विष्णु पुराण · अध्याय 3.3
इति श्रिविष्णुमहापुराणे तृतीयांशे द्वितीयो ऽध्यायः (2)
मैत्रेय उवाच
ज्ञातमेतन्मया त्वत्तो यथा सर्वमिदं जगत् ।
विष्णुर्विष्णो विष्णुतश् च न परं विद्यते ततः
एतत्तु श्रोतुमिच्छामि व्यस्ता वेदा महात्मना ।
वेदव्यासस्वरूपेण यथा तेन युगेयुगे
यस्मिन्यस्मिन्युगे व्यासो यो य आसीन्महामुने ।
तन्तमाचक्ष्व भगवञ्छाशाभेदांश् च मे वद
श्रीपराशर उवाच
वेदद्रुमस्य मैत्रेय शाखाभेदाःसहस्रशः ।
न शक्तो विस्तराद्वक्तुं सेक्षेपेण शृणुष्व तम्
द्वापरेद्वापरे विष्णुर्व्यासरूपी महामुने ।
वेदमेकं सुबहुधा कुरुते जगतो हितः
वीर्यं तेजो बलं चाल्पं मनुष्याणामवेक्ष्य च ।
हिताय सर्वभूतानां वेदभेदान्करोति सः
ययासौ कुरुते तन्वा वेदमेकं पृथक् प्रभुः ।
वेदव्यासाभिधाना तु सा च मूर्तिर्मध्रुद्विषः
यस्मिन्मन्वंरते व्यासा येये स्युस्तान्निबोध मे ।
यथा च भेदः शाखानां व्यासेन क्रियते मुने
अष्टविंशतिकृत्वो वै वेदो व्यस्तो सहर्षिभिः ।
वैवस्वतेन्तरे तस्मिन्द्वापरेषु पुनः पुनः
वेदव्यासा व्यतीता ये ह्यष्टर्विशति सत्तम ।
चतुर्धा यैः कृतो वेदो द्वापरेषु पुनः पुनः
द्वापरे प्रथमे व्यस्तःस्वयं वेदः स्वयंभुवा ।
द्वितीये द्वापरे चैव वेदव्यासः प्रजापति
तृतीये चोशना व्यासश्चतुर्थे च बृहस्पतिः ।
सविता पञ्चमे व्यासः षष्ठे मृत्युः स्मृतः प्रभुः
सप्तमे च तथैवेन्द्रो वसिष्ठश्चाष्टमे स्मृतः ।
सारस्वतश् च नवमे त्रिधामा दशमे स्मृतः
एकादशे तु त्रिशिखो भरद्वाजस्ततः परः ।
त्रयोदशे चान्तरिक्षो वर्णी चापि चतुर्दशे
त्रय्यारुणः पञ्चदशे षोडशे तु धनञ्जयः ।
क्रतुञ्जयः सप्तदशे तदूर्ध्वं च जयःस्मृतः
ततो व्यासो भरद्वाजो भरद्वाजाच्च गौतमः ।
गौतमादुत्तरो व्यासो हर्यात्मा योभिधीयते
अथ हर्यात्मनोन्ते च स्मृतो वाजश्रवामुनिः ।
सोमशुष्कायणस् तस्मात् तृणबिन्दुरिति स्मृतः
ऋक्षोभूद्भार्गवस्तस्माद्वाल्मीकिर्योभिधीयते ।
तस्मादस्मत्पिता शक्तिर्व्यासस्तस्मादहं मुने
जातुकर्णोभवन्मत्तः कृष्णद्वैपायनस्ततः ।
अष्टविंशतिरित्येते वेदव्यासाः पुरातनाः
एको वेदश्चतुर्धा तु तैः कृतो द्वापरादिषु
भविष्ये द्वापरे चापि द्रौणिर्व्यासो भविष्यति ।
व्यतीते मम पुत्रेस्मिन् कृष्णद्वैपायने मुने
ध्रुवमेकाक्षरं ब्रह्म ओम् इत्येव व्यवस्थितम् ।
बृहत्वाद्बृंहणत्वाच्च तद्ब्रह्योत्यभिधीयते
प्रणवावस्थितं नित्यं भूर्भुवःस्वरितीर्यते ।
ऋग्यजुःसामाथर्वाणो यत्तस्मै ब्रह्मणे नमः
जगतः प्रलयोत्पत्त्योर्यत्तत्कारणसंज्ञितम् ।
महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः
अगाधापारमक्षय्यं जगत्संमोहनालयम् ।
स्वप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम्
संख्यज्ञानवतां निष्ठा गतिः शमदमात्मनाम् ।
यत्तदव्यक्तममृतं प्रवृत्तिर्ब्रह्म शाश्वतम्
प्रधानमात्मयोनिश् च गुहासंस्थं च शब्द्यते ।
अविभागं तथा शुक्रमक्षयं बहुधात्मकम्
परमब्रह्मणे तस्मै नित्यमेव नमोनमः ।
यद्रूपं वासुदेवस्य परमात्मस्वरूपिणः
एतद्ब्रह्म त्रिधा भेदमभेदमपि स प्रभुः ।
सर्वभेदेष्वभेदोसौभिद्यते भिन्नबुद्धिभिः
स ऋङ्मयःसाममयः सर्वात्मा स यजुर्मयः ।
ऋग्यजुःसामसारात्मा स एवात्मा शरीरिणाम्
स भिद्यते वेदमयःस्ववेदं करोति भेदैर् बहुभिः सशाखम् ।
शाखाप्रणेता स समस्तशाखाज्ञानस्वरूपो भगवानसंगः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0