विष्णु पुराण · अध्याय 3.16
इति श्रीविष्णुमहापुराणे तृतीयांसे पञ्चदशो ऽध्यायः (15)
और्व उवाच
हविष्यमत्स्यमासैस् तु शशस्य नकुलस्य च ।
सोकरच्छाकलैणेयरौरवैर् गवयेन च
औरभ्रगव्यैश् च तथा मासवृद्ध्या पितामहाः ।
प्रयान्ति तृप्तिं मांसैस् तु नित्यं वार्ध्रोणसामिषैः
खड्गमांसमतीवात्र कालशाकं तथा मधु ।
शस्तानि कर्मण्यत्यन्ततृप्तिदानि नरेश्वर
गयामुपेत्य यः श्राद्धं करोति पृथिवीपते ।
सफलं तस्य तज्जन्म जायते पितृतीष्टिदम्
प्रशान्तिकाःसमीवाराः श्यामाका द्विविधास् तथा ।
वन्यैषधीप्रधानास्तु श्राद्धार्हाः पुरुषर्षभ
यवाः प्रियङ्गवो मुद्गा गोधूमा व्रीहयस्तिलाः ।
निष्पावाः कोविदाराश् च सर्षपाश्चात्र सोभनाः
अकृताग्रयणं यच्च धान्यजातं नरेश्वर ।
राजमाषानणुंश्चैव मसूरांश् च विसर्जयेत्
अलाबुं गृञ्जनं चैव पलाण्डुं पिण्डमूलकम् ।
गान्धारककरंवादिलवाणान्यौषराणि च
आरक्ताश्चैव निर्यासाः प्रत्यक्षलवणानि च ।
वर्ज्यान्येतानि वै श्राद्धे यच्च वाचा न शस्यते
नक्ताहृतमनुच्छिन्नं तृप्यते न च यत्र गौः ।
दुर्घधिफेनिलं चांबु श्राद्धयोग्यं न पार्थिव
क्षिरमेकसफानां यदौष्ट्रमाविकमेव च ।
मार्गं च माहिषं चैव वर्जयेच्छ्राद्धकमेणि
षण्डापविद्धचण्डालपापिपाषण्डरोगिभिः ।
कृकवाकुश्वाननग्न-वानरग्रामसूकरैः
उदक्यासूतिकाशौचमृतहारैश् च वीक्षिते ।
श्राद्धे सुरा न पितरो भुञ्जन्ते पुरुषर्षभ
तस्मात्परीश्रिते कुर्याच्छ्राद्धं श्रद्धासमन्वितः ।
उर्व्यां च तिलविक्षेपाद्यातुधानान्निवारयेत्
नखादिना चोपपन्नं केशकीटादिभिर् नृप ।
न चैवाभिषवैर् मिश्रम् अन्नं पर्युषितं तथा
श्रद्धासमन्वितैर् दत्तं पितृभ्यो नामगोत्रतः ।
यदाहारास्तु ते जातास्तदाहारत्वमेति तत्
श्रूयते चापि पितृर्भिगीता गाथा महीपते ।
इक्ष्वाकोर्मनुपुत्रस्य कलापोपवने पुरा
अपि नस्ते भविष्यन्ति कुले सन्मार्गशीलिनः ।
गयामुपेत्य ये पिण्डान्दास्यन्त्यस्माकमादरात्
अपि नःस कुले जायाद्यो नो दद्यात्त्रयोदशीम् ।
पायसं मधुसर्पिर्भ्यां वर्षासु च मघासु च
गौरीं वाप्युद्वहेत्कन्यां नीलं वा वृषमुत्सृजेत् ।
यजेत वाश्वमेधेन विधिवद्दक्षिणावता
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0