भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 3.5

3.5.1

इति श्रीविष्णुमहापुराणे तृतीयांशेचतुर्थो ऽध्यायः (4)
श्रीपराशर उवाच
यजुर्वेतदरोस्शाखाःसप्तविंशन्महामुनिः ।
वैशंपायननामासो व्यासशिष्यश्चकार वै

3.5.2

शिष्येभ्यः प्रददौ ताश् च जगृहुस्तेप्यनुक्रमात्

3.5.3

याज्ञवल्क्यस्तु तत्राभूद्बाह्यरातसुतो द्विज ।
शिष्यः परमधर्मज्ञो गुरुवृत्तिपरःसदा

3.5.4

ऋषिर्योद्य महामेरोः समाजे नागमिष्यति ।
तस्य वै सप्तरात्रात्तु ब्रह्महत्त्या भविष्यति

3.5.5

पूर्वमेवं मुनिगणैः समयो यः कृतो द्विज ।
वैशंपायन एकस्तु तं व्यतिक्रान्तवांस्तदा

3.5.6

स्वस्त्रीयं बालकं सोथ पदा स्पृष्टमताडयत्

3.5.7

शिष्यानाह स भोः शिष्या ब्रह्महत्त्यापहं व्रतम् ।
चरध्वं मत्कृते सर्वे न विचार्यमिदं तथा

3.5.8

अथाह याज्ञवल्क्यस्तु किम् एभिर् भगवन् द्विजैः ।
क्लेशितैर् अल्पतेजोभिश्चारिष्येहमिदं व्रतम्

3.5.9

ततः क्रुद्धो गुरुः प्राह याज्ञवल्क्यं महामुनिम् ।
मुच्यतां यत्त्वयाधीतं मत्तो विप्रावमानक

3.5.10

निस्तेजसो वदस्येनान्यत्त्वं ब्राह्मणंपुङ्गवान् ।
तेन शिष्येण नार्थोस्ति ममाज्ञाभङ्गकारिणा

3.5.11

याज्ञवल्क्यस्ततः प्राह भक्त्यैतत् ते मयोदितम् ।
ममाप्यलं त्वयाधीतं यन्मया तदिदं द्विज

3.5.12

श्रीपराशर उवाच
इत्युक्तो रुधिराक्तानि सरूपाणि यजूंषिसः ।
छर्दयित्वा ददौ तस्मै ययौ स स्वेच्छया मुनि

3.5.13

यजूंष्यथ विसृष्टानि याज्ञवल्क्येन वै द्विज ।
जगृहुस्तित्तिरा भूत्वा तैत्तिरीयास्तु ते ततः

3.5.14

ब्रह्महत्त्याव्रतं चीर्णं गुरुणा चोदितैस् तु तैः ।
चाक्रुराध्वर्यवं ते तु चरणान्मुनिसत्तम

3.5.15

याज्ञवल्क्योपि मैत्रेय प्राणायामपरायणः ।
तृष्टाव प्रयतःसूर्यं यजूंष्यभिलषंस्ततः

3.5.16

याज्ञवल्क्य उवाच
नमः सवित्रे द्वाराय मुक्तेर् अमिततेजसे ।
ऋग्यजुःसामभूताय त्रयीधाम्ने च ते नमः

3.5.17

नमोग्नीषोमभूताय जगतः कारणात्मने ।
भास्कराय परं तेजःसौषुम्णरुचिबिभ्रते

3.5.18

कलाकाष्ठानिमेषादिकालज्ञानात्मरूपिणे ।
ध्येयाय विष्णुरूपाय परमाक्षररूपिणे

3.5.19

बिभर्ति यःसुरगणानाप्यायेन्दुं स्वरश्मिभिः ।
स्वधामृतेन च पितॄंस् तस्मै तृप्त्यात्मने नमः

3.5.20

हिमांबुघर्मवृष्टीनां कर्ता भर्ता च यः प्रभुः ।
तस्मै त्रिकालरूपाय नमःसूर्यायवेधसे

3.5.21

अपहन्ति तभो यश् च जगतोस्य जगत्पतिः ।
तस्य धामधरो देवो नमस्तस्मै विवस्वते

3.5.22

सत्कर्मयोग्यो न जनो नैवापः शुद्धिकारणम् ।
यस्मिन्ननुदिते तस्मै नमो देवाय भास्वते

3.5.23

स्पृष्टो यदंशुभिर् लोकः क्रियायोग्यो हि जायते ।
पवित्रकारणात्माय तस्मै शुद्धात्मने नमः

3.5.24

नमः सवित्रे सूर्याय भास्कराय विवस्वते ।
आदित्यायादिभूताय देवादीनां नमो नमः

3.5.25

हिरण्मयं रथं यस्य केतवोमृतवाजिनः ।
वहन्ति भुवनालोकचक्षुषं तं नमाम्यहम्

3.5.26

श्रीपराशर उवाच
इत्येवमादिभिस् तेन स्तूयमानःस वै रविः ।
वाजिरूपधरः प्राह व्रीयतामिति वाञ्छितम्

3.5.27

याज्ञवल्क्यस्तदा प्राह प्रणिपत्य दिवाकरम् ।
यजूंषि तानि मे देहि यानि संति न मे गुरौ

3.5.28

श्रीपराशर उवाच
एवमुक्तो ददौ तस्मै यजूंषि भगवान्रविः ।
अयातयामसंज्ञानि यानि वेत्ति न तद्गुरुः

3.5.29

यजूंषि यैर् अधीतानि तानि विप्रैर् धिजोत्तम ।
वाजिनस्ते समाख्याताः सूर्योप्यश्वोभवद्यतः

3.5.30

शाखाभेदास्तु तेषां वै दश पञ्च च वाजिनाम् ।
काण्वाद्याःसुमहाभागा याज्ञवल्क्याः प्रकीर्तिताः

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc