोखिलससारदुःखहन्तारः
न ह्येतादृगन्यद्दुःखमस्ति यच्छरीरात्मनोर्वियोगे भवति
तदहमिच्छामि सकललोकलोचनेषु वस्तुं न पुनः शरीरग्रहणं कर्तुमित्येवमुक्तैर् देवैर् असावशेषभूतानां नेत्रेष्ववतारितः
ततो भूतान्युन्मेषनिमेषं चक्रुः
अपुत्रस्य च तस्य भूभुजः शरीरमराजकभीरवो मुनयो ऽरण्या ममन्थुः
तत्र च कुमारो जज्ञे
जननाज्जनकसंज्ञां चावाप
अभूद्विदेहोस्य पितेति वैदेहः मथनान्मिथिरिति
तस्योदावसुः पुत्रो ऽभवत्
उदावसोर्नदिवर्धनस्ततःसुकेतुः तस्माद्देवरातस्ततश् च बृहदुक्थः तस्य चे महावीर्यस्तस्यापि सुधृति
ततश्चधृष्टकेतुरजायत
धृष्टकेतोर्हर्यश्वस्तस्य च मनुः मनोः पतिकः तस्मात्कृतरथस्तस्य देवमीढः तस्य च विबुधः विबुधस्य महाधृतिस्ततश् च कृतरातः ततो महारोमा तस्य स्वर्णरोमा तत्पुत्रो ह्रस्वरोणा ह्रस्वरोम्णःसीरध्वजो ऽभवत्
तस्य पुत्रर्थं यजनभुवं कृषतः सीरे सीता दुहिता समुत्पन्ना
सीरध्वजस्य भ्राता संकाश्यधिपतिः कुशध्वजनामासीत्
सीरध्वजस्यापत्यं भानुमान् भानुमतः शतद्युम्नः तस्य तु शुचिः तस्माच्चोर्जनामा पुत्रो जज्ञे
तस्यापि शतध्वजः ततः कृतिः कृतेरञ्जनः तत्पुत्रः कुरुजित् ततो ऽरिष्टनेमिः तस्माच्छुतायुः श्रुतायुषः सुपार्श्वाः तस्मात्सृंजयः ततः क्षेमावी क्षेमाविनो ऽनेनाः तस्माद्भौमरथः तस्य सत्यरथः तस्मादुपगुः उपगोर् उपगुप्तः तत्पुत्रः स्वागतस्तस्य च स्वानन्दः तस्माच्च सुवर्चाः तस्य सुपार्श्वः तस्यापिसुभाषः सुश्रुतः तस्मासुश्रुताज्जयः तस्य पुत्रो विजयः विजयस्य ऋतः ऋतात्सुनयः सुनयाद्वीतहव्यः तस्माद्धूतिः धृतेर्वबहुलास्वः तस्य पुत्रः कृतिः
कृतौ संतिष्ठत्ययं जनकवंशः
इत्येते मैथिलाः
प्रायेणैते आत्मविद्याश्रयिणो भूपाला भवन्ति
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0