भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 3.4

3.4.1

इति क्षिविष्णुमहापुराणे तृतीयांशे तृतीयो ऽध्यायः (3)
श्रीपराशर उवाच
आद्यो वेदश्चतुष्पादः कृतः साहस्रसंमितः ।
ततो दशगुमः कृत्स्नो यज्ञोयं सर्वकामधुक्

3.4.2

ततोत्र मत्सुतो व्यासो अष्टविंशतिमेन्तरे ।
वेदमेकं चतुष्पादं चतुर्धा व्यभजत्प्रभुः

3.4.3

यथा च तेन वै व्यस्ता वेदब्यासेन धीमता ।
वेदास् तथा समस्तैस् तैर् व्यस्ता व्यस्तैस् तथा मया

3.4.4

तदनेनैव वेदानां शाखाभेदान्द्विजोत्तम ।
चतुर्युगेषु पठितान्समस्तेष्ववधारय

3.4.5

कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् ।
को ह्यन्यो भुवि मैत्रेय महाभारतकृद्भवेत्

3.4.6

तेन व्यस्ता यथा वेदा मत्पुत्रेण महात्मना ।
द्वापरे ह्य् अत्र मैत्रेय तस्मिञ् शृणु यथातथम्

3.4.7

ब्रह्मणा चोदितो व्यासो वेदान्व्यस्तुं प्रचक्रमे ।
अथ शिष्यान्प्रजग्राह चतुरो वेदपारगान्

3.4.8

ऋग्वेदपाठकं पैलं जग्राह स महामुनिः ।
वैशंपायननामानं यजुर्वेदस्य चाग्रहीत्

3.4.9

जैमिनिं सामवेदस्य तथैवाथर्ववेदवित् ।
सुमन्तुस्तस्य शिष्योभूद्वेदव्यासस्य धीमतः

3.4.10

रोमहर्षणनामानं महाबुद्धिं महामुनिः ।
सूतं जग्राह शिष्यं स इतिहासपुराणयोः

3.4.11

एक आसीद्यजुर्वेदस्तं चतुर्धा व्यकल्पयत् ।
चातुर्हेत्रमभूत्तस्मिंस्तेन यज्ञमथाकरोत्

3.4.12

आध्वर्यवं यजुर्भिस् तु ऋग्भिर् होत्रं तथा मुनिः ।
औद्गात्रं सामाभिश्चक्रे ब्रह्मत्वं चाप्यथर्वभिः

3.4.13

ततःस ऋच उद्धृत्य ऋग्वेदं कृतवान्मुनिः ।
यजृंषि च यजुर्वेदं सामवेदं च सामाभः

3.4.14

राज्ञां चाथर्ववेदेन सर्वकर्माणि च प्रभुः ।
कारयामास मैत्रेय ब्रह्मत्वं च यथास्थिति

3.4.15

सोयमेको यथा वेदस्तरुस्तेन पृथक्कृतः ।
चतुर्धाथ ततो जातं वेदपादपकाननम्

3.4.16

बिभेद प्रथमं विप्र पैलो ऋग्वेदपादपम् ।
इन्द्रप्रमितये प्रादाद्बाष्कलाय च संहिते

3.4.17

चतुर्धा स विभेदाथ बाष्कलोपि च संहिताम् ।
बोधादिभ्यो ददौ ताश् च शिष्येभ्यः समहामुनिः

3.4.18

बोध्याग्निमाढकौ तदूद्याज्ञवल्क्यपराशरौ ।
प्रतिशाखास्तु शाखायास्तस्यास्ते जगृहुर्मुने

3.4.19

इन्द्रप्रमितिरेकां तु संहितां स्वसूतं ततः ।
माण्डुकेयं महात्मानं मैत्रेयाध्यापयत्तदा

3.4.20

तस्य शिष्यप्रशिष्येभ्यः पुत्रशिष्यक्रमाद्ययौ

3.4.21

वेदमित्रस्तु शाकल्यः संहितां तामधीतवान् ।
चकार संहिताः पञ्च शिष्येभ्यः प्रददौ च ताः

3.4.22

तस्य शिष्यास्तु ये पञ्च तेषां नामानि मे शृणु ।
मुद्गलो गोमखश्चैव वात्स्यः शालीय एव च ।
शरीरः पञ्चमश्चासीन्मैत्रेय सुमहामतिः

3.4.23

संहितात्रितयं चक्रे शाकपूर्णस्तथेतरः ।
निरुक्तमकरोत्तदूच्चतुर्थं मुनिसत्तम

3.4.24

क्रैञ्चो वैतालिकस्तद्वद्बलाकश् च महामुनिः ।
निरुक्तश् च चतुर्थोभूद्वेदवेदाङ्गपारगः

3.4.25

इत्येताः प्रतिशाखाभ्यो ह्यनुशाखा द्विजोत्तम ।
बाष्कलश्चापरास्तिस्त्रःसंहिताः कृतवान्द्विज ।
शिष्यः कालायनिर्गार्ग्यस्तृतीयश् च कथाजपः

3.4.26

इत्येता बह्वृचाः प्रोक्ताः संहिता यैः प्रवर्तिताः

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc