विष्णु पुराण · अध्याय 3.2
इति श्रीविष्णुमहापुराणे तृतीयांशे प्रथमो ऽध्यायः (1)
मैत्रेय उवाच
प्रोक्तान्येतानि भवता सप्त मन्वन्तराणि वै ।
भविष्याण्यपि विप्रर्ष ममाख्यातुं त्वमर्हसि
श्रीपराशर उवाच
सूर्यस्य पत्नी संज्ञाभूत्तनया विश्वकर्मणः ।
मनुर्यमो यमी चैव तदपत्यानि वै मुने
असहन्ती तु सा भर्तुस्तेजश्छायां युयोज वै ।
भर्तृशुश्रूषणे ऽरण्यंस्वयं च तपसे ययौ
संज्ञेयमित्यथार्कश् च छायायामात्मजत्रयम् ।
शनैश्चरं मनुं चान्यं तपतीं चाप्यजाजनत्
छायासंज्ञा ददौ शापं यमाय कुपिता यदा ।
तदान्येयमसौ बुद्धिरित्यासीद्यमसूर्ययोः
ततो विवस्वानाख्यातां तयैवारण्यसंस्थिताम् ।
समाधिदृष्ट्याददृशे तामश्वां तपसि स्थिताम्
वाजिरूपधरः सोथ तस्यां देवावथाश्विनौ ।
जनयामास रेवन्तं रेतसोंते च भास्करः
आनिन्ये च पुनः संज्ञां स्वस्थानं भगवान् रविः ।
तेजसः शमनं चास्य विश्वकर्मा चकार ह
भ्रममारोप्य सूर्यं तु तस्य तेजोनिशातनम् ।
कृतवानष्टमं भागं स व्यशातयदव्ययम्
यत्तस्माद्वैष्णवं तेजस्शातितं विश्वकर्मणा ।
जाज्वल्यमानमपतत्तद्भूमौ मुनिसत्तम
त्वष्टैव तेजसा तेन विष्णोश्चक्रमकल्पयत् ।
त्रिशूलं चैव शर्वस्य शिबिकां धनदस्य च
शक्तिं गुहस्य देवानामन्येषां च यदायुधम् ।
तत्सर्वं तेजसा तेन विश्वकर्मा व्यवर्धयत्
छायासंज्ञासुतो योसौ द्वितीयः कथितो मनुः ।
पूर्वजस्यासवर्णोसौ सावर्णिस्तेन कथ्यते
तस्य मन्वन्तरं ह्योतत्सावर्णिकमथाष्टमम् ।
तच्छृणुष्व महाभाग भविष्यत्कथयामि ते
सावर्णिस्तु मनुर्योसौ मैत्रेय भविता ततः ।
सुतपाश्चामिताभाश् च मुख्याश्चापि तथा सुराः
तेषां गणाश् च देवानामेकैको विंशकः स्मृतः ।
सप्तर्षिनपि वक्ष्यामि भविष्यान्मुनिसत्तम
दीप्तिमान् गालवो रामः कृपो द्रोणिस् तथा परः ।
मत्पुत्रश् च तथा व्यास ऋष्यशृङ्गश् च सप्तमः
विष्णु प्रसादादनघः पातालान्तरगोचरः ।
विरोचनसुतस्तेषां बलिरिन्द्रो भविष्यति
विरजाश्चोर्वरीवांश् च निर्मोकाद्यास्तथापरे ।
सावर्णेस्तु मनोः पुत्रा भविष्यन्ति नरेश्वराः
नवमो दक्षसावर्णिर्भविष्यति मुने मनुः
पारा मरीचिगर्भाश् च सुधर्माणस् तथा त्रिधा ।
भविष्यन्ति तथा देवा ह्योकैको द्वादशो गणः
तेषामिद्रो महावीर्यो भविष्यत्यद्भुतो द्विज
सवनो द्युतिमान् भव्यो वसुर्मेधातिथिस् तथा ।
ज्योतिष्मान् सप्तमः सत्यस्तत्रैते च महर्षयः
धृतकेतुर्दीप्तिकेतुः पञ्चहस्तनिरामयौ ।
पृथुश्रवाद्याश् च तथा दक्षमावर्णिकात्मजाः
दसमो ब्रह्मसावर्मिर्भविष्यति मुने मनुः ।
सूधामानो विशुद्धाश् च शतसंख्यास् तथा सुराः
तेषाम् इन्द्रश् च भविता शान्तिर् नाम महाबलः ।
सप्तर्षयो भविष्यन्ति ये तथा ताञ्छृणुष्व ह
हविष्मान्सुकृतःसत्यस्तपोमूर्तिस्तथापरः ।
नाभागो ऽप्रतिमौजाश्चसत्यकेतुस्तथैव च
सुक्षेत्रश्चोत्तमौजाश्चभूरिषेणादयो दश ।
ब्रह्मसावर्णिपुत्रास्तु रक्षिष्यन्ति वसुंधराम्
एकादशश् च भविता धर्मसावर्णिको मनुः
विहङ्गमाः कामागमा निर्वाणा ऋषयस् तथा ।
गणास्त्वेते तदा मुख्या देवानां च भविष्यताम् ।
ऐकैकस्त्रिंशकस्तेषां गणश्चेन्द्रश् च वै पृषा
निः स्वरश्चाग्नितेजाश् च वपुष्मान्घणिरारुणिः ।
हविष्माननघश्चैव भाव्याः सप्तर्षयस् तथा
सर्वत्रगस्शुधर्मा च देवानीकादयस् तथा ।
भविष्यन्ति मनोस्तस्य तनयाः पृतिविश्वराः
रुद्रपुत्रस्तु सावर्णिर्भविता द्वादशो मनुः ।
ऋकुधामा च तत्रेद्रो भविता शृणु मे सुरान्
हरिता रोहिता देवास् तथा मुमनसो द्विज ।
सुकर्माणः सुरापाश् च दशकाः पञ्च वै गणाः
तपस्वी सुतपाश्चैव तपोमूर्तिस्तपोरतिः ।
तपोधृतिर्द्युतिश्चान्यः सप्तमस्तु तपोधनः ।
सप्तर्षयस्त्विमे तस्य पुत्रानपि निबोध मे
देववानुपदेवश् च देवश्रेष्ठादयस् तथा ।
मनोस्तस्य महावीर्या भविष्यन्ति महानृपाः
त्रयोदशो रुचिर्नामा भविष्यति मुने मनः
सुत्रामाणः सुकर्माणः सुधर्माणस्तथामराः ।
त्रयस्त्रिंशद्विभेदास्त देवानां यत्र वै गणाः
दिवस्पतिर्महावीर्यस्तेषामिन्द्रोभिविष्यति
निर्मोहस्तत्त्वदर्शि च निष्प्रकंप्यो निरुत्सुकः ।
धृतिमानव्ययश्चान्यःसप्तमःसुतपा मुनिः ।
सप्तर्षयस्त्वमी तस्य पुत्रानपि निबोधे मे
चित्रसेनविचित्राद्या भविष्यन्ति महीक्षिकः
भौमश्चतुर्दशश्चात्र मैत्रेय भविता मनः ।
शुचिरिन्द्रः सुरगणस्तत्र पञ्च शृणुष्व तान्
चाक्षुषाश् च पवित्राश् च कनिष्ठा भ्राजिकास् तथा ।
वाचवृद्धश् च वै देवाःसप्तर्षीनपि मे शृणु
अग्निबाहुः शुचिः शुक्रो मागधोग्नीध्र एव च ।
युक्तस् तथा जितश्चान्यो मनुपुत्रानतः शृणु
ऊरुगंभीरबुद्ध्याद्या मनोस्तस्य सुता नृपाः ।
कथिता मुनिशार्दुल पालयिष्यन्ति ये महीम्
चतुर्युगान्ते वेदानां जायते किल विप्लवः ।
प्रवर्तयन्ति तानेत्य भुवं सप्तर्षयो दिवः
कृतेकृते स्मृतेर् विप्र प्रणेता जायते मनुः ।
देवा यज्ञभुजस्ते तु यावन्मन्वन्तरं तु तत्
भवन्ति ये मनोः पुत्रा यावन्मन्वंरतं तु तैः ।
तदन्वयोद्भवैश् चैव तावद्भूः परीपाल्यते
मनुःसप्तर्षयो देवा भूपालाश् च मनोः सुताः ।
मन्वन्तरे भवन्त्येते शक्रश्चैवाधिकारिमः
चतुर्दशभिर् एतैस् तु गतैर् मन्वन्तरैर् द्विज ।
सहस्रयुगपर्यतः कल्पो निःशेष उच्यते
तावत्प्रमाणा च निशा ततो भवति सत्तम ।
ब्रह्मरूपधरः शेते शेषाहावंबुसंप्लवे
त्रैलोक्यमखिलं ग्रस्त्वा भगवानादिकृद्विभुः ।
स्वमायासंस्तितो विप्र सर्वभूतो जनार्दनः
ततः प्रबुद्धो भगवान् यथा पूर्वं तथा पुनः ।
सृष्टिं करोत्यव्ययात्मा कल्पेकल्पे रजोगुमः
मनवो भूभुजःसेंद्रा देवाःसप्तर्षयस् तथा ।
सात्त्विकोंशः स्थितिकरो जगतो द्विजसत्तम
चदुर्युगोप्यसौ विष्णुः स्थितिव्यापारलक्षमः ।
युगव्यवस्थां कुरुते तथा मैत्रेय तच्छृणु
कृते युगे परं ज्ञानं कपिलादिस्वरूपधृक् ।
ददाति सर्वभूतात्मा सर्वभूतहिते रतः
चक्रवर्तिस्वरूपेण त्रेतायामपि स प्रभूः ।
दुष्टानां निग्रह कुर्वन्परिपाति जगत्त्रयम्
वेदमेकं चतुर्भेदं कृत्वा शाखाशतैर् विभुः ।
करोति बहुलं भूयो वेदव्यासस्वरूपधृक्
वेदांस्तु द्वापरे व्यस्य कलेरन्ते पुनर्हरिः ।
कल्किस्वरूपी दुर्वृत्तन्मार्गे स्थापयति प्रभुः
एवमेतज्जगत्सर्वं शश्वत्पाति करोति च ।
हन्ति चान्तेष्वनन्तात्मा नास्त्यस्मव्द्यतिरेकि यत्
भूतं भव्यं भविष्यं च सर्वभूतान्महात्मनः ।
तदत्रान्यत्र वा विप्र सद्भावः कथितस्तव
मन्वन्तराण्यशेषाणि कथितानि मया तवा ।
मन्वन्तराधिपांश्चैव किमन्यत्कथयामि ते
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0