भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 3.18

3.18.1

इति श्रीविष्णुमहापुराणे तृतीयांशे सप्तदशो ऽध्यायः (17)
श्रीपारशर उवाच
तपस्य् अभिरतान् सो ऽथ मायामोहो महासुरान् ।
मैत्रेय ददृशे गत्वानर्मदातीरसंश्रितान्

3.18.2

ततो दिगंबरो मुण्डो बर्हिपिच्छधरो द्विज ।
मायामोहो ऽसुरान् श्लक्ष्णमिदं वचनमब्रवीत्

3.18.3

मायामोह उवाच
हे दैत्यपतयो ब्रूत यदर्थ तप्यते तपः ।
ऐहिकार्थश् च पारत्र्यं तपसः फलमिच्चथ

3.18.4

असुरा ऊचुः
पारत्र्यफललाभाय तपश्चर्या महामते ।
अस्माभिर् इयम् आरब्धा किं वा ते ऽत्र विवक्षितम्

3.18.5

मायामोह उवाच
कुरुध्वं मम वाक्यानि यदि मुक्तिमभीप्सथ ।
अर्हध्वं धर्ममेतं च सर्वे यूयं महाबलाः

3.18.6

धर्मो विमुक्तेरर्हेयं नैतस्मादपरो वरः ।
अत्रैव संस्थिताः स्वर्गं विमुक्तिं वा गमिष्यथ

3.18.7

अर्हध्वं धर्ममेतं च सर्वे यूयं महाबलाः

3.18.8

श्रीपराशर उवाच
एवंप्रकारैर् बहुभिर् युक्तिदर्शनचर्चितैः ।
मायामोहेन ते दैत्या वेदमार्गादपा कृताः

3.18.9

धर्मायैतदधर्माय सदेतन्न सदित्यपि ।
विमुक्तये त्विदं नैतद्विमुक्तिं संप्रयच्छति

3.18.10

परमार्थोयमत्यर्थं परमार्थो न चाप्ययम् ।
कार्यमेतदकार्यं च नैतदेवं स्फुटं त्विदम्

3.18.11

दिग्वाससामयं धर्मो धर्मोयं बहुवाससाम्

3.18.12

इत्यनेकान्तवादं च मायामोहेन नैकधा ।
तेन दर्शयता दैत्याःस्वधर्मं त्याजिता द्विज

3.18.13

अर्हतैतं महाधर्मं मायामोहेन ते यतः ।
प्रोक्तास्तमाश्रिता धर्ममर्हतास्तेन ते ऽभवन्

3.18.14

त्रयीधर्मसमुत्सर्गं मायामोहेन ते ऽसुराः ।
कारीतास्तन्मया ह्यासंस्ततोन्ये तत्प्रचोदिताः

3.18.15

तैर् अप्य् अन्ये परे तैश् च तैर् अप्य् अन्ये परे च तैः ।
अल्पैर् अहोभिः संत्यक्ता तैर् दैत्यैः प्रायशस्त्रयी

3.18.16

पुनश् च रक्तांबरधृङ् मायामोहो जितेन्द्रियः ।
अन्यानाहासुरान् गत्वामृद्धल्पमधुराक्षरम्

3.18.17

स्वर्गार्थं यदि वो वाञ्छा निर्वाणार्थमथासुराः ।
तदलं पशुघातादिदुष्चधर्मैर् निबोधत

3.18.18

विज्ञानमयमेवैतदशेषमवगच्छत ।
बुध्यध्वं मे वचः सम्यग्बुधैर् एवमिहोदितम्

3.18.19

जगदेतदनाधारं भ्रान्तिज्ञानार्थतत्परम् ।
रागादिदुष्टमत्यर्थं भ्राम्यते भवसंकटे

3.18.20

एवं बुध्यत बुध्यध्वं बुध्यतैवमितीरयन् ।
मायामोहः स दैत्येयान्धर्ममत्याञ्जयन्निजम्

3.18.21

नानाप्रकारवचनं स तेषां युक्तियोजनम् ।
तथातथा त्रयीधर्मं तत्यजुस्ते यथायथा

3.18.22

तेप्यन्येषां तथैवोचुरन्यैर् अन्ये तथोदिता ।
मैत्रेय तत्यजुर्धर्मं वेदेस्मृत्युदितं परम्

3.18.23

अन्यानप्यन्यपाषण्डप्रकारैर् बहुबिर्द्विज ।
दैतेयान्मोहयामास मायामोहोदिमोहकृत्

3.18.24

स्वल्पेनैव हि कालेन मायामोहेन ते ऽसुराः ।
मोहितास्तत्यजुःसर्वां त्रयीमार्गाश्रितां कथाम्

3.18.25

केचिद्विनिन्दां वेदानां देवानामपरे द्विज ।
यज्ञकर्मकलापस्य तथान्ते च द्विजन्मनाम्

3.18.26

नैनद्युक्तिसहं वाक्यं हिंसाधर्माय चेष्यते ।
हवींष्यनलदघ्धानि फलायेत्यर्थकोदितम्

3.18.27

यज्ञैर् अनेकैर् देवत्वम् अवाप्येन्द्रेण भुज्यते ।
शम्यादि यदि चेत्काष्ठं तद्वरं पत्रभुक्पशु

3.18.28

निहतस्य पशोर्जज्ञे स्वर्गप्राप्तिर्यदीष्यते ।
स्वपिता यजमानेन किन्नु तस्मान्न हन्यते

3.18.29

तृप्तये जायते पुंसो भुक्तमन्येन चेत्ततः ।
कुर्याच्छ्राद्धं श्रमायान्नं न वहेयुः प्रवासिनः

3.18.30

जनश्रद्धेयमित्येतदवगम्य ततोत्र वः ।
उपेक्षा श्रेयसे वाक्यं रोचतां यन् मयेरितम्

3.18.31

न ह्यप्तवादा नभसो निपतन्ति महीं सुराः ।
युक्तिमद्वचनं ग्राह्यं मयान्यैश् च भवद्विधैः

3.18.32

श्रीपराशर उवाच
मयामोहेन ते दैत्याः प्रकारैर् बहुभिस् तथा ।
वृथापिता यथा नैषां त्रयी कश्चिदरोचयत्

3.18.33

इत्थमुन्मार्गयातेषु तेषु दैत्येषु ते ऽमराः ।
उद्योगं परमं कृत्वा युद्धाय समुपस्थिताः

3.18.34

ततो दैवासुरं युद्धं पुनरेवाभवद्द्विज ।
हताश्चते ऽसुरा दैवैः सन्मार्गपरिपन्थिनः

3.18.35

स्वधर्मकवचं तेषामभूद्यत्प्रथमं द्विज ।
तेन रक्षाभवत्पूर्वं नेशुर्नष्टे च तत्र ते

3.18.36

ततो मैत्रेय तन्मार्गवर्तिनो येभवञ्जनाः ।
नग्नास्ते तैर् यतस्त्यक्त त्रयीसंवरणं तथा ।
कृताश् च ते ऽसुरा देवैर् नाना वेदविनिन्दकाः

3.18.37

ब्रह्मचारीगृहस्थश् च वानप्रस्थस्तथाश्रमी ।
परिव्राड् वा चतुर्थोत्र पञ्चमो नोपपद्यते

3.18.38

वस्तु संत्यज्य गार्हस्थ्यं वानप्रस्थो न जायते ।
परिव्राट् चापि मैत्रेय स नग्नः पापकृन्नरः

3.18.39

नित्यानां कर्मणां विप्र यस्य हानिरहर्निशम् ।
अकुर्वन्विहितं कर्म शक्तः पतति तद्दिने

3.18.40

प्रायश्चित्तेन महाता शुद्धिमाप्नोत्यनापदि ।
पक्षं नित्यक्रियाहानेः कर्ता मैत्रेय मानवः

3.18.41

संवत्सरं क्रियाहानिर्यस्य पुंसोभिजायते ।
तस्यावलोकनात्सूर्यो निरीक्ष्यःसाधुभिः सदा

3.18.42

स्पृष्टे स्नानं सचेलस्य शुद्धेर्हेतुर्महामते ।
पुंसो भवति तस्योक्ता न शुद्धिः पापकर्मणः

3.18.43

देवर्षिपितृभीतानि यस्य विप्रस्य वेश्मनि ।
प्रयान्त्यनर्चितान्यत्र लोके तस्मान्न पापकृत्

3.18.44

संभाषणानुप्रश्नादि सहास्यां चैव कुर्वतः ।
जायते तुल्यता तस्य तेनैव द्विज वत्सरात्

3.18.45

देवादिनिस्वासहतं शरीरं यस्य वेश्म च ।
न तेन संकरं कुर्याद्गृहासनपरिच्छदैः

3.18.46

अथ भुक्तं गृहे तस्य करोत्यास्यां तथासने ।
शेते चाप्येकशयने स सद्यस्तत्समो भवेत्

3.18.47

देवतापितृभूतानि तथानभ्यर्च्य यो ऽतिथीन् ।
भुक्ते स पातकं भुङ्क्ते निष्कृतिस्तस्य नेष्यते

3.18.48

ब्राह्मणाद्यास्तु ये वर्णाःस्वधर्मादन्यतोमुखाः ।
यान्ति ते नग्नसंज्ञां तु हीनकर्मस्ववस्थितः

3.18.49

चतुर्णां यत्र वर्णानां मैत्रेयात्यन्तसंकरः ।
तत्रास्या साधुवृत्तिनामुपघाताय जायते

3.18.50

अनभ्यर्च्य ऋषीन्देवान्पितृभूतातिथीस् तथा ।
यो भुङ्क्ते तस्य संल्लापात्पतन्तिनरके नराः

3.18.51

तस्मादेतान्नरो नग्नांस्त्रयीसंत्यागदूषितान् ।
सर्वदा वर्जयेत्प्राज्ञ आलापस्पर्शनादिषु

3.18.52

श्रद्धावद्भिः कृतं यत्ना द्देवान्पितृपितामहान् ।
न प्रीणयति तच्छ्राद्धं यद्येभिर् अवलोकितम्

3.18.53

श्रूयते च पुराख्यातो राजा शतधनुर्भुवि ।
पत्नी च शैव्यातस्याभूदतिधर्मपरायणा

3.18.54

पतिव्रता महाभागा सत्यशौचदयान्विता ।
सर्वलक्षणसंपन्ना विनयेन यनेन च

3.18.55

स तु राजा तया सार्धं देवदेवं जनार्दनम् ।
आराधयामास विभुं परमेण समाधिना

3.18.56

होमैर् जपैस् तथा दानैर् उपवासैश् च भक्तितः ।
पुजाभिश्चानुदिवसं तन्मना नान्यमानसः

3.18.57

एकदा तु समं स्नातौ तौ तु भार्यापती जले ।
भागीरथ्याःसमुत्तीर्णौ कार्त्तिक्यां समुपोषितौ ।
पाषण्डिनमपश्येतामायान्तं संमुखं द्विज

3.18.58

चापाचार्यस्य तस्यासौ सखा राज्ञो महात्मनः ।
अतस्तद्गौरवात्तेन सखाभावमथाकरोत्

3.18.59

न तु सा वाग्यता देवी तस्य पत्नी पतिव्रता ।
उपोषितास्मीति रविं तस्मिन्दृष्टे ददर्श च

3.18.60

समागम्य यथान्यायं दंपती तौ यथाविधि ।
विष्णोः पूजादिकं सर्वं कृतंवतौ द्विजोत्तम

3.18.61

कालेन गच्छता राजा ममारासौ सपत्नजित् ।
अन्वारुरोह तं देवी चितास्थं भूपतिं पतिम्

3.18.62

स तु तेनापचारेण श्वा जज्ञे वसुधाधिपः ।
उपोषितेन पाषण्डसंल्लापो यत्कृतो ऽभवत्

3.18.63

सा तु जाति स्मरा जज्ञे काशीराजसुता शुभा ।
सर्वविज्ञानसंपूर्णा सर्वलक्षणपूजिता

3.18.64

तां पिता दातुकामोभूद्वराय विनिवारितः ।
तयैव तन्व्या विरतो विवाहारंभतो नृपः

3.18.65

ततःसा दिव्यया दृष्ट्या दृष्ट्वा श्वानं निजं पतिम् ।
विदिशाख्यं पुरं गत्वा तदवस्थं ददर्श तम्

3.18.66

तं दृष्ट्वैव महाभागं श्वभूतं तु पतिं तदा ।
ददौ तस्मै वराहारं सत्कारप्रवणं शुभा

3.18.67

भुञ्जन् दत्तं तया सो ऽन्नम् अतिमृष्टम् अभीप्सितम् ।
स्वजाति ललितं कुर्वन्बहु चाटु चकार वै

3.18.68

अतीव व्रीडिता बला कुर्वता चाटु तेन सा ।
प्रणामपूर्वमाहेदं दयितं तं कुयोनिजम्

3.18.69

स्मर्यतां तन्महाराज दाक्षिण्यललितं त्वया ।
येन श्वयोनिमापन्नो मम चाटुकरो भवान्

3.18.70

पाषण्डिनं समाभाष्य तीर्थस्नानादनन्तरम् ।
प्राप्तोसि कुत्सितां योनिं किन्न स्मरसि तत्प्रभो

3.18.71

श्रीपराशर उवाच
तयैवं स्मारीति तस्मिन्पूर्वजातिकृते तदा ।
दध्यौ चिरमथा वार निर्वेदमतिदुर्लभम्

3.18.72

निर्विण्णचित्तःस ततो निर्गम्य नगराद्वहिः ।
मरुत्प्रपतनं कृत्वा सार्गाली योनिमागतः

3.18.73

सापि द्वितीये संप्राप्ते वीक्ष्य दिव्येन चक्षुषा ।
ज्ञात्वा सृगालं तं द्रष्टुं ययौ कोलाहलं गिरिम्

3.18.74

तत्रापि दृष्ट्वा तं प्राह सार्गालीं योनिमागतम् ।
भर्तारमपि चार्वङ्गी तनया पृथिवीक्षितः

3.18.75

अपि स्मरसि राजेन्द्र श्वयोनिस्थस्य यन्मया ।
प्रोक्तं ते पूर्वचरितं पाषण्डालापसंश्रयम्

3.18.76

पुनस्त योक्तं स ज्ञात्वा सत्यं सत्यवतां वरः ।
कानने स निराहारस्तत्याज स्वं कलेवरम्

3.18.77

बूयस्ततो वृको जज्ञे गत्वा तं निर्जने वने ।
स्मारयामास भर्तारं पूर्ववृत्तमनिन्दिता

3.18.78

न त्वं वृको महाभाग राजा शतधनुर्भवान् ।
श्वा भूत्वा त्वं सृगालो ऽभूर्वृकत्वं सांप्रतं गतः

3.18.79

स्मारितेन यथा व्यक्तस्तेनात्मा गृध्रतां गतः ।
अपापा सा पुनश्चैनं बोधयामास भामिति

3.18.80

नरेद्र स्मर्यतामात्मा ह्यलं ते गृध्रचेष्टया ।
पाषण्डालापजातो ऽयं दोषो यद्गृध्रतां गतः

3.18.81

ततः काकत्वमापन्नं समनन्तरजन्मनि ।
उवाच तन्वी भर्तारमुपलभ्यात्मयोगतः

3.18.82

अशेषभूभृतः पूर्वं वश्या यस्मै बलिं ददुः ।
स त्वं काकत्वमापन्नो जातोद्य बलिभुक् प्रभो

3.18.83

एवमेव बकत्वेपि स्मारितः स पुरातनम् ।
तत् त्याज भूपतिः प्राणान् मयूरत्वमवाप च

3.18.84

मयूरत्वे ततःसा वै चकारानुगतिं शुभा ।
दत्तैः प्रतिक्षणं भोज्यैर् बाला तज्जतिभोजनैः

3.18.85

ततस्तु जनको राजा वाजिमेधं महाक्रतुम् ।
चकार तस्यावभृथे स्नापयामास तं तदा

3.18.86

सस्नौ स्वयं च तन्वङ्गी स्मारयामास चापि तम् ।
यथासौ श्वसृगालादियोनिं जग्राह पार्थिवः

3.18.87

स्मृतजन्मक्रमःसोथ तत्त्याज स्वकलेवरम् ।
जज्ञे स जनकस्यैव पुत्रोसौ सुमहात्मनः

3.18.88

ततःसा पितरं तन्वी विवाहार्थम् अचोदयत् ।
स चापि कार यामास तस्या राजा स्वयंवरम्

3.18.89

स्वयंवरे कृते सा तं संप्राप्तं पतिमात्मनः ।
वरयामास भूयो ऽपि भर्तृभावेन भामिनी

3.18.90

बुभुजे च तया सार्धं संभोगान्नृपनन्दनः ।
पितर्युपरते राज्यं विदेहेषु चकार सः

3.18.91

इयाज जज्ञान्सुबहून्ददौ दानानि चार्थिनाम् ।
पुत्रानुत्पादयामास युयुधे च सहारिभिः

3.18.92

राज्यं भुक्त्वा यथान्यायं पालयित्वा वसुंधराम् ।
तत्त्याज स प्रियान्प्राणान्संग्रामे धर्मतोनृपः

3.18.93

ततश्चितास्थं तं भूयो भर्तारं सा शुभेक्षणा ।
अन्वारुरोह विधिवद्यथापूर्वं मुदान्विता

3.18.94

ततो ऽवाप तया सार्धं राजपुत्र्या स पार्थिवः ।
ऐन्द्रान् अतीत्य वै लोकांल्लोकान्प्राप तदाक्षयान्

3.18.95

स्वर्गाक्षयत्वमतुलं दांपत्यमतिदुर्लभम् ।
प्राप्तं पुण्यफलं प्राप्य संशुद्धिं तां द्विजोत्तम

3.18.96

एष पाषण्टसंभाषाद्दोषः प्रोक्तो मया द्विज ।
तथाश्वमेधावभृथस्नानमाहात्म्यमेव च

3.18.97

तस्मात्पाषण्डिभिः पापैर् आलापस्पर्शनं त्यजेत् ।
विशेषतः क्रियाकाले यज्ञादौ चापि दीक्षितः

3.18.98

क्रियाहानिर्गृहे यस्य मासमेकं प्रजायते ।
तस्यावलोकनात्सूर्यं पश्येत मतिमान्नरः

3.18.99

किं पुनर्यैस् तु संत्यक्ता त्रयी सर्ंवात्मना द्विज ।
पाषण्डभोजिभिः पापौर्वेदवादविरोधिभिः

3.18.100

सहालापस्तु संसर्गः सहास्या चातिपापिनी ।
पाषण्डिभिर् दुराचारैस् तस्मात्तां परिवर्जयेत्

3.18.101

पाषण्डिनो विकर्मस्थान्बैडालव्रतिकाञ्छठान् ।
हैतुकान्बकवृत्तींश् च वाङ्मात्रेणापि नार्चयेत्

3.18.102

द्वरतस्तैस् तु संपर्कस्त्याज्यश्चाप्यतिपापिभिः ।
पाषण्डिभिर् दुराजारैस् तस्मात् तान् परिवर्जयेत्

3.18.103

एते नग्नास्तवाख्याता दृष्टा श्राद्धो पघातकाः ।
येषां संभाषणात्पुंसां दिनपुण्यं प्रणश्यति

3.18.104

एते पाषण्डिनः पापा न ह्येतानालपेद्बुधः ।
पुण्यं नश्यति संभाषादेतेषां तद्दिनोद्भवम्

3.18.105

पुंसां जटाधरणमैण्ड्यवतां वृथैव मोघाशिनामखिलशौचनिराकृतानाम् ।
तोयप्रदानपितृपिण्डबहिष्कृतानां संभाषणादपि नरा नरकं प्रयान्ति

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc