विष्णु पुराण · अध्याय 4.15
इति श्रिविष्णुमहापुराणे चतुर्थांशे चतुर्दशो ऽध्यायः (14)
मैत्रेय उवाच
हिरण्यकशिपुत्वे च रावणत्वे च विष्णुना ।
अवाप निहतो भोगानप्राप्यान् अमरैर् अपि
न लयं तत्र तेनैव निहतः स कथं पुनः ।
संप्राप्तः शिशुपालत्वे सायुज्यं शाश्वते हरौ
एतदिच्छाम्यहं श्रोतुं सर्वधर्मभृत्तां वर ।
कौतूहलपरेणैतत्पृष्टो मे वक्तुमर्हसि
श्रीपराशर उवाच
दैत्येश्वरस्य वधायाशिललोकोत्पत्तिस्थितिविनाशकारिणा पूर्वं तनुग्रहणं कुर्वता नृसिंह रूपमाविष्कृतम्
तत्र च हिरण्यकशिपोर्विष्णुरयमित्येतन्न मनस्यभूत्
निरतिशयपुण्यसमुद्भूतमेतत्सत्त्वाजातमिति
रजोद्रेकप्रेरितैकाग्रमतिस्तद्भावनायोगात्ततोवाप्तवधहैतुकीं निरतिशयामेवाखिलत्रैलोक्यकारीणीं दशाननत्वे भोगसंपदमवाप
न तु स तस्मिन्ननादिनिधने परब्रह्मभूते भगवत्यनालंबिनि कृते मनसस्तल्लयमवाप
एवं दशाननत्वेप्यनङ्गपराधीनतया जानकीसमासक्तचेतसा भगवता दाशरथि रूपधारिणा हतस्य तद्रूपदर्शनमेवासीत् नायमच्युत इत्यासक्तिर्विपद्यतोन्तःकरणे मानुषबुद्धिरेव केवलमस्याभूत्
पुनरप्यच्युतविनिपातमात्रफलमखिलभूमण्डलश्लाघ्यचेदिराजकुले जन्म अव्याहतैश्वर्यं शिशुपालत्वेप्यवाप
तत्र त्वखिलानामेव स भगवन्नाम्नां त्वङ्कारकारणमभवत्
ततश् च तत्कालकृतानां तेषामशेषणामेवाच्युतनाम्नामनवरतमनेकजन्मसु वर्धितविद्वेषानुबन्धिचित्तो विनिन्दनसंतर्जनादिषूच्चारणमकरोत्
तच्च रूपमुत्फुल्लपद्मदलामलाक्षिमत्युज्ज्वलपीतवस्त्रधार्यमलकिरिटकेयूरहारकटकादिशोभितमुदारचतुर्बाहुशङ्खचक्रगदाधरमतिप्ररूढवैरानुभावादटनभोजनस्नानासनशयनादिष्वशेषावस्थान्तरेषु नान्यत्रोपययावस्य चेतसः
ततस्तमेवाक्रोशेषूच्चारयंस्तमेव हृदयेन धारयन्नात्मवधाय यावद्भगवद्धस्तचक्रांशुमालोज्ज्वालमक्षयतेजःस्वरूपं ब्रह्मभूतमपगतद्वेषादिदोषं भगवन्तमद्राक्षीत्
तावच्च भगवच्चक्रेणाशु व्यापादितस्तत्स्मरणदग्धाखिलाघसंचयो भगवतान्तमुपनीतस्ततस्मिन्नेव लयमुपययौ
एतत्तवाखिलंमयाभिहितम्
अयं हि भगवान् कीर्तितश् च संस्मृतश् च द्वेषानुबन्धेनापि अखिलमुरासुरादिर्दुल्लभं फलं प्रयच्छति किमुत सम्यग्भक्तिमत्मिति
वसुदेवस्य त्वानकदुन्दुभेः पौरवीरोहिणीमदिराभद्रादेवकीप्रमुखा बह्व्यः पत्न्यो ऽभवन्
बलभद्रशठसारणदुर्मदादीन्पुत्रार्त्नोहिण्यानकदुन्दुभिर् उत्पादयामास
बलदेवोपि रेवत्यां विशठोल्मुकौ पुत्रावजनयत्
सार्ष्टिमार्ष्टिशिशुसत्यसत्यधृतिप्रमुखाः सारणात्मजाः
भद्राश्वभद्रबाहुदुर्दमभूताद्याः रोहिण्याः कुलजाः
नन्दोपनन्दकृतकाद्य मदिरायास्तनयाः
भद्रायाश्चोपनिधिगदाद्याः
वैशाल्यां च कौशिकमेकमेवाजनयत्
आनकदुन्दुभेर्दवक्यामपि कीर्तिमत्सुषेणोदायुभद्रसेनऋजदासभद्रदेवाख्याः षट् पुत्रा जज्ञिरे
तांश् च सर्वानेव कंसोघातितवान्
अनन्तरं च सप्तमं गर्भमर्धरात्रे भगवत्प्रहितायोगनिद्रा रोहिण्या जठरमाकृष्य नीतवती
कर्षणाच्चासावपि संकर्षणाख्यामगमत्
ततश् च सकलजगन्महातरुमूलभूतोभूतभविष्यदादिसकलमुरासुरमुनिजनमनसामप्यगोचरो ऽब्जभवप्रमुखैर् अनलमुखैः प्रणम्यावनिभारहरणाय प्रसादितो भगवाननादिमध्यनिधनोदेवकीगर्भमवततार वासुदेवः
तत्प्रसादविवद्धमानोरुमहिमा च योगनिद्रा नन्दगोपपत्न्या यशोदाया गर्भमधितिष्ठितवती
सुप्रसन्नादित्यचन्द्रादिग्रहमव्यालादिभयं स्वस्थमानसमखिलमेवैतज्जगदपास्ताधर्ममभवत्त्स्मिश् च पुण्डरीकनयने जायमाने
जातेन च तेनाखिलमेवैतत्सन्मार्गवर्ति जगदक्रियत
भगवतोप्यत्र मर्त्यलोके ऽवतीर्णस्य षोडशसहस्राण्येकोत्तरशताधिकानि भार्याणाम भवन्
तासां च रुक्मिणी सत्यभामा जांबवती चारुहासिनीप्रमुखा ह्यष्टौ पत्न्यः प्रधाना बभूचवुः
तासु चाष्टावयुतानिलक्षं च पुत्राणां भगवानखिलमूर्तिरनादिमानजनयत्
तेषां च प्रद्युम्नचारुदेष्ण्यसांबादयः त्रयोदश प्रधानाः
प्रद्युम्नोपि रुक्मिणस्तनयां रुक्मवतीं नामोपयेमे
तस्यामनिरुद्धो जज्ञे
अनिरुद्धो ऽपि रुक्मिणा एव पौत्रीं सुभद्रां नामो पयेमे
तस्यामस्य वज्रो जज्ञे
वज्रस्य प्रतिबाहुः तस्यापि सुचारुः
एवमनेकशतसहस्6पुषसंख्यस्य यदुकुलस्य पुत्रसंख्या वर्षशतैर् अपि वक्तुं न शक्यते
यतो हि श्लोकाविमावत्र चरितार्थौ
तिस्त्रः कोट्यःसहस्राणामष्टाशीति शतानि च ।
कुमाराणां कृहाचार्याश्चापयोगेषु ये रताः
संख्यानं यादवानां कः करिष्यति महात्मनाम् ।
यत्रायुतानामयुतलक्षेणास्ते सदाहुकः
देवासुरे हता ये तु दैतेयाःसुमहाबलाः ।
उत्पन्नास्ते मनुष्येषु प्रमाणे च प्रभुत्वे च व्यवस्थितः ।
निदेशस्थायिनस्तस्य ववृधुःसर्वयादवाः
इति प्रसूतिं वृष्णीनां यश्र्शृणोति नरः सदा ।
स सर्वैः पातकैर् मुक्तो विष्णुलोकं प्रपद्यते
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0