विष्णु पुराण · अध्याय 4.12
इति श्रीविष्णुमहापुराणे चतुर्थांश एकादशो ऽध्यायः (11)
श्रीपराशर उवाच
क्रोष्टोस्तु यदुपुत्रस्यात्मजो ध्वजिनीवान्
ततश् च स्वातिः ततो रुशङ्कुः रुशङ्कोश्चित्ररथः
तत्तनयः शशिबिन्दुः चतुर्दशमहारत्नेशश्चक्रवर्त्यभवत्
तस्य च शतसहस्रं पत्नी नामभवत्
दशलक्षसंख्याश् च पुत्राः
तेषां च पृथुश्रवाः पृथुकर्मा पृथुकीर्तिः पृथुयशाः पृथुजयः पृथुदानः षट्पुत्राः प्रधानाः
पृथुश्रवसश् च पुत्रः पृथुतमः
तस्मादुशना यो वाजिमेधानां शतमाजहार
तस्य च शितपुर्नाम पुत्रो ऽभवत्
तस्यापि रुक्मकवचस्ततः परवृत्
तस्य परावृतो रुक्मेषुपृथुज्यामघवलितहरितसंज्ञास्तस्य पञ्चात्मजा बभूवुः
तस्माद्यापि ज्यामघस्य श्लोको गीयते
भार्यावश्यास्तु ये केचिद्भविष्यन्त्यथ वा मृताः ।
तेषां तु ज्यामघः श्रेष्ठः शैव्यापतिरभून्नृपः
अपुत्रा तस्य सा पत्नी शैव्या नाम तथाप्यसौ ।
अपत्यकामो ऽपि भयान्नान्यां भार्यामविन्दत
स त्वेकदा प्रभूतरथतुरगगजसंमर्दातिदारुणे महाहवे युद्ध्यमानःच सकलमेवारिचक्रमजयत्
तच्चारिचक्रमपास्तपुत्रकलत्रबन्धुबलकोशं स्वमधिष्ठानं परित्यज्य दिशः प्रतिविद्रुतम्
तस्मिंश् च विद्रुतेतित्रासलोलायतलोचनयुगलं त्राहित्राहि मां तातांब भ्रतरित्याकुलविलापविधुरं स राजकन्यारत्नमद्राक्षीत्
तद्दर्शनाच्च तस्यामनुरागनुगतान्तरात्मा स नृपो ऽचिन्तयत्
साध्विदं ममापत्यरहितस्य वन्ध्याभर्तुः सांप्रतं विधिनापत्यकारणं कन्यारत्नमुपपादितम्
तदेतत्समुद्वहामीति
अथ वैनां स्यन्दनमारोप्य स्वमधिष्ठानं नयामि
तयैव देव्याशैव्ययाहमनुज्ञातःसमुद्वहामीति
अथैनां रथमारोप्य स्वनगरमगच्छत्
विजयिनं च राजानमशेषपौरभृत्वयरिजनामात्यसमेता शैव्या द्रष्टुमधिष्ठनद्वारमागता
सा चावलोक्य राज्ञः सव्यपार्शववर्त्तिनीं कन्यामीषदुद्भूतामर्षस्फुरदधरपल्लवा राजानमवोचत्
अतिचपलचित्तात्र स्यन्दने केयमारोपितेति
असावप्यनालोचितोत्तरवचनोतिभयात्तामाह स्नुषा ममेयमिति
अथैनं शैव्योवाच
नाहं प्रसूता पुत्रेण नान्या पत्न्यभवत्तव ।
स्नुषासंबन्धता ह्योषा कतमेन सुतेन ते
श्रीपराशर उवाच
इत्यात्मेर्ष्याकोपकलुषितवचनमुषितविवेको भयाद्दुरुक्तापरिहारार्थमिदमवनीपतिराह
यस्ते जनिष्यत्यात्मजस्तस्येयमनागतस्यैव भार्या निरूपितेत्याकर्ण्योद्भूतमृदुहासा तथेत्याह
प्रविवेश च राज्ञा सहाधिष्ठानम्
अनन्तरं चातिशुद्धलग्नहोरांशकावयवोक्तकृतपुत्रजन्मलाभगुणाद्वयसः परिणाममुपगतापि शैव्या स्वल्पैर् एवाहोभिर् गर्भमवाप
कालेन च कुमारमजीजनत्
तस्य च विदर्भ इति पिता नाम चक्रे
स च तां स्नुषामुपयेमे
तस्यां चासौक्रथकैशिकसंज्ञौ पुत्रावजनयत्
पुनश् च तृतीयं रोमपादसंज्ञं पुत्रमजीजनद्यो नारदादवाप्तज्ञानवान्भविष्यतीति
रोमपादाद्बभ्रुः बभ्रोर्धृतिर्ः धृतेः कैशिकः कैशिकस्यापि चेदिः पुत्रो ऽभवत् यस्य संततौ चैद्या भूपालाः
क्रथस्य स्नषापुत्रस्यकुन्तिरभवत्
कुन्तेर्धृष्टिः धृष्टेर्निधृतिः निधृतेर्दशार्हस्ततश् च व्योमः तस्यापि जीमूतः ततश् च विकृतिः ततश् च भीभरथः तस्मान्नवरथः तस्यापि दशरथः ततश् च शकुनिः तत्तनयः करंभिः करंभेर्देवरातो ऽभवत्
तस्माद्देवक्षत्रः तस्यापि मधुः मधोः कुमारवंशः कुमारवंशादनुः अनोः पुरुमित्रः पृथिवीपतिरभवत्
ततश्चांशुस्तस्माच्च सत्वतः
सत्वतादेते सात्वताः
इत्येतां ज्यामघस्य संततिं सम्यक्छ्रद्धासमन्वितः श्रुत्वा पुमान् मैत्रेय स्वपापैः प्रमुच्यते
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0