विष्णु पुराण · अध्याय 3.14
इति श्रिविष्णुमहापुराणे तृतीयांशे त्रयोदशोध्यायः (13)
और्व उवाच
ब्रह्मेन्द्ररुद्रनासत्यसूर्याग्निवसुमारुतान् ।
विश्वेदेवान्पितृगणान्वयांसि मनुजान्पशुन्
सरीसृपानृषिगणान्यच्चान्यद्भूत संज्ञितम् ।
श्राद्धं श्रद्धान्वितः कुर्वन्प्रीणयत्यखिलं जगत्
मासिमास्यसिते पक्षे पञ्चदश्यां नरेश्वर ।
दथाष्टकासु कुर्वीत काम्यान्कालाञ्छृणुष्व मे
श्राद्धार्हमागतं द्रव्यं विशिष्टमथ वा द्विजम् ।
श्राद्धं कुर्वीत विज्ञाय व्यतीपाते ऽयते तथा
विषुवे चापि संप्राप्ते ग्रहणे शशि सूर्ययोः ।
समस्तेष्वेव भूपाल राशिष्वर्के च गच्छति
नक्षत्रग्रहपीडासु दुष्टस्वप्नावलोकने ।
इच्छाश्राद्धानि कुर्वीत नवसस्यागमे तथा
अमावास्या यदा मैत्रविशाखास्वातियोगिनी ।
श्रीद्धैः पितृगणस्तृप्तिं तथाप्नोत्यष्टवार्षिकीम्
अमवास्या यदा पुष्ये रौद्रेथर्क्षे पुनर्वसौ ।
द्वादशाब्दं तदा तृप्तिं प्रयान्ति पिरतोर्चिताः
वासवाजैकपादर्क्षे पितणां तृप्तिमिच्छताम् ।
वारुणे वाप्यमावास्या देवानामपि दुर्लभा
नवस्वृक्षेष्वमावास्या यदैतेष्ववनीपते ।
तदा हि तृप्तिदं श्राद्धं पितॄणां शृणु चापरम्
गीतं सनत्कुमारेण यथैलान महात्मने ।
पृच्छते पितृभक्ताय प्रश्रयावनाताय च
सनत्कुमार उवाच
वैशाखमासस्य च या तृतीया नवम्यसौ कर्तिकशुक्लपक्षे ।
नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे
एता युगाद्याः कथिताः पुराणेष्वनन्तपुण्यास्तिथ यश्चतस्त्रः ।
उपप्लवे चन्द्रमसो रवेश् च त्रिष्वष्टकास्वप्ययनद्वये च
पानीयमप्यत्र तिलैर् विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ।
श्राद्धं कृते तेन समासहस्रं रहस्यमेतत्पितरो वदन्ति
माघे ऽसिति पञ्चदशी कदाचिदुपैति योगं यदि वारुणेन ।
ऋक्षेण कालःस परः पितॄणां न ह्यल्पपुण्यैर् नृप लभ्यतेसौ
काले धनिष्ठा यदि नाम तस्मिन्भवेत्तु भूपाल तदा पितृभ्यः ।
दत्तं जलान्नं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर् मनुष्यैः
तत्रैव चेद्भाद्रपदानुपूर्वाः काले यथावत्क्रियते पितृभ्यः ।
श्राद्धं परां तृप्तिमुपैति तेन युगं सहस्रं पितरःस्वपन्ति
गङ्गां शतद्रूं यमुनां विपाशां सरस्वतीं नैमिशगोमतीं वा ।
तत्रावगाह्यर्चनमादरेण कृत्वा पितॄणां दुरितानि हन्ति
गायन्ति चैतत्पितरः कदानु हर्षादमी तृप्तिमवाप्य भूयः ।
माघासितान्ते शुभतीर्थतोयैर् यास्याम तृप्तिं तनयादिदत्तैः
चित्तं च वित्तं च नृणां विशुद्धं शस्तं च कालः कथितो विधिश् च ।
पात्रं यथोक्तं परमा च भक्तिर्नृणां प्रयच्छन्त्यभिवाञ्छितानि
पितृगीतान्ततैवात्र श्लोकांस्तञ्छृणु पार्थिव ।
श्रुत्वा तथैव भवता भाव्यं तत्रादृतात्मना
अपि धन्यः कुले जायादस्माकं मतिमान्नरः ।
अकुर्वन्वित्तशाठ्यं यः पिण्डान्नो निर्वपिष्यति
रत्नं वस्त्रं महायानं सर्वभोगादिकंवसु ।
विभवे सति विप्रेभ्यो योस्मानुद्दिश्य दास्यति
अन्नेन वा यथाशक्त्या कालेस्मिन्भक्तिनम्रधीः ।
भोजयिष्यति विप्राग्र्यांस्तन्मात्रविभवो नरः
असमर्थोन्नदानस्य धान्यमामं स्वशक्तितः ।
प्रदास्यति द्विजाग्रेभ्यः स्वल्पाल्पां वापि दक्षिणाम्
तत्राप्यसामर्थ्ययुतः कराग्राग्रस्थितांस्तिलान् ।
प्रणम्य द्विजमुख्याय कस्मैचिद्भूप दास्यति
तिलैः सप्ताष्टभिर् वापि समवेतं जलाञ्जलिम् ।
भक्तिनम्रः समुद्दिश्य भुव्यस्माकं प्रदास्यति
यतः कुताश्चित्संप्राप्य गोभ्यो वापि गवाह्निकम् ।
अभावे प्रीणयन्नस्माञ्च्छ्रद्धायुक्तः प्रदास्यति
सर्वाभावे वनं गत्वा कक्षमूलप्रदर्शकः ।
सूर्यादिलोकपालानामिदमुच्चेर्वदिष्यति
न मे ऽस्ति वित्तं न धनं च नान्यच्छ्राद्धोपयोग्यं स्वपितॄन्नतोस्मि ।
तृप्यन्तु भक्तया पितरो मयैतौ कृतौ भुजौ वर्त्मनि मारुतस्य
और्व उवाच
इत्य् एतत् पितृभिर् गीतं भावाभावप्रयोजनम् ।
यः करोति कृतं तेन श्राद्धं भवति पार्थिव
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0