ग्रंथ पाठ
विष्णु पुराण · अध्याय 4.16
4.16.1
इति श्रीविष्णुमहापुराणे चतुर्थांशे पञ्चदशो ऽध्यायः (15)
श्रीपराशर उवाच
इत्येष समासतस्ते यदोर्वंशः कथितः
4.16.2
अथ दुर्वसोर्वशमवधारय
4.16.3
दुर्वसोर्वह्निरात्मजः बह्नेर्भार्गः भार्गाद्भानुः ततश् च त्रयीसानुः तस्माच्च करन्दमः तस्यापि मरुत्तः
4.16.4
सोनपत्योभवत्
4.16.5
ततश् च पौरवं दुष्यन्तं पुत्रमकल्पयत्
4.16.6
एवं ययातिशापात्तद्वंशः पौरवमेव वंशं समाश्रितवान्
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0