भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 4.1

4.1.1

इति श्रीविष्णुमहापुराणे तृतीयांशे ऽष्टादशो ऽध्यायः (18)
श्रीविष्णुमहापुराणे तृतीयांशःसमाप्तः
इति श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्य श्रीधरीयव्याख्याद्वयोपेते तृतीयांशः समाप्तः ।
अथ श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्य श्रीधरीयव्याख्याद्वयोपेते चतुर्थंशः प्रारभ्यते ।
श्रीमते रामानुजाय नामः
मैत्रेय उवाच
भगवन्यन्नरैः कार्यं साधुकर्मण्यवस्थितैः ।
तन्मह्यं गुरुणाख्यातं नित्यनैमित्तिकात्मकम्

4.1.2

वर्मधर्मास्तथाख्याता धर्मा ये चाश्रमेषु च ।
श्रोतुमिच्छाम्यहं वंशं राज्ञां तद्ब्रूहि मे गुरो

4.1.3

श्रीपराशर वाच
मैत्रेय श्रूयतामयमनेकयज्शुरवीरधीरभूपालालङ्कृतो ब्रह्मादिर्मानवो वंशः

4.1.4

तदस्य वंशस्यनुपूर्वीमशेषवंशपापप्रणाशनाय मैत्रेयैतां कथं शृणु

4.1.5

तद्यथा सकलजगतामादिरनादिभूतःस ऋग्यजुःसामादिमयो भगवान् विष्णुस्तस्य ब्रह्मणो मर्तं रूपं हिरण्यगर्भो ब्रह्माण्डभूतो ब्रह्मा भगवान् प्राग्बभूव

4.1.6

ब्रह्मणश् च दक्षिणाङ्गुष्ठजन्मा दक्षप्रजापतिः दक्षस्याप्यदितिरदितेर्विवस्वान् विवस्वतो मनुः

4.1.7

मनोरिक्ष्वाकुनृगधृष्टशर्यातिनरिष्यन्तप्रांशुनाभगदिष्टकरूषपृषध्राख्या दश पुत्रा बभूवुः

4.1.8

इष्ठटिं च मित्रावरुणयोर् मनुः पुत्रकामश्चकार

4.1.9

तत्र तावदह्नुते होतुरपचारादिला नाम कन्या बभूव

4.1.10

सैव च मित्रावरुणयोः प्रसादात्सुद्युम्नो नाम मनोः पुत्रो मैत्रेय आसीत्

4.1.11

पुनश्चेश्वरकोपात्स्त्री सती सा तु सोममूनोर्बुधस्याश्रमसमीपे बभ्राम

4.1.12

सानुरागाच्च तस्यां बुधः पुरूरवसमात्मजमुत्पादयामास

4.1.13

जातेपि तस्मिन्नमिततेजोभिः परमर्षिभिर् इष्टिमय ऋङ्मयो यजुर्मयःसाममयोथर्वणमयःसर् ववेदमयो मनोमयो ज्ञानमयो न किञ्चिन्मयोन्नमयो भगवान् यज्ञपुरुषस्वरूपी सुद्युम्नस्य पुंस्त्वमभिलषद्भिर् यथाव दिष्टस्तत्प्रसादादिला पुनरपु सुद्युम्नो ऽभवत्

4.1.14

तस्याप्युतकलगयविनतास्त्रयः पुत्रा बभूवुः

4.1.15

सुद्युम्नस्तु स्त्रीपूर्वकत्वाद्राज्यभागं न लेभे

4.1.16

तत्पित्रा तु वसिष्ठवचनात्प्रतिष्ठान नाम नगरं सुद्युम्नाय दत्तं तच्चासौ पुरूरवसे प्रादात्

4.1.17

तदन्वयाश्चक्षत्रियाःसर्वै दिक्ष्वभवन् ।
पृषध्रस्तु मनुपुत्रो गुरुगोवधाच्छूद्रत्वमगमत्

4.1.18

मनोः पुत्रः करूषः करूषात्कारूषाः क्षत्रिया महाबलपराक्रमबभूवः

4.1.19

दिष्टपुत्रस्तु नाभागो वैश्यतामगमत्तस्माद्बलन्धनः पुत्रोभवत्

4.1.20

बलन्धनाद्वत्सप्रीतिरुदारकीर्तिः

4.1.21

वत्सप्रीतेः प्रांशुरभवत्

4.1.22

प्रजापतिश् च प्रांशोरेको ऽभवत्

4.1.23

ततश् च खनित्रः

4.1.24

तस्माच्चक्षुषः

4.1.25

चक्षुषाच्चतिबलपराक्रमोविंशुरभवत्

4.1.26

ततो विविंशकः

4.1.27

तस्माच्च खनिनेत्रः

4.1.28

ततश्चातिविभूतिः

4.1.29

अतिविभूतेरतिबलपराक्रमः करन्धमः पुत्रोभवत्

4.1.30

तस्मादप्यविक्षित्

4.1.31

अविक्षितोप्यतिबलपराक्रमः पुत्रो मरुत्तो नामाभवत् ।
यस्येमावद्यापि श्लोकौ गीयेत्

4.1.32

मरुत्तस्य यथा यज्ञस् तथा कस्याभवद्भुवि ।
सर्वं हिरण्मयं यस्य यज्ञवस्त्वतिशोभनम्

4.1.33

अमाद्यदिद्रःसोमेन दक्षिणाभिर् द्विजातयः ।
मरुतः परिवेष्टारःसदस्याश् च दिवौकसः

4.1.34

स मरुत्तश्चक्रवर्ति नरिष्यन्तनामानं पुत्रमवाप

4.1.35

तस्माच्च दमः

4.1.36

दमस्य पुत्रो राजवर्धनो जज्ञे

4.1.37

राजवर्धनात्सुवृद्धिः

4.1.38

सुवृद्धेः केवलः

4.1.39

केवलात्सुधृतिरभूत्

4.1.40

ततश् च नरः

4.1.41

तस्माच्चन्द्रः

4.1.42

ततः केवलोभूत्

4.1.43

ततः केवलोभूत्

4.1.44

बन्धुमतो गृवेगवान्

4.1.45

वेगवतो बुधः

4.1.46

ततश् च तृणबिन्दुः

4.1.47

तस्याप्येका कन्या इलविलानाम

4.1.48

ततश्चालंबुसानाम वराप्सरास्तृटणबिन्दुं भेजे

4.1.49

तस्यामप्यस्य विशालो जज्ञे यः पुरीं विशालं निर्ममे

4.1.50

हेमचन्द्रश् च विशालस्य पुत्रोभवत्

4.1.51

ततश्चन्द्रः

4.1.52

तत्तनयो धूम्राक्षः

4.1.53

तस्यापि सृंजयो ऽभूत्

4.1.54

सृंजयात्सहदेवः

4.1.55

ततश् च कृशाश्वो नाम पुत्रोभवत्

4.1.56

सोमदत्तः कृशाश्वाज्जज्ञे योश्वमेधानां शतमाजहार

4.1.57

तत्पुत्रो जनमेजयः

4.1.58

जनमेजयात्सुमतिः

4.1.59

एते वैशालिका भूभृतः

4.1.60

श्लोकोप्यत्र गीयते

4.1.61

तृणबिन्दोः प्रसादेन सर्वे वैशालिका नृपाः ।
दीर्घायुषो महात्मानो वीर्यवन्तोतिधर्मिकाः

4.1.62

शर्यातेः कन्या सुकन्यानामाभवत् यामुपयेमेच्यवन्

4.1.63

आनर्तनामा परमधार्मिकः शर्यातिपुत्रोभवत्

4.1.64

आनर्तस्यापि रेवतनामा पुत्रो जज्ञे यो ऽसावानर्त्तविषयं बुभुजे पुरीं च कुशस्थलीमध्युवास

4.1.65

रेवतास्यापि रैवतः पुत्रः ककुद्मिनामा धर्मात्मा भ्रातृशतस्य ज्योष्ठो ऽभवत्

4.1.66

तस्य रेवतीनामकन्याभवत्

4.1.67

स तामादाय कस्योयमर्हतीति भगवन्तमब्जयोनिं प्रष्टुं ब्रह्मलोकं जगाम्

4.1.68

तावच्च ब्रह्मणोन्तिके हाहाहूहूसंज्ञाभ्यां गन्धर्वाभ्यामतितानं नाम दिव्यं गान्धर्वमगीयत

4.1.69

तच्च त्रिमार्गपरिवृत्तैर् अनेकयुगपरिवृत्तिं तिष्ठन्नपि रैवतः शृण्वन्मुहूर्त्तमिव मेने

4.1.70

गीतावसाने चज भगवन्तमब्जयोनिं प्रणम्य रैवतः कन्यायोग्यं वरमपृच्छत्

4.1.71

ततश्चासौ भगवानकथयत् कथय योभिमतस्ते वर इति

4.1.72

पुनश् च प्रणम्य भगवते तस्मै यथाभिमतानात्मनःस वरान् कथयामास ।
क एषां भगवतोभिमत इति यस्मै कन्यामिमां प्रयच्छामीति

4.1.73

ततः किञ्चिदवनतशिराःसस्मितं भगवानब्जयोनिह

4.1.74

य एते भवतोभिमता नैतेषां सांप्रतं पुत्रपौत्रापत्यापत्यसंततिरस्त्यवनीतले

4.1.75

बहूनि तवात्रैव गान्धर्वं शृण्वतश्चतुर्यगान्यतीतानि

4.1.76

य एते भवतोभिमता महीतलेष्टाविंशतितममनोश्चतुर्युगमतीतप्रायञ्च वर्तते

4.1.77

आसन्नो हि कलिः

4.1.78

अन्यस्मै कन्यारत्नमिदं भवतैकाकिनाभिमताय देयम्

4.1.79

भवतोपि पुत्रमित्त्रकलत्रमन्त्रिभृत्यबन्धुबलकोशादयःसमस्ताः कालेनैतेनात्यन्तमतीताः

4.1.80

ततः पुनरप्युत्पन्नसाध्वसो राजा भगवन्तं प्रणम्य पप्रच्छ

4.1.81

भगवन्नेवमवस्थिते म येयं कस्मै देयेति

4.1.82

ततःस भगवान् किञ्चिदवनम्रकन्धरः कृताञ्जलिर्भूत्वा सर्वलोकगुरुरंभोजयोनिराह

4.1.83

ब्रह्मोवाच
न ह्यादिमध्यान्तमजस्य यस्य विद्मो वयं सर्वमयस्य धातुः ।
न च स्वरूपं न परं स्वभावं न चैव सारं परमेश्वरस्य

4.1.84

कलामुहूर्त्तादिमयश् च कालो न यद्विभूतेः परिणामहेतुः ।
अज्मनाशस्य सदैकमुर्त्तेरनामरूपस्य सनातनस्य

4.1.85

यस्य प्रसादादहमच्युतस्य मूर्तिः प्रजासृष्टिकरो ऽन्तकारी ।
क्रोधाच्च रुद्रः स्थितिहेतुभूतो यस्माच् मध्ये पुरुषः परस्मात्

4.1.86

तद्रूपम् आस्थाय सृजत्य् अजो यः स्थितौ च यो ऽसौ पुरुषस्वरूपी ।
रुद्रस्वरूपेण च योत्ति विश्वं धत्ते तथानन्तवपुःसमस्तम्

4.1.87

पाकाय योग्नित्वमुपैति लोकान्बिभर्त्ति पृथ्वीवपुख्यायात्मा ।
शक्रादिरूपी परिपाति विश्वमर्केन्दुरूपश् च तमो हिनस्ति

4.1.88

करोति चेष्टाः श्वसनस्वरूपी लोकस्य तृप्तिं च जलान्नरूपी ।
ददाति विश्वस्थितिसंस्थितस्तु सर्वावकाशं च नभःस्वरूपी

4.1.89

यःसृज्यते सर्गकृदात्मनैव यः पाल्यते पालयिता च देवः ।
विश्वत्मकःसंहृयतेन्तकारी पृथक् त्रयस्यास्य च योव्ययात्मा

4.1.90

यस्मिञ्जगद्यो जगदेतदाद्यो यं चाश्रितोस्मिञ्जगति स्वयंभूः ।
स सर्वभूतप्रभवो धरित्र्यां स्वांशेन पुष्णुर्नृप ते ऽवतीर्णः

4.1.91

कुशस्थली या तव भूप रम्या पुरी पुराभूदमरावतीव ।
सा द्वारका संप्रति तत्र चास्ते स केशवांशो बलदेवनामा

4.1.92

तस्मै त्वमेनां तनयां नरेद्र प्रायच्छ मायामनुजाय जायाम् ।
श्लोघ्यो वेरेसौ तनया तवेयं स्त्रीरत्नभूता सदृशो हि योगः

4.1.93

श्रीपराशर उवाच
इतीरितोसौ कमलोद्भवेन भुवं समासाद्य पतिः प्रजानाम् ।
ददर्श ह्रस्वान् पुरुषान् विरूपानल्पौजसःस्वल्पविवेकविर्यान्

4.1.94

कुशस्थलों तां च पुवरीमुपेत्य दृष्ट्वान्यरूपां प्रददौ स कन्याम् ।
सीरायुधाय स्फटिकाचलाभवक्षस्थलायातुलधीर्नरेद्रः

4.1.95

उच्चप्रमाणामिति तामवेक्ष्य स्वलाङ्गलाग्रेण च तालकेतुः ।
विनम्रयामास ततश् च सापि बभूव सद्यो वनिता यथान्या

4.1.96

तां रेवतींरैवतभूपकन्यां सीरायुधो ऽसौ विधिनोपयेमे ।
दत्त्वाथ स नृपो जगाम हेमालयं वै तपसे धृतात्मा

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc