विष्णु पुराण · अध्याय 4.2
इति श्रीविष्णुमहापुराणे चतुर्थाशे प्रथमोध्यायः (1)
श्रीपराशर उवाच
यावच्च ब्रह्मलोकात्स ककुद्मी रैवतो नाभ्येति तावत्पुण्यजनसंज्ञा राक्षसास्तामस्य पुरीं कुशस्थलीं नजघ्नुः
तच्चास्य भ्रातृशतं पुण्यजनत्रासाद्दिशो भेजे
तदन्वयाश्चक्षत्रियाःसर्वदिक्ष्वभवन्
वृष्टस्यापि वार्ष्टकं क्षत्रमभवत्
नाभागस्यात्मजो नाभागसंत्रोभवत्
तस्याप्यंबरीषः
अंबरीषस्यापि विरूपोभवत्
विरूपात्पृषदश्वो जज्ञे
ततश् च रथीतरः
आत्रायं श्लोकः
एते क्षत्रप्रसूता वै पुनश्चाङ्गिरसाः स्मृता ।
रथीतराणां प्रवराः क्षत्रोपेता द्विजातयः
क्षुतवतश् च मनोरिक्ष्वाकुः पुत्रो ज-ज्ञे घ्राणतः
तस्य पुत्रशतप्रधाना विकुक्षिनिमिदण्डाख्यास्त्रयः पुत्रा बभूवुः
पञ्चाशत्पुत्राः उत्तराथरक्षितारो बभूवुः
चत्वारिंशदष्टौ च दक्षिणापथभूपालाः
स चेक्ष्वाकुरष्टकायाः श्राद्धमुत्पाद्य श्राद्धार्हं मांसमानयेति विकुक्षिमाज्ञापयामास
स तथे ति गृहीताज्ञो विधृतशारासनो वनमभ्येत्यानेकशो मृगान् हत्वा श्रान्तोतिक्षुत्परीतो विकुक्षिरेकं शशमभक्षयत् ।
शेषं च मांसमानीय पित्रेनिवेदयामास
इक्ष्वाकुकुलाचार्यो वशिष्ठस्तत्प्रोक्षणाय चोदितः प्राह ।
अलमनेनामेध्येनामिषेण दुरात्मना तव पुत्रेणैतन्मांसमुपहतं यतो ऽनेन शशो भक्षितः
ततश्चासौ विकुक्षिर्गुरूणैवमुक्तः शशादसंज्ञामवाप पित्रा च परित्यक्तः
पितर्युपरते चासावखिलामेतां पृथ्वीं धर्मतः शाशास
शशादस्य तस्य पुरञ्जयोनाम पुत्रोभवत्
तस्येदं चान्यत्
पुरा हि त्रेतायां देवासुरयुद्धमतिभीषणमभवत्
तत्र चातिबलिभिर् असुरैर् अमराः पराजितास्ते भगवन्तं विष्णुमाराधयाञ्चक्रुः
प्रसन्नश् च देवानामनादिनिधनोखिलजमत्परायणो नारायणः प्राह
ज्ञातमेतन्मया युष्माभिर् यदभिलषितं तदर्थमिदं श्रूयताम्
पुरञ्जयो नाम राजर्षेः शशादस्य तनयः क्षत्रियवरो यस्तस्य शरीरेहमंशेन स्वयमेवावतीर्य तानशेषनसुरान्निहनिष्यामि तद्भवद्भिः पुरञ्जयो ऽसुरवधार्थमुद्योगं कार्यतामिति
एतच्च श्रुत्वा प्रणम्य भगवन्तं विष्णुममराः पुरञ्जयसकाशमाजग्मुरूचुश्चैनम्
भोभोः क्षत्रियवर्यास्माभिर् अभ्यर्थितेन भवतास्माकमरातिवधोद्यतानां कर्तव्यं साहाय्यमिच्छामः तद्भवतास्माकमभ्यागतानां प्रणयभङ्गो न कार्य इत्युक्तः पुंरजयः प्राह
त्रैलोक्यनाथो योयं युष्माकमिद्रः शतक्रतुरस्य यद्यहं स्कन्धाधिरूढो युष्माकमरातिभःसह योत्स्ये तदहं भवतां सहायः स्याम्
इत्याकर्ण्य समस्तदेवैर् इन्द्रेण च बाढमित्येवं समन्विच्छितम्
ततश् च शतक्रतोर्वृषरूपधारीमः ककुदि स्थितो ऽतिरोषसमन्वितो भगवतश्चरागुरोरच्युतस्य तेजसाप्यायितो देवासुरसंग्रामे समस्तानेवासुरान्निजघान
यतश् च वृषभककुदि स्थितेन राज्ञा दैतेयबलं निषूदितमतश्चासौ ककुत्स्थसंज्ञामवाप
ककुत्स्थस्याप्यनेनाः पुत्रो ऽभवत्
पुथुनेनसः
पुथोर्विष्टराश्वः
तस्यापि चान्द्रो युवनाश्वः
चान्द्रस्य तस्य युवनाश्वस्य शावस्तः यः पुरीं शावस्तीं निवेशयामास
शावस्तस्य वृहदश्वः
तस्यापि कुवालायाश्वः
योसावुदकस्य महर्षेरपकारिणं दुन्दुनामानमसुरं वैष्णवेन तेजसाप्यायितः पुत्रसहस्रैर् एकविंशद्भिः परिवृतो जवान दुन्दुमारसंज्ञामवाप
तस्य च तनयास्प्तमस्ता एव दुन्दुमुखनिस्वासाग्निना विप्लुष्टा विनेशुः
दृढाश्वचन्द्राश्वकपिलाश्वाश् च त्रयः केवलं शेषिताः
वृढाश्वाद्धर्यश्वः
तस्माच्च निकुंभः
निकुंभस्यामिताश्वः
ततश् च कृशाश्वः
तस्माच्च प्रसेनजित्
प्रसेनजितो युवनाश्वोभवत्
तस्य चापुत्रस्यातिनिर्वेदामुनीनामाश्रममण्डले निवसतो दयालुभिर् मुनिभिर् अपत्योत्पादनायेष्टः कृता
तस्यां च मध्यारात्रौ निवृत्तायां मन्त्रपूतजलपूर्णं कलशं वेदिमध्ये निवेस्य ते मुनयः सुषुपुः
सुप्तेषु तेषु अतीव तृट्परीतःस भूपालस्तमाश्रमं विवेश
तानृषीन्नैवोत्थापयामास
तच्च कलशमपरिमेयमाहत्मयमन्त्रपूतं पपौ
प्रबुद्धाश् च ऋषयः पप्रछुः केनैतं मन्त्रपूतं वारि पीतम्
अत्र हि राज्ञो युवनास्वस्य पत्नी महाबलपराक्रमं पुत्रं जनयिष्यति ।
इत्याकर्ण्य स राजा अजानता मया पीतमित्याह
गर्भश् च युवनाश्वस्योदरे अभवत् क्रमेण च ववृधे
प्राप्तसमयश् च दक्षिणाङ्गुष्ठेन कुक्षिमवनिपतेर्निर्भिद्य निश्चक्राम
स चासौ राजा ममार
जातो नामैष कं धास्यतीति ते मुनयः प्रोचुः
अथागत्य देवराजोब्रजीत् मामयं धास्यतीति
ततो माधातृनामा सोभवत् ।
वक्रे चास्य प्रदेशिनी न्यस्ता देवेन्द्रेण न्यस्तातां पपौ
तां चामृतस्त्राविणीमास्वाद्याह्नैव स व्यवर्धत
ततस्तु मान्धाता चक्रवर्ती सप्तद्वीपां महीं वुभुजे
तत्रायं श्वोकः
यावत्सूर्य उदेत्यस्तं यावच्च प्रतितिष्ठति ।
सर्वं तद्यौवनाश्वस्य मान्धातुपः क्षेत्रमुच्यते
मान्धाता शतबिन्दोर् दुहितरं बुन्दुमतीमुपयेम्
पुरुकुत्समंबरीषं मुचुकुन्दं च तस्यां पुत्रत्रयमुत्पादयामास
पञ्चाशद्दुहितरस्तस्यामेव तस्य नृपतेर्बभूवुः
एकस्मिन्नन्तरे बहूवृचश्चज सौभरिर्नाम महर्षिरन्तर्जले द्वादशाब्दं कालमुवास
तत्र चान्तर्जले संमदो नामातिबबहु प्रजोतिमात्रप्रमाणो मीनाधिपतिरासीत् ॥ 70 ॥
तस्य च पुत्रपौत्रदौहित्राः पृष्ठतो ऽग्रतः पार्श्वयोः पक्षपुच्छशिरसां चोपरि भ्रमन्तस्तेनैव सदाहर्निशमतिनिर्वृत्ता रेमिरे
स चापत्यस्पर्शोपचीयमानप्रहर्षप्रकर्षो बहुप्रकारं तस्य ऋषेः पश्यतस्तैर् आत्मजपुत्रपौत्रदौहित्रादिभिः सहानुदिनं सुरां रेमे
अथान्तर्जलावस्थितःसौभरिरेकाग्रतःसमाधिमपहायानुदिनं तस्य सत्स्यस्यात्मजपुत्रपौत्रदौहित्रा दिभिः सहातिरमणीयतामवेक्ष्याचिन्तयत्
अहो धन्योयमीदृशमनभिमतं योन्यन्तरमवाप्यैभिर् आत्मजपुत्रपौत्रदौहित्रादिभिः सह रममाणोदीवास्माकं स्पृहामुत्पादयति
वयमप्येवं पुत्रादिभिः सह ललितं रमिष्याम इत्येवमभिकाङ्क्षन् स तस्मादन्तर्ज-लान्निष्क्रम्य संतानाय निवेष्टुकामः कन्यार्थं मान्धातारं राजानमगच्छत्
आगमनश्रवणसमनन्तरं चोत्थाय तेन राज्ञा सम्यगर्घ्यादिना संपूजितः कृतासनपरिग्रहः सौभरिरुवाच राजानम्
अन्येपि संत्येव नृपाः पृथिव्यां मान्धातरेषां प्रयच्छ मे मा प्रणयं विभाङ्क्षिः ।
न ह्यर्थिनः कार्यवशादुपेताः ककुत्स्थवंशे विमुखाः प्रयान्ति
अन्येपि संत्येव नृपाः पृतिव्यां मान्धातरेषां तनयाः प्रसूताः ।
किं त्वर्थिनामर्थितदानदीक्षाकृतव्रतश्लाघ्यमिदं कुलं ते
शतार्धसंख्या स्तव संति कन्यास्तासां ममैकां नृपते प्रयच्छ ।
यत्प्रार्थनाभङ्गभयाद्बिभेमि तस्मादहं राजवरादिदुःखात्
श्रीपराशर उवाच
इति ऋषिवचनमाकर्ण्य स राजा जरार्जरितदेहमृषिमालोक्य प्रत्याख्यानकातरस्तस्माच्चच शापभीतो बिभ्यत्किञ्चिदधोमुखश्चिरं दध्यौ च
सौभरिरुवाच
नरेद्रकस्मात्सुमुपैषि चीन्तामह्यमुक्तं न मयात्र किञ्चित् ।
यावश्यदेया तनया तयैव कृतार्थता नो यदि किं न लब्धा
श्रीपराशर उवाच
अथ तस्य भगवतः शापभीतःसप्रश्रयस्तमुवाचासौ राजा
राजोवाच
भगवन् अस्मत्कुलस्थितिरियं य एव कन्याभिर् उचितो ऽभिजवान्वरस्तस्मै कन्या प्रदीयते भगवद्याच्ञा चास्मन्मनोरथानामप्यतिगोचजरवर्तिनी कथमप्येषा संजाता तदेवमुपस्थिते न विद्मः किं कुर्म इत्येतन्मयाचिन्त्यत इत्यभिहिते च तेन भूभुजा मुनिरचिन्तयत्
अयमन्यो ऽस्मत्प्रत्याख्यानोपायो वृद्धोयमनभिमतः स्त्रीणां किमत कन्याकानामित्यमुना संचिन्त्यैतदभिहितमेवमस्तु तथा करिष्यामीति संचिन्त्य मान्धातारमुवाच
यद्येवं तदादिश्यतामस्माकं प्रवेशाय ।
कंन्यान्तःपुरं वर्षवरो यदि कन्यैव काचिन्मामभिलषति तदाहं दारसंग्रहं करिष्यामि अन्यथा चेत्तदलमस्माकमेतेनातीतकालारंभणेनेत्युक्त्वा विरराम
ततश् च मान्धात्रा मुनिशापशं कितेन कन्यान्तःपुरवर्षधरःसमाज्ञप्तः
तेन सह कन्यान्तःपुरं प्रविशान्नेव भगवानखिलसिद्धगन्धर्वेभ्योतिशयेन कमनीयं रूपमकरोत्
प्रवेश्य च तमृषिमन्तःपुरे वर्षधरस्ताः कन्याः प्राह
भवतीनां जनयिता महाराजःसमाज्ञापयति
अयमस्मान् ब्रह्मर्षिः कन्यार्थं समभ्यागतः
मया चास्य प्रतिज्ञातं यद्यस्मत्कन्या या काचिद्भगवन्तं वरयति तत्कन्याच्छन्दे नाहं परिपंषथानं करिष्यामीत्याकर्म्य सर्वा एव ताः कन्याः सानुरागाः सप्रमदाः केणव इव मृगयूथपतिं तमृषिमहमहमिकया वरयांबभूवुरूचुश् च
अलं भगिन्योहमिमं वृणोमि वृणोम्यहं नैष तवानुरूपः ।
ममैष भर्ता विधिनैव सृष्टःसृष्टाहमस्योपशमं प्रयाहि
वृतो मयायं प्रथमं मयायं गृहं विशन्नेव विहन्यसे किम् ।
मया मयोतिक्षितिपात्मजानां तदर्थमत्यर्थकलिर्बभूव
यदा मुनिस् ताभिर् अतीवहार्दाद्धृतःस कन्याभिर् अनिन्द्यकीर्तिः ।
तदा स कन्याधिकृतो नृपाय यथावजाचष्ट विनम्रमूर्तिः
श्रीपराशर उवाच
तदवगमात्किङ्किभेतत्कथधमेतत्किं किं करोमि किं मयाभिहितमित्याकुलमतिरनिच्छन्नपि कथमपि राजानुमेने
कृतानुरूपविवाहश् च महर्षिःसकला एव ताः कन्याःस्वमाश्रममनयत्
तत्र चासेषशिल्पकल्पप्रणेतारं धातारमिवान्यं विश्वकर्माणमाहूय सकलकन्यानामेकैकस्याः प्रोत्फुल्लपङ्कजाः कूजत्कलहंसकारण्डवादिविहङ्गमाभिरामजलाशयाःसोपधानाः ।
सावकासाःसाधुशय्यापरिच्छदाः प्रासादाः क्रियन्तामित्यादिदेश
तच्च तथैवानुष्ठितमशेषशिल्पविसेषाचार्यस्त्वष्टा दर्शितवान्
ततः परमर्षिणा सौभरिणाज्ञप्तस्तेषु गृहेष्वनिवार्यानन्दकुन्दमहानिधिरासांचक्रे
ततो ऽनवलतेन भक्ष्यभोज्यलेह्याद्युपभोगौरागतानुगतभृत्यादीनहर्निशमशेषगृहेषु ताः क्षितिशदुहिरतो भोजयामामुः
एकदातु दुहितृस्नेहाकृष्टहृदयःस महीपतिरतिदुःखितास्ता उत सुखिता वा इति विचिन्त्य तस्य महर्षेराश्रमसमीपमुपेत्य स्फुरदंशुमालाललामां स्फटिकमयप्रासादमालामतिरम्योपवनजलाशयां ददर्श
प्रविश्य चैकं प्रासादमात्मजां परिष्वज्य कृतासनपरिग्रहः प्रवृद्धस्नेहनयनांबुगर्भनयनोब्रवीत्
अप्यत्र वत्से भवत्याःसुखमुन किञ्चिदमुखमपि ते महर्षिःस्नेहवानुत न स्मर्यतेस्मद्गुहवास इत्युक्ता तं तनया पितरमाह
तातातिरमणीयः प्रासादोत्रातिमनोज्ञमुपवनमेते कलवाक्यविहङ्गमाभिरुताः प्रोत्फुल्लपद्माकरजलाशयाः मनोनुरूलभक्ष्यभोज्यानुलेपनवस्त्रभूषणादिभोगो मृदूनि शयनासनानि सर्वसंपत्समेतं मे गार्हस्थ्यम्
तथापि केन वा जन्मभूमिर्न स्मर्यते
त्वत्प्रसादादिदमशेषमतिशोभनम्
किं त्वेकं ममैतद्दुःखकारणं यदस्मद्गृहान्महर्षिरयंमद्भर्ता न विष्क्रामति ममैव केवलमतिप्रीत्या समीपपरिवर्तिनीनामन्यासामस्मद्भगिनीनाम्
एवं च मम सोदर्योतिदुःखिता इत्येवमतिदुःखकारणमित्युक्तस्तया द्वितीयं प्रासादमुपेत्य स्वतनयां परिष्वज्योपिष्टस्तथैव वृष्टवान्
तयापि च सर्वमेतत्तत्प्रासादाद्युपभोगसुखं भृशमाख्यातं ममैव केवलमतिप्रीत्या पार्श्वपरिवर्तिनीनामन्यासामस्मद्भगिनीनामित्येवमादिश्रुत्वा समस्तप्रासादेषु राजा प्रविवेश तनयां तनयां तथैवावृच्छत्
सर्वाभिश् च ताभिस् तथैवाभिहितः परितोषविस्मयनिर्भवविवशहृदयो भगवन्तं सौभरिकेकान्तावस्थितमुपेत्य कृतपृजोब्रवीत्
दृष्टस्ते भगवन् सुमहानेष सिद्धिप्रभावो नैवंविधमन्यस्य कस्यचिदस्माभिर् विभूतिभिर् विलासितमुपलक्षितं यदेतद्भगवतस्तपसः फलमित्यभिपूज्य तमृषिं तत्रैव तेन ऋषिवर्येण चसह किञ्चित्कालमभिमतोपभोगान् बुभुजे स्वपुरं च जगाम्
कालेन गच्छता तस्य तासु राजतनयासु पुत्रशतं सार्धमभवत्
अनुदिनानुरूढस्नेहप्रसाश् च स तत्रातीवममताकृष्टहृदयो ऽभवत्
अप्येते ऽस्मत्पुत्राः कलभाषिणः पभ्द्यां गच्छेयुः अप्येते यौवनिनो भवेयुः अपि कृतदारानेतान् पश्येयमप्येषां पुत्रा भवेयुः अप्येतत्पुत्रान्पुत्रसमन्वितान्पस्यामीत्यादिमनोरथाननुदिनं कालसंपत्तिप्रवृद्धानुपेक्ष्यैतच्चिन्तयामास
अहो मे मोहस्यातिविस्तारः
मनोरथानां न समाप्तिरस्ति वर्षायुतेनाप्यथ वापि लक्षैः ।
पूर्णेषुपूर्णेषु मनोरथानामुत्पत्तयःसंति पुनर्नवानाम्
पद्भ्यां गता यौवनिनश् च जाता दारैश् च संयोगमिताः प्रसूताः ।
दृष्टाः सुतास्तत्तनयप्रसूतिन्द्रष्टुं पुनर्वाञ्च्छति मेंऽतरात्मा
द्रक्ष्यामि तेषामिति चेत्प्रसूतिं मनोरथो मे भविता ततोन्यः ।
पुर्णोपि तत्राप्यपरस्य जन्म निवर्यते केन मनोरथस्य
आमृत्युतो नैव मनोरथानामन्तोस्ति विज्ञातमिदं मयाद्य ।
मनोर्थासक्तिपरस्य चित्तं न जायते वै परमार्थसंगि
स मे समाधिर्जलवासमित्रमत्स्यस्य संगात्स हसैव नष्टः ।
परिग्रहःसंगकृतो मयायं परिग्रहोत्था च ममातिलिप्सा
दुःखं यदैवैकशरीरजन्म शतार्धसंख्याकमिदं प्रसूतम् ।
परिग्रहेण क्षितिपात्मजानां सुतैर् अनेकैर् बहुलीकृतं तत
मुतात्मजैस् तत्तनयैश् च भूयो भूयश् च तेषां परिग्रहेण ।
विस्तारमेष्यत्यदिदुःखहेतुः परिग्रहो वै ममताभिधानः
चीर्णं तपो यत्तु जलाश्रयेण तस्यार्धिरेषा तपसोंतरायः ।
मत्स्यस्य संगादभवच्च यो मे सुतादिरागो मुषितोस्मि नेन
निःसंगता मुक्तिपदं यतीनां संगादशेषाः प्रभवन्ति दोषाः ।
आरूढयोगो विनिपात्यतेधःसंगेन योगी किमुताल्पबुद्धिः
अहं चरिष्यामि तदात्मनोर्थे परिप्रहग्राहगृहीतबुद्धिः ।
यदा हि भूयः परिहिनदोषो जनस्य दुःखैर् भविता न दुःखी
सर्वस्य धातारम चिन्त्यरूपमणोरणीयांसमतिप्रमाणम् ।
सितासितं चेश्वरमीश्वराणामाराधयिष्ये तपसैव विष्णुम्
तस्मिन्नशेषौजसि सर्वरूपण्यव्यक्तविस्पष्टतनावनन्ते ।
ममाचलं चित्तमपेतदोषं सदास्तु विष्णावमवाय भूयः
समस्तभूतादमलादनन्तात्सर्वेश्वरादन्यदनादिमध्यात् ।
यस्मान्न किञ्चित्तमहं गुरूणां परं गुरुं संश्रयमेमि विष्णुमा
श्रीपराशर उवाच
इत्यात्मानिमात्मनैवाबिदायासौ सौभरिरपहाय पुत्रगृहासनपरिग्रहादिकमशेषमर्थजातं सकलभार्यासमन्वितों वनं प्रविवेश
तत्राप्यनुदिनं वैखानसनिष्पाद्यमशेषक्रियाकलापं निष्पाद्य क्षपितसकलपापः परिपक्वमनोवृत्तिरात्मन्यग्नीन्समारोप्य भिक्षुरभवत्
भगवत्यासज्याखिलं कर्मकलापं हित्वानं तमजमनादिनिधनमविकारमरणादिधर्ममवाप परमनन्तं परवतत्मच्युतं पदम्
इत्येतन्मान्धातृदुहितृसंबन्धादाख्यातम्
यश्चैतत्सौभरिचरितमनुस्मरति पठति पाठयति शृणोति श्रावयति धरत्यवधारयति लिखति लेखयति शिक्षयत्यध्यापयत्युपदिशति वा तस्य षट् जन्मानि दुःसंततिरसद्धर्मो वाड्मनसोरसन्मार्गाचरणसशेषहेतुषु वा ममत्वं न भवति
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0