भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 4.14

4.14.1

इति श्रीविष्णुमहापुराणे चतुर्थांशे त्रयोदशो ऽध्यायः (13)
श्रीपराशर उवाच
अनमित्रस्य पुत्रः शिनिर्नामाभवत्

4.14.2

तस्यापि सत्यकः सत्यकात्सात्यकिर्युयुधानापरनामा

4.14.3

तस्मादपि संजयः तत्पुत्रश् च कुणिः कुणेर्युगन्धरः

4.14.4

इत्येते शैनेयाः

4.14.5

अनमित्रस्यान्वये वृष्णिः तस्मात् श्चफल्कः तत्प्रभावः काथेन एव

4.14.6

श्वफल्कस्यान्यः कनीयांश्चित्रकोनाम भ्राता

4.14.7

श्वफल्कादक्रूरो गान्दिन्यामभवत्

4.14.8

तथोपमद्गः

4.14.9

उपमद्गोर्मृदामृदविश्वारिमेजयगिरिक्षत्रोपक्षत्रशतघ्नारिमर्दनधर्मदृग्दृष्टधर्मगन्धमोजवाहप्रतिवाहाख्याः पुत्राःसुताराख्या कन्या च

4.14.10

देववानुपदेवश्चाक्रूरपुत्रौ

4.14.11

पृथुविवृथुप्रमुखाश्चित्रकस्य पुत्रा बहवो बभूवुः

4.14.12

कुकुरभजमानशुचिकंबलबर्हिषाख्यास्तथान्धकस्य चत्वारः पुत्राः

4.14.13

कुकुराद्धृष्टः तस्माच्च कपोतरोमा ततश् च विलोमा तस्मादपि तुंबुरसखो ऽभवदनुसंज्ञश् च

4.14.14

अनोरानकदुन्दभिः ततश्चा भिजित् अभिजितः पुनर्वसुः

4.14.15

तस्याप्याहुकः आहुकी च कन्या

4.14.16

आहुकस्य देवकोग्रसेनौ द्वौ पुत्रौ

4.14.17

देववानुपदेवः सहदेवो देवरक्षिता च देवकस्य चत्वारः पुत्राः

4.14.18

तेषां वृकदेवोपदेवा देवरक्षिता श्रीदेवा शान्तिदेवा सहदेवा देवकी च सप्तभगिन्यः

4.14.19

ताश् च सर्वा वसुदेव उपयेमे

4.14.20

उग्रसेनस्यापि कंसन्यग्रोधसुनामानकाह्वशङ्कुसुभूमिराष्ट्रपालयुद्धतुष्टिसुतुष्टिंमत्संज्ञाः पुत्रा बभूवुः

4.14.21

कंसाकंसवतीसुतनूराष्ट्रपलिकाह्वाश्चोग्रसेनस्य तनूजाः कन्याः

4.14.22

भजमानाच्च विदूरथः पुत्रो ऽभवत्

4.14.23

विदूरथाच्छूरः शुराच्छमी शमिनः प्रतिक्षत्रः तस्मात्स्वयंभोजः ततश् च हृदिकः

4.14.24

तस्यापि कृतवर्मशतधनुर्दवार्हदेवगर्भाद्याः पुत्रा बभूवुः

4.14.25

देवगर्भस्यापि शुरः

4.14.26

शुरस्यापि मारीषा नाम पत्न्यभवत्

4.14.27

तस्यां चासौ दशपुत्रानजनयद्वसुदेवरूर्वान्

4.14.28

वसुदेवस्य जातमात्रस्यैव तद्गृहे भगवदंशावतारमव्याहतदृष्ट्या पश्यद्भिर् देवैर् दिव्यानकदुन्दुभयो वादिताः

4.14.29

ततश्चसावानकदुन्दुभिसंज्ञामवाप

4.14.30

तस्य च देवभागदेवश्रवाष्टकककुच्चक्रवत्सधारकसृंजयश्यामशमिकगञ्जूषसंज्ञा नव भ्रतरो ऽभवन्

4.14.31

पृथा श्रुतदेवा श्रुत कीर्तिः श्रुतश्रवा राजाधिदेवी च वसुदेदादीनां पञ्च भगिन्यो ऽभवन्

4.14.32

शुरस्य कुन्तिर्नाम सखाभवत्

4.14.33

तस्मै चापुत्राय पृथामात्मजां विधिना शुरो दत्तवान्

4.14.34

तां च पाण्डुरुवाह

4.14.35

तस्यां च धर्मानिलेन्द्रैर् युधिष्ठरभीमसेनार्जुनाख्यास्त्रयः पुत्राःसमुत्पादिताः

4.14.36

पूर्वमेवानूढायाश् च भगवता भास्वता कानीनः कर्णो नाम पुत्रो ऽजन्यत

4.14.37

तस्याश् च सपत्नी माद्री नामाभूत्

4.14.38

तस्यां च नासत्यदस्त्राभ्यां नकुलसहदेवौ पाण्डोः पुत्रौ जनितौ

4.14.39

श्रुतदेवां तु वृद्धधर्मा नाम कारूश उवयेमे

4.14.40

तस्याञ्च च दन्तवक्रो नाम महासुरो जज्ञे

4.14.41

श्रुतकीर्तिमपि केकयराजा उपयेमे

4.14.42

तस्यां च संतर्दनादयः कैकेयाः पञ्च पुत्रा बभूवुः

4.14.43

राजाधिदेव्यमावन्त्यौ विन्दानुविन्दौ जज्ञाते

4.14.44

श्रुतश्रवसमपि चेदिराजो दमघोषनामोपयेमे

4.14.45

तस्यां च शिशुपालमुत्पादयामास

4.14.46

स वा पूर्वमप्युदारविक्रमो दैत्यानामादिपुरुषो हिरण्यकशिपुरभवत्

4.14.47

यश् च भगवता सकललोकगुरुणा नारसिंहेन घातितः

4.14.48

पुनरपि अक्षयवीर्यशौर्यसंपत्पराक्रमगुणःसमाक्रान्तसकलत्रैलोकेश्वरप्रभावो दशाननो नामाभूत्

4.14.49

बहुकालोपभुक्तभगवत्सकाशावाप्तशरीरपातोद्भवपुण्यफलो भगवता राघवरूपिणा सो ऽपि निधनमुपपादितः

4.14.50

पुनश्चेदिराजस्य दमघोषस्यात्मजः शिशु पालनामाभवत्

4.14.51

शिशुपालत्वेपि भगवतो भूभारावतारणायावतीर्णांशस्य पुण्डरीकनयनाख्यस्योपरि द्वेषानुबन्धमतितराञ्चकार

4.14.52

भगवता च स निधनमुपानीतस्तत्रैव परमात्मभूते मनस एकाग्रतया सायुज्यमवाप

4.14.53

भगवान् यदि प्रसन्नो यथाभिलषितं ददाति तथा अग्रसन्नोपि निघ्नन् दिव्यमनुपमं स्थानं प्रयच्छति

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc