विष्णु पुराण · अध्याय 3.1
इति श्रीविष्णुमदृद्विदृषोडशो ऽध्यायः (16)
इति श्रिविष्णुमहापुराणे द्वितीयोंशः समाप्तः
अथ श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्यश्रीधरीय व्याख्याद्वयोपेते तृतीयोंशः प्रारभ्यते
श्रीमते रामानुजाय नमः
मैत्रेय उवाच
कथिता गुरूणासम्यग्भूसमुद्रादिसंस्थितिः ।
सूर्यादिनां च संस्थानं ज्योतिषां चातिविस्तरात्
देवादीनां तथा सृष्टिरृषीणां चापि वर्णिता ।
चातुर्वर्ण्यस्य चोत्पत्तिस्तिर्यग्योनिगतस्य च
ध्रुवप्रह्लादचरितं विस्तराच्च त्वयोदितम् ।
मन्वन्तराण्यशेषाणि श्रोतुमिच्छाम्यनुक्रमात्
मन्वन्तराधिपांश्चैव शक3देवपुरोगमान् ।
भवता कथितानेताञ्छ्रोतुमिच्छाम्यहं गुरो
श्रीपराशर उवाच
अतीतानागतानीह यानि मन्वन्तराणि वै ।
तान्यहं भवतः सम्यक्लथयामि यथा क्रमम्
स्वायंभुवो मनुः पूर्वं परः स्वारोचिषस् तथा ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस् तथा
षडेते मनवोतीताःसांप्रतं तु रवेःसुतः ।
वैवस्वतेयं यस्त्वेतत्मप्तमं वर्ततेन्तरम्
स्वायंभुवं तु कथितं कल्पादावन्तरं मया ।
देवाः सप्तर्षयश् चैव यथावत् कथिता मया
अत ऊर्ध्वं प्रवक्ष्यामि मनोःस्वारोचिषस्य तु ।
मन्वन्तराधिपान्सम्यग्देवर्षिंस्तत्सुतांस् तथा
पारावताः सतुषिता देवाः स्वारोचिषे ऽन्तरे ।
विपश्चत्तत्र देवेन्द्रो मैत्रेयासीन्महाबलः
ऊर्जस्तंभस् तथा प्राणोवातोर्थ पृषभस् तथा ।
निरयश् च परीवांश् च तत्र सप्तर्षयो ऽभवन्
चैत्रकिंपुरुषाद्याश् च सुताःस्वारोचिषस्य तु ।
द्वितीयमेतद्व्याख्यातमन्तरं शृणु चोत्तमम्
तृतीयेप्यन्तरे ब्रह्मन्नुत्तमो नाम यो मनुः ।
सुशान्तिर्नाम देवेन्द्रो मैत्रेयासीत्सुताञ्छृणु
सुधामानस् तथा सत्या जपाश्चाथ प्रतर्दनाः ।
वशवर्तिश् च पञ्चैते गणा द्वादशकाःस्मृताः
वसिष्ठतनया ह्योते सप्त सप्तर्षयोभवन् ।
अजः परशुदीप्ताद्यास्तथोत्तममनोःसुताः
तामसस्यान्तरे देवाःसुपारा हरयस् तथा ।
सत्याश् च सुधियश्चैव सप्तविंशतिका गणाः
शिविरिन्द्रस् तथा चासीच्छतयज्ञोपलक्षमः ।
सप्तर्ष यश् च ये तेषां तेषां नामानि मे शृणु
ज्योतिर्धामा पुथुः कात्यश्चैत्रोग्निर्धनकस् तथा ।
पीवरश्चर्षयो ह्येते सप्त तत्रापि चान्तरे
नरः ख्यातिः केतुरूपो जानुजङ्घादयस् तथा ।
पुत्रास्तु तामसस्यासन्नाजानःसुमहाबलाः
पञ्चमे वापि मैत्रेय रैवतो नाम नामतः ।
मनुर्विभुश् च तत्रेन्द्रो देवांश्चात्रान्तरे शृणु
अमिताभा भूतरया वैकुण्ठाःसुसमेधसः ।
एते देवगणास्तत्र चतुर्दश चतुर्दश
हिरण्यरोमा वेदाश्रिरूर्ध्वबाहुस्तथावरः ।
वेदबाहुःसुधामा च पर्जन्यश् च महामुनिः ।
एते सप्तर्षयो विप्र तत्रासन्रैवतेन्तरे
बलबन्धुश् च संभाव्यःसत्यकाद्याश् च तत्सुताः ।
नरेन्द्राश् च महावीर्या बभूवुर्मुनिसत्तम
स्वारोचिषश्चौत्तमश् च तामसो रैवतस् तथा ।
प्रियव्रतान्वया ह्येते चत्वारो मनवःस्मृताः
विष्णुमाराध्य तपसा स राजर्षिः प्रियव्रतः ।
मन्वन्तराधिपानेताल्लंब्धवानात्मवंशजान्
षष्ठे मन्वंरते चासीच्चाक्षुषाख्यस् तथा मनुः ।
मनोजवस्तथैवेन्द्रो देवानपि निबोध मे
आप्याः प्रसूता भव्याश् च पृथुकाश्चा दिवौकसः ।
महानुभावा लखाश् च पञ्चैते ह्यष्टका गणाः
सुमेधा विरजाश्चैव हविष्मानुत्तमो मधुः ।
अतिनामा सहिष्णुश् च सप्तासन्निति चर्षयः
ऊरुः पूरुः शतध्युम्नप्रमुखाः सुमहाबलाः ।
चाक्षुषस्य मनोः पुत्राः पृथिवीपतयो ऽभवन्
विवस्वतःसुतो विप्र श्राद्धदेवो महाद्युतिः ।
मनुःसंवर्तते धीमान् सांप्रतं सप्तमेन्तरे
आदित्यवसुरुद्राद्या देवाश्चात्र महामुने ।
पुरन्दरस्तथैवात्र मैत्रेय त्रिदशेश्वरः
वशिष्ठः काश्यपोथात्रिर्जमदग्निःसगौतमः ।
विश्वामित्रभरद्वाजौ सप्त सप्तर्षयो ऽभवन्
इक्ष्वाकुश् च नृगश्चैव धृष्टः शर्यातिरेव च ।
नरिष्यन्तश् च विख्यातो नाभागोरिष्ट एव च
करूषश् च पृषध्रश् च सुमहांल्लोकविश्रुतः ।
मनोर्वैवस्वतस्यैते नव पुत्राः सुधार्मिकाः
विष्णुशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थितौ स्थिता ।
मन्वन्तरेष्वशेषेषु देवत्वेनाधितिष्ठति
अंशेन तस्या जज्ञे ऽसौ यज्ञःस्वायंभुवेन्तरे ।
आकूत्यां मानसो देव उत्पन्नः प्रथमेन्तरे
ततः पुनः स वै देवः प्राप्ते स्वारोचिषेन्तरे ।
तुषितायां समुत्पन्नो ह्याजिषस्तुषितैः सह
औत्तमप्यन्तरे देवस्तुषितस्तु पुनःस वै ।
सत्यायामभवत्सत्यः सत्यैः सह सुरोत्तमैः
तामसस्यान्तरे चैव संप्राप्तो पुनरेव हि ।
हर्यायां हरिभिः सार्ध हरिरेव बभूव ह
रैवतेप्यन्तरे देवःसंभूत्यां मानसो हरिः ।
संभूतो रैवतैः सार्ध देवैर् देववरो हरिः
चाक्षुषे चान्तरे देवो वैकुण्ठः पुरुषोत्तमः ।
विकुण्ठायामसौ जज्ञे वैकुण्ठैर् दैवतैः सह
मन्वन्तरेत्र संप्राप्ते तथा वैवस्वतेद्विज ।
वामनः काश्यपाद्विष्णुरदित्यां संबभूव ह
त्रिभिः क्रमैर् इमांल् लोकाञ् जित्वा येन महात्मना ।
पुरन्दराय त्रैलोक्यं दत्तं निहतकण्टकम्
इत्येतास्तनवस्तस्य सप्तमन्वन्तरेषु वै ।
सप्तस्वेवाभवन्विप्र याभिः संवर्धिताः प्रजाः
यस्माद् विष्टमिदं विश्वं यस्य शक्त्या महात्मनः ।
तस्मात्स प्रोच्यते विष्णुर्विशोर्धातोः प्रवेशनात्
सर्वे च देवा मनवःसमस्ताःसप्तर्षयो ये मनुसूनवश् च ।
इन्द्रश्चयो ऽयं त्रिदशेशभूतो विष्णोरशोषास्तु विभूतयस्ताः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0