भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 3.15

3.15.1

इति श्रीविष्णुमहापुराणे तृतीयांशे चतुर्दशो ऽध्यायः (14)
औरेव उवाच
ब्राह्मणान्भोजयेच्छ्रद्धे यद्गुणांस्तान्निभोध मे

3.15.2

त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्मःषजङ्गवित् ।
वेदविच्छ्रोत्रियो योगी तथा वै ज्येष्ठसामगः

3.15.3

ऋत्विक्स्वस्त्रेयदौहित्रजामातृश्वशुरास् तथा ।
मातुलोथ तपोनिष्ठः पञ्चाग्न्यभिरतस् तथा ।
शिष्याःसंबन्धिनश्चैव मातापितृरतश् च यः

3.15.4

एतान्नियोजयेच्छ्राद्धे पूर्वोक्तान्प्रथमे नृप ।
ब्राह्मणान् पितृतुष्ट्यर्थम् अनुकल्पेष्व् अनन्तरान्

3.15.5

मित्रध्रुक्कुनखी क्लीबः श्यावदन्तस् तथा द्विजः ।
कन्या दूषयितावह्निवेदोज्झःसोमविक्रयी

3.15.6

अभिशस्तस् तथा स्तेनः पुशुनो ग्रामयाजकः ।
भृतकाध्यापकस्तद्वद्भृतकाध्यापितश् च यः

3.15.7

परपूर्वापतिश्चैव मातापित्रोस्तथोज्झकः ।
वृषलीसूतिपोष्टा च वृषलीपतिरेव च

3.15.8

तथा देवलकश्चैव श्राद्धे नार्हति केतनम्

3.15.9

प्रथमेह्नि बुधः शस्ताञ्छ्रोत्रियादीन्निमन्त्रयेत् ।
कथयेच्च तथैवैषां नियोगान्पितृदैविकान्

3.15.10

ततः क्रोधव्यवायादीनायासं तैर् धिजैः सह ।
यजमानो न कुर्वीत दोषस्तत्र महानयम्

3.15.11

श्राद्धे नियुक्तो भुक्त्वा वा भोजयित्वा नियुज्य च ।
व्यवायी रेतसो गर्ते मज्जयत्यात्मनः पितॄन्

3.15.12

तस्मात्प्रथममत्रोक्तं द्विजाग्र्याणां निमन्त्रणम् ।
अनिमन्त्र्य द्विजानेवमागतान्भो जयेद्यतीन्

3.15.13

पादशौचादिना गेहमागतान्पूजयेद्द्धिजान्

3.15.14

पवित्रपाणिराचान्तानासनेषूपवेशयेत् ।
पितॄणामयुजो युग्मान्देवाना मिच्छया द्विजान्

3.15.15

देवानामेकमेकं वा पितॄणां च नियोजयेत्

3.15.16

तथा मातामहश्राद्धं वैश्वदेवसमन्वितम् ।
कुर्वीत भक्तीसंपन्नस्तत्र वा वैश्वदैविकम्

3.15.17

प्राङ्मुखान्भोजयेद्विप्रान्देवानामुभयात्मकान् ।
पितॄन् पितामहानां च भोजयेच्चाप्युदङ्मुखान्

3.15.18

पृथक्तयोः केचिदाहुः श्राद्धस्य करणं नृप ।
एकत्रैकेन पाकेन वदन्त्यन्ये महर्षयः

3.15.19

विष्टरार्थं कुशं दत्त्वा संपूज्यार्घ्यं विधानतः ।
कुर्यादावाहनं प्राज्ञो देवानां तदनुज्ञया

3.15.20

यवांबुना च देवानां दद्यादर्घ्यं विधानवित् ।
स्रग्गन्धधूपदीपांश् च तेभ्यो दद्याद्यथाविधि

3.15.21

पितॄणामपसव्यं तत्सर्वमेवोपकल्पयेत् ।
अनुज्ञां च ततः प्राप्य दत्त्वा दर्भन्द्विधाकृतान्

3.15.22

मन्त्रपूर्वं पितॄणां तु कुर्याच्चावाहनं बुधः ।
तिलांबुना चापसव्य दद्यादर्घ्यादिकं नृप

3.15.23

काले तत्रातिथिं प्राप्तमन्नकामं नृपाध्वगम् ।
ब्रह्मणैर् अभ्यनुज्ञातः कामं तमपि भोजयेत्

3.15.24

योगिनो विविधै रूपैर् नरामामुपकारीणः ।
भ्रमन्ति पृथिवीमेतामविज्ञातस्वरूपिमः

3.15.25

तस्मादभ्यर्चयेत्प्राप्तं श्राद्धकाले ऽतिथिं बुधः ।
श्राद्धक्रियाफलं हॄन्ति नरेद्रापूजितो ऽतिथिः

3.15.26

जुहुयाद्व्यञ्जनक्षारवर्जमन्नं ततो ऽनले ।
अनुज्ञातो द्विजैस् तैस् तु त्रिकृत्वः पुरुषर्षभ

3.15.27

अग्नये कव्यवाहाय स्वधेत्यादौ नृपाहुतिः ।
सोमाय वै पितृमते दातव्या तदनन्तरम्

3.15.28

वैवस्वताय चैवान्या तृतीया दीयते ततः ।
हुतावशिष्टमल्पान्नं विप्रपात्रेषु निर्वेपेत्

3.15.29

ततोन्नं मृष्टमत्यर्थमभीष्टमतिसंस्कृतम् ।
दत्त्वा जुषध्वमिच्छातो वाच्यमेतदनिष्ठुरम्

3.15.30

भोक्तव्यं तैश् च तच्चित्तैर् मौनिभिः सुमुखैः सुखम् ।
अक्रुद्व्यता चात्वरता देयं तेनापि भक्तितः

3.15.31

रक्षोघ्रमन्त्रपठनं भूमेरास्तरणं तिलैः ।
कृत्वाध्येयाःस्वपितरस्त एव द्विजसत्तमाः

3.15.32

पिता पितामहश्चैव तथैव प्रपितामहः ।
मम तृप्तिं प्रयान्त्वद्य विप्रदेहेषु संस्थिताः

3.15.33

पिता पितामहश्चैव तथैव प्रपितामहः ।
मम तृप्तिं प्रयान्त्वद्य होमाप्यायितमूर्तयः

3.15.34

पिता पितामहश्चैव तथैव प्रपितामहः ।
तृप्तिं प्रयातु पिण्डेन मया दत्तेन भूतले

3.15.35

पिता पितामहश्चैव तथैव प्रपितामहः ।
तृप्तिं प्रयान्तु मे भक्त्या मयैतत्समुदाहृतम्

3.15.36

मातामहस् तृप्तिम् उपैतु तस्य तथा पिता तस्य पिता ततो ऽन्यः ।
विश्वे च देवाः परमां प्रयान्तु तृप्तिं प्रणश्यन्तु च यातुधानाः

3.15.37

यज्ञेश्वरो हव्यसमस्तकव्यो भोक्ताव्ययात्मा हरिरीश्वरो ऽत्र ।
तत्संनिधानादपयान्तु सद्यो रक्षांस्यशेषण्यसुराश् च सर्वे

3.15.38

तृप्तेष्वेतेषु विकिरेदन्नं विप्रेषु भूतले ।
दद्यादाचमनार्थाय तेभ्यो वारी सकृत्सकृत्

3.15.39

सुतृप्तैस् तैर् अनुज्ञातःसर्वेणान्नेन भूतले ।
सतिलोन ततः पिण्डान्सम्यग्दद्यात्समाहितः

3.15.40

पिरृतीर्थेन सलिलं तथैव सलिलाञ्जलिम् ।
मातामहेभ्यस्तेनैव पिण्डांस्तीर्थेन निर्वपेत्

3.15.41

दक्षिणाग्रेषु दर्भेषु पुष्पधूपादिपूजितम् ।
स्वपित्रे प्रथमं पिण्डं दद्यादुच्छिष्टसन्निधौ

3.15.42

पितामहाय चैवान्यं तत्पित्रे च तथापरम् ।
दर्भमूले लेपभुजः प्रीणयेल्लेपघर्षणैः

3.15.43

पिण्डैर् मातामहांस्तद्वद्गन्धमाल्यादिसंयुतैः ।
पूजायित्वा द्विजाग्र्याणां दद्याच्चाचमनं ततः

3.15.44

पितृभ्यः प्रथमं भक्त्यातन्मनस्कोनरेश्वर ।
सुस्वधेत्याशिषा युक्तां दद्याच्छक्त्या च दक्षिणाम्

3.15.45

दत्त्वा च दक्षिणां तेभ्यो वाचयेद् वैश्वदेविकान् ।
प्रीयन्तामिहये विश्वेदेवास्तेन इतीरयेत्

3.15.46

तथेति चोक्ते तैर् विप्रैः प्रार्थनीयास्तथासिषः ।
पश्चाद्विसर्जयेद्देवान्पूर्वं पै3त्र्यान्महीपते

3.15.47

मातामहानामप्येवं सह देवैः क्रमः स्मृतः ।
भोजयेच्च स्वशक्त्या च दाने तद्वद्विसर्जने

3.15.48

आपादशौचनात्पूर्वं कुर्याद्देवद्विजन्मसु ।
विसर्जनं तु प्रथमं पैत्रं मातामहेषु वै

3.15.49

विसर्जयेत्प्रीतिवचःसंमान्याभ्यर्थितास्ततः ।
निवर्तेताभ्यनुज्ञात आद्वारं ताननुव्रजेत्

3.15.50

ततस्तु वैश्वदेवाख्यं कुर्यान्नित्यक्रियं बुधः ।
भुञ्जीयाच्च समं पूज्य भृत्यबन्धुभिर् आत्मनः

3.15.51

एवं श्राद्धं बुधः कुर्यात्पैत्र्यं मातामहं तथा ।
श्राद्धैर् आप्यायिता दद्युःसर्वान्कामन्पितामहाः

3.15.52

त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ।
रजतस्य कथा दानं तथा संकीर्तनादिकम्

3.15.53

जर्ज्यानि कुर्वता श्राद्धं क्रोधोध्वगमनं त्वारा ।
भोक्तुरप्यत्र राजेन्द्र त्रयमेतन्न शस्यते

3.15.54

विश्वेदेवाःसपितरस् तथा मातामहा नृप ।
कुलं चाप्यायते पुंसां सर्वं श्राद्धं प्रकुर्वताम्

3.15.55

सोमाधारः पितृगणो योगाधारश् च चन्द्रमाः ।
श्राद्धे योगिनियोगस्तु तस्माद्भुपालशस्यते

3.15.56

सहस्रस्यापि विप्राणां योगी चेत्पुरतःस्थितः ।
सर्वान् भोक्तॄंस् तारयति यजमानं तथा नृप

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc