विष्णु पुराण · अध्याय 4.3
इति श्रिविष्णुमहापुराणे चतुर्थाशे द्वितीयो ऽध्यायः (2)
अतश् च माधातुः पुत्रसंततिरभिधीयते
अंबरीषस्य मान्धातृतनयस्य युवनाश्वः पुत्रो ऽभूत्
तस्माद्धारीतः यतोङ्गिरसो हारीता
रसातले मौनेया नाम गन्धर्वा बभूवुःषट्कोटिसंख्यातास्तैर् अशेषाणि नागकुलान्यपहृतप्रधानरत्नाधिपत्यान्यक्रियन्त
तैश् च गन्धर्ववीर्यावबूतैर् उरगेश्वरैः स्तूयमानो भगवानशेषदेवेश आस्ते तच्छ्रवणोन्मीलिलोन्निद्रपुण्डरीकनयनो जलशयनो निद्रावसानप्रवृद्धः प्रणिपत्याभिहितः । भगवन्नस्माकमेतेभ्यो गन्धर्वेभ्यो भयमुत्पन्नं कथमुपशममेष्यतीति
आह च भगवाननादिनिधनपुरुषोत्तमो योसौ यौवनाश्वस्य मान्धातुः पुरुकुत्सनामा पुत्रस्तमहामनुप्रविश्य तानशेषान् दुष्टगन्धर्वानुपशमं नयिष्यामीति
तदाकर्ण्य भगवते जलशायिने कृतप्रणामाः पुनर्नागलोकमागताः पन्नगाधिपतयो नर्मदाञ्च पुरुकुत्सानयनाय चोदयामासुः
सा चैनं रसातलं नीतवती
रसातलगतश्चासौ यभगवत्तेजसाप्यायितात्मवीर्यःसकलगन्धर्वान्निजघान
पुनश् च स्वपुरमाजगाम
सकलपन्नगाधिपतयश् च नर्मदायै वरं ददुः ।
यत्तेनुस्मरणसमवेतं नामग्रहणं करिष्यति न तस्य सर्पविषभयं भविष्यतीति
अत्र च श्लोकः
नर्मदायै नमः प्रातर्नर्मदायै नमो निशि ।
नमोस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः
इत्युच्चार्याहर्निशमन्धकारप्रवेशे वा सर्पैर् न दश्यते न चापि कृतानुस्मरणभुजो विषमपि भुक्तमुपघाताय भवति
पुरुकुत्साय संततिविच्छेदो न भविष्यतीत्युरगपतयो परं ददुः
पुरुकुत्सो नर्मदायां त्रसद्दस्युमजीजनत्
त्रसद्दस्युतःसंभूतो ऽनरण्यः यं रावणोदिग्विजये जघान्
अनरण्यस्य पृषटश्वः पृषदश्वस्य हर्यश्वः पुत्रो ऽभवत्
तस्य च हस्तः पुत्रो ऽभवत्
ततश् च सुमनास्तस्यापि त्रिधन्वा त्रिधन्वनस्त्रय्यारुणिः
त्रय्यारुणेःसत्यव्रतः यो ऽसौ त्रिशङ्कुसंज्ञामवाप
स चण्डालतामुपगतश् च
द्वादशवर्षिक्यामनावृष्ट्यां विश्वामित्रकलत्रापत्यपोषणार्थं चण्डालप्रतिग्रहरणाय च जाह्नवीतीरन्यग्रोधे मृगमांसमनुदिनं बबन्ध
स तु परितुष्टेन विश्वामित्रेण सशरीरःस्वर्गमारोपितः
त्रिशङ्कोर्हरिश्चन्द्रस्तस्माच्च रोहिताश्वस्ततश् च हरितो हरितस्य चञ्चुश्चञ्चोर्विजयवसुदेवौ रुरुको विजयाद्रुकस्य वृकः
ततो वृकस्य बाहुः यो ऽसौ हैहयतालजङ्घादिभिः पराजितोन्तर्वत्न्या महिष्या सह वनं प्रविवेश
तस्याश्चा सपत्न्या गर्भस्तंभनाय गरो दत्तः
तेनास्य गर्भःसप्तवर्षाणि जठर एव तस्थौ
स च बाहुर्वृद्धभावादौर्वाश्रमममीपे ममार
सा तस्य भार्या चितां कृत्वा तमारोप्यानुपरणकृतनिश्चयाभूत्
अथैतामतीतानागतवर्तमानकालत्रयवेदी भगवानौर्वचःस्वाश्रमान्निर्गत्याब्रवीत्
अलमलमनेनासद्ग्राहेणाखिलभूमं डलपतिरतिवीर्यपराक्रमो नैकयज्ञकृदरातिपक्षक्षयकर्ता तवोदरे चक्रवर्ती तिष्ठति
नैवमतिसाहसाध्यवसायिनी भवती तेन त्युक्ता सा तस्मादनुमरणनिर्बन्धाद्विरराम
तेनैव च भगवता स्वाश्रममानीता
तत्र कतिवयदिनाभ्यन्तरे च सहैव तेन गरेणातितेजस्वी बालको जज्ञे
तस्यौर्वो जातकर्मादिक्रिया निष्पाद्य सगर इति नाम चकार
कृतोपनयनं चैनमौर्वो वेदशास्त्राण्यस्त्रं चाग्नेयं भार्गवाख्यमध्यापयामास
उत्पन्नबुद्धिश् च मातरमब्रवीत् ॥ 38 ॥
अंब कथयात्र वयं क्व तातोस्माकमित्ये वमादिपृच्छन्तं माता सर्वमेवावोचत्
ततश् च पितृराज्यपहरणादमर्षितो हैहयतालजङ्घादिवधाय प्रतिज्ञामकरोत्
प्रायशश् च हैहयतालजङ्घाञ्जघान
शकयवनकांभो0जपारदपप्लवाः हन्यमानास्तत्कुलगुरुं वसिष्ठं शरणं जग्मुः
अथैनान्वसिष्ठो जीवनमृतकान् कृत्वा सगरमाह
वत्सालम् एभिर् जीवन्मृतकैर् अनुमृतैः
एते च मयैव त्वत्प्रतिज्ञापारिपालनाय निजधर्मद्विजसंगपरित्यागं कारिताः
तथेति तद्गुरुवचनभिनन्द्य तेषां वेषान्यत्वमकारयत्
यवनान्मुण्डितशिरसोर्धमुण्डिताञ्च्छकान् प्रलंबकेशान् पारदान् पप्लवाञ् श्मश्रुधरान् निःस्वाध्यायवषट्कारानेतानन्यांश् च क्षत्रियांश्चकार
एते चात्मधर्मपरित्यागाद्बाह्यणैः परित्यक्ता म्लेच्छतां ययुः
सगरोपि स्मधिष्ठानमागम्य अस्खलितचक्रःसप्तद्वीपवतीमिमामुर्वीं प्रशशास
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0