भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 4.23

4.23.1

इति श्रीमहाविष्णुपुराणे चुतुर्थांशे द्वाविंशो ऽध्यायः (22)
श्रीपराशर उवाच
मागधानां बार्हद्रथानां भाविनामनुक्रमं कथयिष्यामि

4.23.2

अत्र हि वंशे महाबलपराक्रमा जरांसंधप्रधाना बभूवुः

4.23.3

जरासंधस्य पुत्रः सहदेवः

4.23.4

सहदेवात्सोमापिस्तस्यानुश्रुतश्रवास्तस्याप्ययुतायुस्ततश् च निरमित्रस्तत्तनयःसुनेत्रस्तस्मादपि बृहत्कर्मा

4.23.5

ततश् च सेनजित्ततश् च श्रुतञ्जयस्ततो विप्रस्तस्य च पुत्रः शुचिनामा भविष्यति

4.23.6

तस्यापि क्षेम्यस्ततश् च सुव्रतःसुव्रताद्धर्मस्ततःसुश्रवा

4.23.7

ततो दृढसेनः

4.23.8

तस्मात्सुबलः

4.23.9

सुबलात्सुनीतो भविता

4.23.10

ततःसत्यजित्

4.23.11

तस्माद्विश्वजित्

4.23.12

तस्यापि रिपुञ्जयः

4.23.13

इत्येते बार्हद्रथा भूपतयो वर्षसहस्रमेकं भविष्यन्ति

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc