विष्णु पुराण · अध्याय 4.13
इति श्रीविष्णुमाहापुराणे चतुर्थांशे द्वादशो ऽध्यायः (12)
श्रीपराशर उवाच
भजनभजमानदिव्यान्धकदेवावृधमहाभोजवृष्णिसंज्ञाःसत्वतस्य पुत्रा बभूवुः
भजमानस्य निमिकृकणवृष्मयस्तथान्ये द्वैमात्राः शतजित्सहस्रजिदयुतजित्संज्ञास्त्रयः
देवावृधस्यापि बभ्रुः पुत्रो ऽभवत्
तयो श्चायं श्लोको गीयते
यथैव शृणुमो दू6रात्संपश्यामस्तथान्तिकात् ।
बभ्रुः श्रोष्ठो मनुष्याणां देवैर् देवावृधःसमः
पुरुषाः षट् च षष्टिश् च सहस्राणि तथाष्ट ये ।
ते ऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि
महाभोजस्त्वतिधर्मात्मा तस्यान्वये भोजाः मृत्ति कावरपुरनिवासिनो मार्तिकावरा बभूवुः
वृष्णे सुमित्रो युधाजिच्च पुत्रावभूताम्
ततश्चानमित्रः तथानमित्रान्निघ्नः
निघ्नस्य प्रसेन सत्राजितौ
तस्य च सत्राजितो भगवानादित्यः सखाभवत्
एकदा त्वंभोनिधितीरसंश्रयः सूर्यं सत्राजित्तुष्टाव तन्मनस्कतया च भास्वानभिष्टूयमानो ऽग्रतस्तस्थौ
ततस्त्वस्पष्टमूर्तिरं चैनमानोक्य सत्राजित्सूर्यमाह
यथैव व्योम्नि बह्निपिण्डोपमन्त्वामहमपश्यं तथैवाद्याग्रतो गतमप्यत्र भगवता किञ्चिन्न प्रसादीकृतं विशेषमुपलक्षयामीत्येवमुक्ते भगवता सूर्येण निजकण्ठादुन्मुच्य स्यमन्तकं नाम महामणिवरमवतार्यैकान्ते न्यस्तम्
ततस्तमाताम्रोज्ज्वलं ह्रस्ववपुषमीषदापिङ्गलनयनमादित्यमद्राक्षीत्
कृतप्रणिपातस्तवादिकं च सत्राजितमाह भगवानादित्यःसहस्रदीधितिः वरमस्मत्तोभिमतं वृणीष्वेति
स च तदेव मणिरत्नमयाचत
स चापि तस्मै तद्दत्त्वा दीधितिपतिर्वियति स्वधिष्म्यमारुरोह
सत्राजितो ऽप्यमलमणिरत्नसनाथकण्ठतया सूर्य इव तेजोभिर् अशेषदिगन्तराण्युद्भासयन् द्वारकां विवेश
द्वारकावासी जनस्तु तमायान्तमवेक्ष्य भगवन्तमादिपुरुषं पुरुषोत्तममवनिभारावतरणायांशेन मानुषरूपधारिमं प्रणिपत्याह
भगवन् भवन्तं द्रष्ट्रं नूनमयमादित्य आयातीत्युक्तो भगवानुवाच
भगवान्नायमादित्यः सत्राजितो ऽयमादित्यदत्तस्यमन्तकाख्यं महामणिरत्नं बिभ्रदत्रोपयाति
तदेनं विस्त्रब्धाः पश्यतेत्युक्तास्ते तथैव ददृशुः
स च तं स्यमन्तकमणिमात्मनिवेशने चक्रे
प्रतिदिनं तन्मणिरत्नमष्टौ कनकभारान्स्त्रवति
तत्प्रभावाच्च सकलस्यैव राष्ट्रस्योपसर्गानावृष्टिव्यालाग्नितो यद्दुर्भिक्षादिभयं न भवति
अच्युतो ऽपि तद्दिव्यं रत्नमुग्रसेनस्य भूपतेर्योग्यमेतदिति लिप्सां चक्रे
गोत्रभेदभयाच्छक्तोपि न जहार ॥ 28 ॥
सत्राजिदप्यच्युतो मामेतद्याचयिष्यतीत्यवगम्य रत्नलोभाद्भ्रात्रे प्रसेनाय तद्रत्नमदात्
तच्च शुचिना ध्रियमाणमशेषमेव सुवर्णस्त्रवादिकं गुणजातमुत्पादयति अन्यथा धारयन्तमेव हन्तीत्यजानन्नसावपि प्रसेनस्तेन कण्ठसक्तेन स्यमन्तकेनाश्वमारुह्याटव्यां मृगयामगच्छत्
तत्र च सिंहाद्वधमवाप
साश्वं च तं निहत्य सिंहोप्यमलमणिरत्नमास्याग्रेणादांय गन्तुमभ्युद्यतः ऋक्षाधिपतिना जांबवता दृष्टो घातितश् च
जांबवानप्यमलमणिरत्नमादाय स्वबिलं प्रविवेश
सुकुमारसंज्ञाय बालकाय च क्रीडनकमकरोत्
अनागच्छति तस्मिन्प्रसेने कृष्णो मणिरत्नमभिलषितवान्स च प्राप्तनान्नूनमेतदस्य कर्मेत्यखिल एव यदुलोकः परस्परं कर्माकर्ण्याकथयत्
विदितलोकापवादवृत्तान्तश् च भगवान् सर्वयदुसैन्यपरिवारपरिवृतः प्रसेनाश्वपदवीमनुससार
ददर्श चाश्वसमवेतं प्रसेनं सिंहेन विनिहतम्
अखिलजनमध्ये सिंहपददर्शनकृतपरिशुद्धः सिंहपदमनुससार
ऋक्षपतिनिहतं च सिंहमप्यल्पे भूमिभागे दृष्ट्वा ततश्चतद्रत्नगौरवादृक्षस्यापि पदान्यनुययौ
गिरितटे च सकलमेव तद्यदुसैन्यमवस्थाप्य तत्पदानुसारी ऋक्षबिलं प्रविवेश
अन्तः प्रविष्टश् च धात्र्याः सुकुमारकमुल्लालयन्त्या वाणीं शुश्राव
सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः ।
सुकुमारकमा रोदीस्तव ह्येष स्यमन्तकः
इत्याकर्ण्योपलब्धस्यमन्तकोन्तःप्रविष्टः कुमारक्रीडनकीकृतं च धात्र्या हस्ते तेजोभिर् जाज्वचल्यमानंस्यमन्तकं ददर्श
तं च स्यमन्तकाभिलषितचक्षुषमपूर्वपुरुषमागतं समवेक्ष्य धात्री त्राहित्राहीति व्याजहार
तदार्तरवश्रवणानन्तरं चामर्षूर्णहृदयः स जांबवानाजगाम
तयोश् च परस्परमुद्धतामर्षयोर्युद्धमकविंशतिदिनान्यभवत्
ते च यदुसैनिकास्तत्र मप्ताष्टादिनानि तन्निष्क्रान्तिमुदिक्षमाणास्तस्थुः
अनिष्क्रमणे च मधुरिपुरसाववश्यमत्र बिले ऽत्यन्तं नाशमवाप्तो भविष्यत्यन्यथा तस्य जीवतः कथमेतावन्ति दिनानि शत्रुजये व्याक्षेपो भविष्यतीति कृताध्यवसाया द्वारकामागम्य हतः कृष्ण इति कथयामासुः
तद्वान्धवाश् च तत्कालोचितमखिलमुत्तरक्रियाकलापं चक्रुः
ततश्चास्य युद्ध्यमानस्यातिश्रद्धादत्तविशिष्टोपपात्रयुक्तान्नतोयादिना श्रीकृष्णस्य बलप्राणपुष्टचिरभूत्
इतरस्यानुदिनमतिगुरुपुरुषभेद्यमानस्य अतिनिष्ठुरप्रहारपातपीजिताखिलावयवस्य निराहारतया बलहानिरभूत्
निर्जितश् च भगवता जांबवानप्रणिपत्य व्याजहार
सुरासुरगन्धर्वयक्षराक्षलसादिभिर् अप्यखिलैर् भवान् न जेतुं शक्यः किमुतावनिगोचरैर् अल्पवीर्यैर् नरेर्नरावयवभूतैश् च तिर्यग्योन्यनुसृतिभिः किं पुनरस्मद्विधैर् अवश्यं भवतास्मत्स्वामिना रामेणेन नारायणस्य सकलजगत्परायणस्यांशेन भगवता भवितव्यमित्युक्तस्तस्मै भगवानखिलावनिभारावतरणार्थमवतरणमाचचक्षे
प्रीत्यभिव्यञ्जितकरतलस्पर्शनेन चैनमपगतयुद्धखेदं चकार
स च प्रणिपत्य पुनरप्येनं प्रसाद्य जांबवतीं नाम कन्यां गृहागतायार्घ्यभूतां ग्राहयामास
स्यमन्तकमणिरत्नमपि प्रणिपत्य तस्मै प्रददौ
अच्युतोप्यतिप्रणतात्तस्मादग्राह्यमपि तन्मणिरत्नमात्मसंशोधनायजग्राह
सह जांबवत्या स द्वारकामाजगाम
भगवदागमनोद्भूतहर्षोत्कर्षस्य द्वारकावासिजनस्य कृष्णवलोकनात्तत्क्षणमेवातिपरिणतवयसो ऽपि नवयौवनमिवाभवत्
दिष्ट्यादिष्ट्येति सकलयादवाः स्त्रियश् च सभाजयामासुः
भगवानपि यथानुभूतमशेषंयादवसमाजे यथावदाच्चक्षे
स्यमन्तकं च सत्राजिताय दत्त्वा मिथ्याभिशस्तिपरिशुद्धिमवाप
जांबवतीं चान्तःपुरं निवेशयामास
सत्राजितोपि मयास्याभूतमलिनमारोपितमिति जातसंत्रासात्स्वसुतां सत्यभामां भगवते भार्यार्थं ददौ
तां चाक्रूरकृतवर्मशतधन्वप्रमुखा यादवाः प्राग्वरयाम्बभूवुः
ततस्तत्प्रदानादवज्ञातमेवात्मानं मन्यमानाः सत्राजिते वैरानुबन्धं चक्रुः
अक्रूरकृतवर्मप्रमुखाश् च शतधन्वानमूचुः
अयमतीव दुरात्मा सत्राजितो यो ऽस्माभिर् भवता च प्रार्थितो ऽप्यात्मजामस्मान् भवन्तं चाविगणय्य कृष्णाय दत्तवान्
तदलमनेन जीवता घातयित्वैनं तन्महारत्नं स्यमन्तकाख्यं त्वया किं न गृह्यते वयमभ्युपपत्स्यामो यद्यच्युतस्तवोपरि वैरानुबन्धं करिष्यतीत्येवमुक्तस्तथेत्यसावप्याह
जतुगृहदग्धानां पाण्डुतनयानां विदितपरमार्थो ऽपि भगवान् दुर्योधनप्रयत्नशौथिल्यकरणार्थ पार्थानुकूल्यकरणाय वारणावतं गतः
गते च तस्मिन् सुप्तमेव सत्राजितं शतधन्वा जघान मणिरत्नं चाददात्
पितृवधामर्षपूर्णा च सत्यभामा शीघ्रं स्यन्दनमारूढा वारणावतं गत्वा भगवते ऽहं प्रतिपादितेत्यक्षान्तिमता शतधन्वनास्मत्पिता व्यापादितः तच्च स्यंमन्तकमणिरत्नमपहृतं यस्यावभासनेनापहृततिमिरं त्रैलोक्यं भविष्यति
तदीयं त्वदीयापहासना तदालोच्य यदत्र युक्तं तत्क्रियतामिति कृष्णमाह
तया चैवमुक्ताः परीतुष्टान्तः करणो ऽपि कृष्णः सत्यभामाममर्षताम्रनयनः प्राह
सत्ये ममैवैषापहासना नाहमेतां तस्य दुरात्मनःसहिष्ये
न ह्यनुल्लङ्घ्य परपादपं तत्कृतनीडाश्रयिणो विहङ्गमा वध्यन्ते तदलममुनास्मत्पुरतः सौकप्रोरितवाक्यपरिकरेणेत्युक्त्वा द्वारकामभ्येत्यै कान्ते बलदेवं वासुदेवः प्राह
मृगयागतं प्रसेनमटव्यां मृगपतिर्जघान
सत्राजितो ऽप्यधुना शतधन्वना निधनं प्रापितः
तदुभयविनाशात्तन्मणिरत्नमावाभ्यां सामान्यं भविष्यति
तदुत्तिष्ठारुह्यतां रथः शतधन्वनिधनायोद्यमं कुर्वित्यभिहितस्तथेति समन्विच्छितवान्
कृतोद्यमौ च तावुभावुपलभ्य शतधन्वा कृतवर्माणमुपेत्य पार्ष्णिपूरमकर्मनिमित्तमचोदयत्
आह चैनं कृतवर्मा
नाहं बलदेववासुदेवाभ्यां सह विरोधायालमित्युक्तश्चाक्रूरमचोदयत्
असावप्याह
न हि कश्चिद्भगवता पादप्रहारपरिकंपितजगत्त्रयेण सुररिषुवनितावैधव्यकारिणा प्रबलरिपुचक्राप्रतिहतचक्रेण चक्रिणा मदमुदितनयनावलोकनाखिलनिशातनेनातिगुरुवैरिवारणापकर्षणाविकृतमहिमोरुसीरेण सीरिणा च सह सकलजगद्वन्द्यानाममरवराणामपि योद्धुं समर्थः
किमुताहं तदन्यः शरणमभिलष्यतामित्युक्तः शतधनुराह
यद्यस्मत्परित्राणासमर्थं भवानात्मनमधिगच्छति तदयमस्मत्तस्तावन्मणिः संगृह्य रक्ष्यतामिति
एकमुक्तः सो ऽप्याह
यद्यन्त्ययामप्यवस्थायां न कस्मैचिद्भवान् कथयिष्यति तदहमेतं ग्रहीष्यामीति
तथेत्युक्ते चाक्रूरस्तन्मणिरत्नं जग्राह
शतधनुरप्य तुलवेगां शतयोजनवाहिनींवडवामारुह्यपक्रान्तः
शैव्यसुग्रीवम्घपुष्पबलाहकाश्वचतुष्टययुक्तरथस्थितौ बलदेववासुदेवै तमनुप्रयातौ
सा च वडवा शतयोजनप्रमाणमार्गमतीता पुनरपि वाह्यमाना मिथिलावनोद्देशे प्राणानुत्ससर्ज
शतधनुरपि तां परित्यज्य पदातिरेवाद्रवत्
कृष्णोपि बलभद्रमाह
तावदत्र स्यन्दने भवता स्थेयमहमेनमधमाचारं पदातिरेव पदातिमनुगम्य यावद्धातयामि अत्र हि भूभागे दृष्टदोषाःसभया अतो नैतेश्वा भवतेमं भूमिभागमुल्लङ्घनीयाः
तथेत्युक्त्व बलदेवो रथ एव तस्थौ
कृष्णोपि द्विक्रोशमात्रं भूमिभागमनुसृत्य दूरस्थितस्यैव चक्रं क्षिप्त्वा शतधनुषः शिरश्चिच्छेद
तच्छरीरांबरादिषु च बहुप्रकारमन्विच्छन्नपि स्यमन्तकमणिं नावाप पदा तदोपगम्य बलभद्रमाह
वृथैवास्माभिः शतधनुर्घातितः न प्राप्तमशिलजगत्सारभूतं तन्महारत्नं स्यमन्तकाख्यमित्याकर्ण्योद्भूतकोपो बलदेवो वासुदेवमाह
धिक्त्वां यस्त्वमेवमर्थलिप्सुरेतच्च ते भ्रातृत्वान्मया क्षान्तं तदयं पन्थाःस्वेच्छया गम्यतां न मे द्वारकया न त्वया न चाशेषबन्धुभिः कार्यमलमलमेभिर् ममाग्रतो ऽलीकशपथैर् इत्याक्षिप्य तत्कथां कथञ्चित्प्रसाद्यमानोपि न तस्थौ
स विदेहपुरीं प्रविवेश
जनकराजश्चार्घ्यपूर्वकमेनं गृहं प्रवेशयामास
स तत्रैव च तस्थौ
वासुदेवो ऽपि द्वारकामाजगाम
यावच्च जनकराजगृहे बलभद्रो ऽवतस्थे तावद्धार्तराष्ट्रो दुर्योधनस्तत्सकाशाद्गदाशिक्षामशिक्षयत्
वर्षत्रयान्ते च बभ्रूग्रसेनप्रभृतिभिर् यादवैर् न तद्रत्नं कृष्णेनापहृतमिति कृतावगतिभिर् विदेहनगरीं गत्वा बलदेवःसंप्रत्याय्य द्वारकामानीतः
अक्रूरोप्युत्तममणिसमुद्भुतसुवर्णेन भगवद्ध्यानपरो ऽनवरतं यज्ञानियाज
सवनगतौ हि क्षत्रियवैश्यौ निघ्नन्ब्रह्याहा भवतीत्येवंप्रकारं दीक्षाकवचं प्रविष्टड एव तस्थौ
द्विषष्टिवर्षाण्येव तन्मणिप्रभावात्तत्रोपसर्गदुर्भिक्षमारिकामरणादिकं नाभूत्
अथाक्रूरपक्षीयैर् भोजैः शत्रुघ्ने सात्वतस्य प्रपौत्रे व्यापादिते भोजैः सहाक्रूरो द्वारकामपहायापक्रान्तः
तदपक्रान्तिदिनादारभ्य तत्रोपसर्गदुर्भिक्षव्यालानावृष्टिमारिकाद्युपद्रवा बभूवुः
अथ यादवा बलभद्रोग्रसेनसमवेता मन्त्रममन्त्रयन्
भगवानुरगारिकेतनः किमिदमेकदैव प्रचुरोपद्रवागमनमेतदालोच्यतामित्युक्तेन्धकनामा यदुवृद्धः प्राह
अस्याक्रूरस्य पितृश्वफल्को यत्र यत्राभूत्तत्रतत्र दुर्भिक्षमारिकानावृष्ट्यादिकं नाभूत्
काशीराजस्य विषये त्वनावृष्ट्या च श्वफल्को नीतः ततश् च तत्क्षणाद्देवो ववर्ष
काशीराजपत्न्याश् च गर्भे कन्यारत्नं पूर्वमासीत्
सा च कन्या पूर्णेपि प्रसूतिकाले नैव निश्चक्राम
एवं च तस्य गर्भस्य द्वादशवर्शण्यनिष्क्रामतो ययुः
काशीराजश् च तामात्मजां गर्भस्थामाह
पुत्रि कस्मान्न जायसे निष्क्रम्य तामास्यं ते द्रष्टुमिच्छामि एतां च मातरं किमितिचिरं क्लेशयिष्यसीत्युक्ता गर्भस्थैव व्याजहार
तात यद्येकैकां गां दिनेदिने ब्राह्मणाय प्रयच्छसि तदहमन्यैस् त्रिभिर् वर्षैर् अस्माद्गर्भात्ततो ऽवश्यं निष्क्रमिष्यामीत्येद्वचनमाकर्ण्य राजा दिनेदिने ब्राह्मणाय गां प्रादात्
सापि तावता कालेन जाता
ततस्तस्याः पिता गान्दिनीति नाम चकार
तां च गान्दिनीं कन्यां श्फलकायोपकारिणे गृहमागतायार्घ्य भूतां प्रादात्
तस्यामयमक्रूरः श्वफलकाज्जज्ञे
तस्यैवङ्गुणमिथुनादुत्पत्तिः
तत्कथमस्मिन्नपक्रान्ते अत्र दुर्भिक्षमारिकाद्युपद्रवा न भविष्यन्ति
तदयमात्रानीयतामलमतिगुणवत्यपराधान्वेषणेनेति यदुवृद्धस्यान्धकस्यैतद्वचनमाकर्म्य केशवोग्रसेनबलभद्रपुरोगमैर् यदुभिः कृतापराधतितिक्षुभिर् अभयं दत्त्वा श्वफलकपुत्रःश्वपुमानीतः
तत्र चागतमात्र एव तस्य स्यमन्तकमणेः प्रभावादनावृष्टिमारिकादुर्भिक्षव्यालाद्युपद्रवोपशमा बभूवुः
कृष्णश्चिन्तयामास
स्वल्पमेतत्कारणं यदयं गान्दिन्यां श्वफलकेनाक्रूरो जनितः
सुमहांश्चायमनावृष्टिदुर्भिक्षमारिकाद्युपद्रवाप्रतिषेधकारी प्रभावः
तन्नृन मस्य सराशे स महामणिः स्यमन्तकाख्यस्तिष्ठति
तस्य ह्योवंविधाः प्रभावाः श्रुयन्ते
अयमपि च यज्ञादनन्तरमन्यत्क्रत्वन्तरं तस्यानन्तरमन्यद्यज्ञान्तरं चाजस्त्रमविच्छिन्नं यजतीति
अनल्पोपादानं चास्यासंशयमत्रऽसौ मणिवरस्तिष्ठितीति कृताध्यवसायो ऽन्यत्प्रयोजनमुद्दिश्य सकलयादवसमाजमात्मगृह एवाचीकरत्
तत्र चोपविष्टोष्वखिलेषु यदुषु पूर्वं प्रयोजनमुपन्यस्य पर्यवसिते च तस्मिन् प्रसंगान्तरपरिहासकथामक्रूरेण कृत्वा जनार्दनस्तमक्रूरमाह
दानपते जानीम एव वय यथा शतधन्वना तदिदमखिलजगत्सारभूतं स्यमन्तकं रत्नं भवतः तदशेषराष्ट्रोपकरकं भवत्सकाशे तिष्ठति तिष्ठतु सर्व एव वयं तत्प्रभावफलभुजः किं त्वेष बलभद्रो ऽस्मानाशङ्कितवांश्तदस्मत्प्रीतये दर्शयस्वेत्यभिदाय जोषं स्थिते भगवति वासुदेवे सरत्नःसोचिन्तयत्
किमत्रानुष्ठेयमन्यथा चेद्ब्रवीम्यहं तत्केवलांबरतिरोधानमन्विष्यन्तो रत्नमेते द्रक्ष्यन्ति अतिविरोधो न क्षम इति संचिन्त्य तमखिलजगत्कारणभूतं नारायणमाहक्रूरः
भगवन्ममैतत्स्यमन्तकरत्नं सतधनुषा समर्पितमपगते च तस्मिन्नद्य श्वः परश्वो वा भगवान् याचयिष्यतीति कृतमतिरतिकृच्छ्रेणैतावन्तं कालमधारयम्
तस्य च धारणशेक्लेनाहमशेषोपभोगेष्वसंगिमानसो न वेद्भिस्वसुखकलामपि
एतावन्मात्रमप्यशेषराष्ट्रोपकारी धारयितुं न शक्नोति भवान्मन्यत इत्यात्मना न चोदितवान्
तदीदं स्यमन्तकरत्नं गृह्यतामिच्छया यस्याभिमतं तस्य समर्प्यताम्
ततः स्वोदरवस्त्रनिगोपितमतिसघुकनकसमुद्गकगतं प्रकटीकृतवान्
ततश् च निष्क्राम्य स्यमन्तकमणिं तस्मिन्यदुकुलसमाजे मुमोच
मुक्तमात्रे च तस्मिन्नतिकान्त्या तदखिलमास्थानमुद्योतितम्
अथाहाक्रुरः स एष मणिः शतधन्वनास्माकं समर्पितः यस्यायं स एनं गृह्णातु इति
तमालोक्यसर्वयादवानां साधुसाध्विति विस्मितमनसां वाचो ऽश्रूयन्त
तमालोक्यातीव बलभद्रो ममायमच्युतेनैव सामान्यःसमन्विच्छित इति कृतस्पृहो ऽभूत्
ममैवायं पितृधनमित्यतीव च सत्यभामापि स्पृहयाञ्चकार
बलसत्यावलोकनात्कृष्णोप्यात्मानं गोचक्रान्तरावस्थितमिवमेने
सकलयादवसमक्षं चाक्रूरमाह
एतद्धि मणिरत्नमात्मसंसोधनाय एतेषां यदूनां मया दर्शितम् एतच्च मम बलभद्रस्य च सामान्यं पितृधनं चैतत्सत्यभामाया नान्यस्यैतत्
एतच्च सर्वकालं शुचिना ब्रह्मचर्यादिगुणवता ध्रियमाममशेषराष्ट्रस्योपकारकमशुचिना ध्रयमाणमाधारमेव हन्ति
अतोहमस्य षोडशस्त्रीसहस्रपरिग्रहादसमर्थो धारणे कथमेतत्सत्यबामा स्वीकरोति
आर्बलभद्रेणापि मदिरापानाद्यशेषोपभोगपरित्यागः कर्यः
तदलं यदुलोकोयं बलभद्रः अहं च सत्या च त्वां दानपते प्रार्थयामः
तद्भवानेव धारयितुं समर्थः
त्वद्धृतं चास्य राष्ट्रस्योपकारकं तद्भवानशेषराष्ट्रनिमित्तमेतत्पूर्ववद्धारयत्वन्यन्न वक्तव्यमित्युक्तो दानपतिस्तथेत्याह जग्राह च तन्महारत्नम्
ततःप्रभृत्यक्रूरः प्रकटेनैव तेनातिजाज्ज्वल्यम्नेनात्मकण्ठावसक्तेनादित्य इवांशुमाली चचार
इत्येतद्भगवतो मिथ्याभिशस्तिक्षालनं यः स्मरति न तस्य कदाचिदल्पापि मिथ्याभिशस्तिर्भवति अव्याहताशिलेन्द्रियश्चाखिलपापमोक्षमवाप्नोति
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0