विष्णु पुराण · अध्याय 3.6
इति श्रीविष्णुमहापुराणे तृतीयांशे पञ्चमो ऽध्यायः (5)
श्रीपराशर उवाच
सामवेदतरोः शाखा व्यासशिष्यस्य जौमिनिः ।
क्रमेण येन मैत्रेय विभेदशृणु तन्मम
सुसंतुस्तस्य पुत्रोभूत्सूत्वानश्चाभवत्सुतः ।
अधीतवन्तौ चैकैकां संहितां तौ माहमती
सहस्रसंहिताभेदं सुकर्मातत्सुतस्ततः ।
चकार तं च तच्छिष्यौ जगृहाते महाव्रतौ
हिरण्यनाभः कौसल्यः पौष्पिंजिश् च द्विजोत्तम ।
उदीच्याःसामगाः शिष्यास्तस्य पञ्चशतं स्मृताः
हिरण्यनाभात्तावत्यःसंहिता यैर् द्विजोत्तमैः ।
गृहीतास्तेपि चोच्यन्ते पण्डितैः प्राच्यसामगाः
लोकाक्षिर्नैधमिश्चैव कक्षिवांल्लाङ्गलिस् तथा ।
पौष्पिजिशिष्यास्तद्भेदैः संहिता बहुलीकृताः
हिरण्यनाभशिष्यस्तु चतुर्विशतिसंहिताः ।
प्रोवाच कृतनामासौ शिष्येभ्यश् च महामुनिः
तैश् चापि सामवेदो ऽसौ शाखाभिर् बहुलीकृतः ।
अथर्वणामथो वक्ष्ये संहितानां समुच्चयम् ।
अथर्ववेदं स मुनिःसुसंतुरमितद्युतिः
शिष्यमध्यापयामास कबन्धं सो ऽपि तं द्विधा ।
कृत्वा तुदेवदर्साय तथा पथ्याय दत्तवान्
देवदर्शस्य शिष्यास्तु मेधोब्रह्मबलिस् तथा ।
शौल्कायनिः पिप्पलादस्तथान्यो द्विजसत्तम
पथ्यस्यापि त्रयः शिष्याः कृता यैर् द्विज संहिताः ।
जाबालिः कुमुदादिश् च तृतीयः शौनको द्विज
शौनकस्तु द्विधा कृत्वा ददावेकां तु बभ्रवे ।
द्वितीयां संहितां प्रादात्सैन्धवाय य संज्ञिने
सैन्धवान्मुजिकेशश् च द्वेधभिन्नास्त्रिधा पुनः ।
नक्षत्रकल्पो वेदानां संहितानां तथैव च
चतुर्थःस्यादाङ्गिरसः शान्तिकल्पश्चपञ्चमः ।
श्रेष्ठास्त्वथर्वणामेते संहितानां विकल्पकाः
आख्यानैश् चाप्य् उपाख्यानैर् गाथाभिः कल्पशुद्धिभिः ।
पुराणसंहितां चक्रेपुराणार्थविशारदः
प्रख्यातो व्यासशिष्योभूत्सूतो वै रोमहर्षणः ।
पुरामसंहितां तस्मै ददौ व्यासो महामतिः
सुमतिश्चाग्निवर्चाश् च मित्रायुःशांसपायनः ।
अकृतव्रणसावर्णिष्पट्शिष्यास्तस्य चाभवन्
काश्यपः संहिताकर्ता सावर्णिः शांसपायनः ।
रोमहर्षाणिकाचान्या तिसॄणां मूलसंहिता
चतुष्टयेन भेदेन संहितानामिदं मुने
आद्यं सर्वपुराणानां पुराणं ब्राह्ममुच्यते ।
अष्टादशपुराणानि पुराणज्ञाः प्रचक्षते
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ।
तथान्यं नारदीयं च मार्कण्डेयं च सप्तमम्
आग्नेयमष्टमं चैव भविष्यन्नवमं स्मृतम् ।
दशमं ब्रह्मवैवर्तं लैङ्गमेकादशं स्मृतम्
वाराहं द्वादशं चैव स्कान्दं चात्र त्रयोदशम् ।
चतुर्दशंवामनं च कौर्मं पञ्चदशं तथा ।
मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् ।
महापुराणान्येतानि ह्यष्टादश महामुने
तथा चोप पुराणानि मुनिभिः कथितानि च ।
सर्गश् च प्रतिसर्गश् च वंशमन्वन्तराणि च ।
सर्वेष्वेतेषु कथ्यन्ते वंशानुचारीतं च यत्
यदेतत्तव मैत्रेय पुराणं कथ्यते मया ।
एतद्वैष्णवसंज्ञं वै पाद्मस्यसमनन्तरम्
सर्गे च प्रतिसर्गे च वंशमन्वन्तरादिषु ।
कथ्यते भगवान् विष्णुर् अशेषेष्व् इव सत्तम
अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश
आयुर्वेदोधनुर्वेदो गान्धर्वश्चैव ते त्रयः ।
अर्थशास्त्रं चतुर्थं तु विद्य ह्यष्टादशैव ताः
ज्ञेया ब्रह्मर्षयः पूर्वं तेभ्यो देवर्षयः पुनः ।
राजर्षयः पुनस्तेभ्य ऋषिप्रकृतयस्त्रयः
इति शाखाःसमाख्यातः शाखाभेदास्तथैव च ।
कर्तारश्चैव शाखानां भेदहेतुस्तथोदितः
सर्वमन्वन्तरेष्वेवं शाखाभेदाःसमाः स्मृताः
प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे द्विज
एतत्ते कथितं सर्वं यत्पृष्टोहमिहत्वया ।
मैत्रेय वेदसंबन्धः किमन्यत्कथयामि ते
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0