भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 3.7

3.7.1

इति श्रीविष्णुमहापुराणे तृतीयांशेःष्ठोध्यायः (6)
मैत्रेय उवाच
यथा वत्कथितं सर्वं यत्पृष्टोसिं मया गुरो ।
श्रोतुमिच्छाम्यहं त्वेकं तद्भवान्प्रब्रवीतु मे

3.7.2

सप्तद्वीपानि पातालविधयश् च महामुने ।
स्पतलोकाश् च येन्तस्था ब्रह्माण्डस्यास्य सर्वतः

3.7.3

स्थूलैः सूक्ष्मैस् तथा सूक्ष्मसूक्ष्मासूक्ष्मतरैः स्मृता ।
स्थूलात्स्थूलतरैश् चैव सर्वं प्राणिभिर् आवृतम्

3.7.4

अङ्गुलस्याष्टभागोपि न सोस्ति मुनिसत्तम ।
वसंति प्राणिनो यत्र कर्मबन्धनिबन्धनाः

3.7.5

सर्वे चैते वशं यान्ति यमस्य भगवन् किल ।
आयुषोन्ते तथा यान्ति यातनास्तत्प्रचोदिताः

3.7.6

यातनाभ्यः परिभ्रष्टा देवाद्यास्वथ योनिषु ।
जन्तवः परिवर्तन्ते शास्त्राणामेष निर्णयः

3.7.7

सोहमिच्छामि तच्छ्रोतुं यमस्य वशवर्तिनः ।
न भवन्तिनरा येन तत्कर्म कथयस्व मे

3.7.8

श्रीपराशर उवाच
अयमेव मुने प्रश्रो नकुलेन महात्मना ।
पृष्टः पितामहः प्राह भीष्मो यत्तच्छृणुष्व मे

3.7.9

भीष्ण उवाच
पुरा ममागतो वत्स सखा कालिङ्गको द्विजः ।
स मामुवाच प्रष्टो वै मया जातिस्मरो मुनिः

3.7.10

तेनाख्यातमिदं सर्वमित्थं चैतद्भविष्यति ।
तथा च तदभूद्वत्स यथोक्तं तेन धीमता

3.7.11

स पृष्टश् च मया भूयः श्रद्दधानेन वै द्विजः ।
यद्यदाह न तद्दृष्टमन्यथा हि मया क्वचित्

3.7.12

एकदा तु मया पृष्टमेतद्यद्भवतोदितम् ।
प्राह कालिङ्गको विप्रःस्मृत्वा तस्य मुनेर्वचः

3.7.13

जातिस्मरेण कथितो रहस्यः परमो मम ।
यमकिङ्करयोर्योभूत्संवादस्तं ब्रवीमि ते

3.7.14

कालिङ्ग उवाच
स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले ।
परिहर मधुसूदनप्रपन्नान्प्रभुरहमन्यनृणामवैष्णवानाम्

3.7.15

अहममरवरार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः ।
हरिगुरुवशगोस्मि न स्वतन्त्रः प्रभवति संयमने ममापि विष्णुः

3.7.16

कण्ट कमुकुटकर्णिकादिभेदैः कनकमभेदमपीष्यते यथैकम् ।
सुरपशुमनुजादिकल्पनाभिर् हरिर् अखिलाभिर् उदीर्यते तथैकः

3.7.17

क्षितितलपरमाणवोनिलान्ते पुनरुपयान्ति यथैकतां धरित्र्याः ।
सुरपशुमनुजादयस्तथान्ते गुणकलषेण सनातनेन तेन

3.7.18

हरिममरवरार्चिताङ्घ्रिपद्मंप्रणमति यः परमार्थतो हि मर्त्यः ।
तमपगतसमस्तपापबन्धं व्रज परिहृत्य यथाग्निमाज्यसिक्तम्

3.7.19

इति यमवचनं निशम्य पाशी यम पुरुषस्तमुवाच धर्मराजम् ।
कथय मम विभो समस्तधातुर्भवति हरेः खलु यादृशोस्य भक्तः

3.7.20

यम उवाच
न चलति निजवर्मधर्मतो यःसममतिरात्मसुहृद्विपक्षपक्षे ।
न हरति न च हन्ति किञ्चिदुच्छैः स्थितमनसं तमवेहि विष्णुभक्तम्

3.7.21

कलिकलुपमलेन यस्य नाऽत्मा विमलमतेमलिनीकृतस्तमेनम् ।
मनसि कृतजनार्दनं मनष्यं सततमवेहि हरेरतीव भक्तम्

3.7.22

कनकमपि रहस्यवेक्ष्य बुद्ध्या तृणमिव यःसमवैति वै परस्वम् ।
भवति च भगवत्यनन्यचेताः पुरुषवरं तमवेहि विष्णुभक्तम्

3.7.23

स्फटिकगिरिशिलामलः क्व विष्णुर्मनसि नृणां क्व च मत्सरादिदोषः ।
न हि तुहिनमयूखरश्मिपुञ्जे भवति हुताशनदीप्तिजः प्रतापः

3.7.24

विमलमतिरमत्सरः प्रशान्तः शुचिचरितोखिलसत्त्वमित्रभूतः ।
प्रियहितवचनो ऽस्तमानमायो वसति सदा हृदि तस्य वासुदेवः

3.7.25

वसति हृदिसनातने च तस्मिन्भवति पुमाञ्जगतोस्य सौम्यरूपः ।
क्षितिरसमतिरम्यमात्मनोन्तः कथयति चारुतयैव सालपोतः

3.7.26

यमनियमविधूत कल्पषाणामनुदिनमच्युतसक्तमानसानाम् ।
अपगतमदमानमत्सराणां त्यज भट दूरतरेण मानवानाम्

3.7.27

हृदि यदि भगवाननादिरास्ते हरिररिशङ्खगदाधरोव्यात्मा ।
तदघविघातकर्तृभिन्नं भवति कथं सति चान्धकारमर्के

3.7.28

हरति परधनं निहन्ति जन्तून्वदति तथा नृतनिष्टुराणि यश् च ।
अशुभजनितदुरमदस्य पुंसः कलुषमतेर्हृदि तस्य नास्त्यनन्तः

3.7.29

न सहति परसंपदं विनिन्दां कलुषमतिः कुरुते सतामसाधुः ।
नयजति न ददाति यश् च संतं मनसि न तस्य जनार्दनो ऽधमस्य

3.7.30

परमसुहृदिबान्धवे कलत्रे मुततनयापितृमातृभृत्यवर्गे ।
शठमतिरुपयाति योर्थतृष्णां तमधमचेष्टमवेहि नास्य भक्तम्

3.7.31

अशुभमतिरसत्प्रवृत्ति सक्तःसततमनार्यकुशीलसंगमत्तः ।
अनुदिनकृतपापबन्धयुक्तः परुषपशुर्न हि वासुदेवभक्तः

3.7.32

सकलमिदमहं च वासुदेवः परमपुमान्परमेश्वरःस एकः ।
इति मतिरचलाभवत्यनन्ते हृदयगते व्रजतान्विहाय दूरात्

3.7.33

कमलनयन वासुदेव विष्णो धरणिधराच्युत शङ्खचक्रपाणे ।
भवशरणमितिरयन्ति ये वै त्यज भट दूरतरेण तानपापान्

3.7.34

वसति मनसि यस्य सोव्ययात्मा पुरुषवरस्य न तस्य दृष्टिपाते ।
तव गतिरथ वा ममास्ति चक्रप्रतिहतवीर्यबलस्य सोन्यलोक्यः

3.7.35

कालिङ्ग उवाच
इति निजभटशासनाय देवो रवित नयस्य किलाह धर्मराजः ।
मम कथितमिदं च तेन तुभ्यं कुरुवर सम्यगिदं मयापि चोक्तम्

3.7.36

श्रीभीष्म उवाच
नकुलैतन्ममाख्यातं पूर्वं तेन द्विजन्मना ।
कलिङ्गदेशादेश्येत्य प्रीतेन सुमहात्मना

3.7.37

मयाप्येतद्यथान्यायं सम्यग्वत्स तवोदितम् ।
यथा विष्णुमृतेनान्यत्त्राणां संसारसागरे

3.7.38

किङ्कराः पाशदण्डाश् च न यमो न च यातनाः ।
समर्थास्तस्य यस्यात्मा केशवालंबनःसदा

3.7.39

श्रीपराशर उवाच
एतन्मुने समाख्यातं गीतं वैवस्वतेन यत् ।
त्वत्प्रश्नानुगतं सम्यक्किमन्यच्छ्रोतुमिच्छसि

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc