भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 3.17

3.17.1

इति श्रीविष्णुमहापुराणे तृतीयांशे पोडशो ऽध्यायः (16)
श्रीपराशर उवाच
इत्याह भगवानौर्वःसगराय महात्मने ।
सदाचारं पुरा सम्यङ् मैत्रेय परिपृच्छते

3.17.2

मयाप्येतदशेषेण तथितं भवतो द्विज ।
समुल्लङ्घ्य सदाचारं कश्चिन्नाप्नोति शोभनम्

3.17.3

श्रीमैत्रेय उवाच
षण्डापविद्धप्रमुखा विदिता भगवन्मया ।
उदक्याद्याश् च मे सम्यङ् नग्नमिच्छामि वेदितुम्

3.17.4

कोनग्नः किं समाचारो नग्नसंज्ञां नरो लभेत् ।
नग्नस्वरूपमिच्छामि यथावत्कथितं त्वाय ।
श्रोतुं धर्मभृतां श्रेष्ठ न ह्यस्त्यविदितं तव

3.17.5

श्रीपराशर उवाच
ऋग्यजुःसामसंज्ञेयं त्रयी वर्णावृत्तिर्द्विज ।
एतामुज्झति यो मोहात्स नग्नः पातकी द्वजः

3.17.6

त्रयी समस्तवर्णानां द्विजसंवारणं यतः ।
नग्नो भवत्युज्झितायां यतस्तस्यां न संशयः

3.17.7

इदं च श्रुयतामन्यद्यद्भीष्माय महात्मने ।
कथयामास धर्मज्ञो वसिष्ठो ऽस्मत्पितामहः

3.17.8

मयापि तस्य गदतः श्रुतमेतन्महात्मनः ।
नग्नसंबन्धि मैत्रेय यत्पृष्टोहमिह त्वाया

3.17.9

देवासुरमभूद्युद्धं द्विव्यमब्दशतं पुरा ।
तस्मिन्परजिता देवा दैत्यैर् ह्रादपुरोगमैः

3.17.10

क्षीरोदस्योत्तरं कूलं गत्वा तप्यन्त वै तपः ।
विष्णोराराधनार्थाय जगुश्चेमं स्तवं तदा

3.17.11

देवा ऊचुः
आराधनाय लोकानां विष्णोरीशस्य यां गिरम् ।
वक्ष्यामो भगवानद्य तया विष्णुः प्रसीदतु

3.17.12

यतो भूतान्यशेषाणि प्रसूतानि महात्मनः ।
यस्मिश् च लयमेष्यन्ति कस्तं स्तोतुमिहेश्वरः

3.17.13

तथाप्यरातिविध्वंसध्वस्तवीर्या भयार्थिनः ।
त्वां स्तोष्यामस्तवोक्तीनां याथार्थ्यं नैव गोचरे

3.17.14

त्वमुर्वी सलिलं वह्निर्वायुराकाशमेव च ।
समस्तमन्तःकरणं प्रधानं तत्परः पुमान्

3.17.15

एकं तवैतद्भूतात्मन्मूर्तमूर्तमयं वपुः ।
आब्रह्मस्तंबपर्यन्तं स्थानकालविभेदवत्

3.17.16

तत्रैशं तव यत्पूर्वं त्वन्नाभिकमलोद्भवम् ।
रूपं विश्वोपकाराय तस्मै ब्रह्मात्मने नमः

3.17.17

शक्रार्करुद्रवस्वश्विमरुत्सोमादिभेदवत् ।
वयमेकं स्वरूपं ते तस्मै देवात्मने नमः

3.17.18

दंभप्रायमसंबोधि तितिश्रादमवर्जितम् ।
यद्रूपं तव गोविन्द तस्मै दैत्यात्मने नमः

3.17.19

नातिज्ञानवहा यस्मिन्नाड्यस्तिमिततेजसि ।
शब्दादिलोभि यस्तस्मै तुभ्यं यत्रात्मने नमः

3.17.20

क्रौर्यं मायामयं घोरं यच्च रूपं तवासितम् ।
निशाचरात्मने तस्मै नमस्ते पुरुषोत्तम

3.17.21

स्वर्गस्थधर्मिसद्धर्मफलोपकरणं तव ।
धर्माख्यं च तथा रूपं नमस्तस्मै जनार्दन

3.17.22

हर्षप्रायमसंसर्गि गतिमद्गमनादिषु ।
सिद्धाख्यं तव यद्रूपं तस्मै सिद्धात्मने नमः

3.17.23

अतितिक्षायनं क्रूरमुपभोगसहं हरे ।
द्विजीह्वन्तव यद्रूपं तस्मै नागात्मने नमः

3.17.24

अवबोधि च यच्छान्तमदोषमपकल्पषम् ।
ऋषिरूपात्मने तस्मै विश्वरूपाय ते नमः

3.17.25

भक्षयत्यथ कल्पान्ते भूतानि यदवारितम् ।
त्वद्रूपं पुण्ढरीकाक्ष तस्मै कालात्मने नमः

3.17.26

संभक्ष्य सर्वभूतानि देवादीन्य् अविशेषतः ।
नृत्यत्यन्ते च यद्रूपं तस्मै रुद्रात्मने नमः

3.17.27

प्रवृत्त्या रजसो यच्च कर्मणां करणात्मकम् ।
जनर्दन नमस्तस्मै त्वद्रूपाय नरात्मने

3.17.28

अष्टाविशद्वधोपेतं यद्रूपं तामसं तव ।
उन्मार्गगामि सर्वात्मंस्तस्मै वश्यात्मने नमः

3.17.29

यज्ञाङ्गभूतं यद्रूपं जगतः स्थितिसाधनम् ।
वृक्षादिभेदैः षड्भेदि तस्मै मुक्यात्मने नमः

3.17.30

तिर्यङ्मनुष्यदेवादिव्योमशब्दादिकं च यत् ।
रूपं तवादेः सर्वस्य तस्मै सर्वात्मने नमः

3.17.31

प्रधानबुद्ध्यादिमयादशेषाद्यदन्यदस्मात्परमं परात्मन् ।
रूपं तवाद्यं यदनन्यतुल्यं तस्मै नमः कारणकारणाय

3.17.32

शुक्लादिदीर्घादिघनादिहीनमगोचरं यच्च विशेषणानाम् ।
सुद्धातिशुद्धं परमर्षिदृश्यं रूपाय तस्मै भगवन्नताः स्मः

3.17.33

यन्नः शरीरेषु यदन्यदेहेष्वशेषवस्तुष्वजमक्षयं यत् ।
तस्माच्च नान्यव्द्यतिरिक्तमस्ति ब्रह्मस्वरूपाय नताः स्म तस्मै

3.17.34

सकलमिदमजस्य यस्य रूपं परमपदात्मवतःसनातनस्य ।
तमनिधनसशेषबीजभूतं प्रभुममलं प्रणताःस्म वासुदेवम्

3.17.35

श्रीपराशर उवाच
स्तोत्रस्य चावसाने ते ददृशुः परमेश्वरम् ।
शङ्खचक्रगदापाणिं गरुडस्थं सुरा हरिम्

3.17.36

तमुचुःसकला देवाः प्रणिपातपुरःसुरम् ।
प्रसीद नाथ दैत्येभ्यस्त्राहि नः शरणार्थिनः

3.17.37

त्रेलोक्ययज्ञभागाश् च दैत्यैर् ह्लादपुरोगमैः ।
हृता नो ब्रह्मणोप्ययाज्ञामुल्लङ्घ्य परम्श्वर

3.17.38

यद्यप्यशेषभू तस्य वयं ते च तावंशजाः ।
तथाप्यविद्याभेदेन भिन्नं पश्यामहे जगत्

3.17.39

स्ववर्णधर्माभिरता वेदमार्गानुसारिणः ।
न शक्यास्तेरयो हन्तुमस्माभिस् तपसावृताः

3.17.40

तमुपायमशेषात्मन्नस्माकं दातुमर्हसि ।
येन तानसुरान्हन्तुं भवेम भगवन्क्षमाः

3.17.41

श्रीपराशर उवाच
इत्युक्तो भगवांस्तेभ्यो मायामोहं शरीरतः ।
समुत्पाद्य ददौ विष्णुः प्राह चेदं सुरोत्तमान्

3.17.42

मायामोहोयमखिलान्दैत्यां स्तान्मोहयिष्यति ।
ततो वध्या भविष्यन्ति वेदमार्गबहिष्कृताः

3.17.43

स्थितौ स्थितस्य मे वध्या यावन्त्रः परिपन्थिनः ।
ब्रह्मणो ह्यधिकारस्य देवा दैत्यादिकाः सुराः

3.17.44

तद्गच्छत नभीः कार्या मायामोहोयमग्रतः ।
गच्छन्नद्योपकाराय भवतां भविता सुराः

3.17.45

श्रीपराशर उवाच
इत्युक्ताः प्रणिपत्यैनं ययुर्देवा यथागतम् ।
मायामोहो ऽपि तैः सार्ध ययौ यत्र महासुराः

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc