भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 3.13

3.13.1

इति श्रीविष्णुमहापुराणे तृतीयांशे द्वादशो ऽध्यायः (12)
और्व उवाच
सचैलस्य पितुः स्नानं जाते पुत्रे विधीयते ।
जातकर्म तदा कुर्याच्छ्राद्धमभ्युदये च यत्

3.13.2

युग्मान्देवांश् च वित्र्यांश् च सम्यक्सव्यक्रमाद्द्विजान् ।
पूजायेद्भोजयेच्चैव तन्मना नान्यमानसः

3.13.3

दध्यक्षतैः सबदरैः प्राङ्मुखोदङ्मुखो ऽपि वा ।
देवतीर्थेन वै पिण्डान्दद्यात्कायेन वा नृप

3.13.4

नान्दीमुखः पितृगणस् तेन श्राद्धेन पार्थिव ।
प्रीयते तत्तु कर्तव्यं पुरुषैः सर्ववृद्धिषु

3.13.5

कन्यापुत्रविवाहेषु प्रवेशेषु च वेश्मनः ।
नामकर्मणि बालानां चूडाकर्मादिके तथा

3.13.6

सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने ।
नान्दीमुखं पितृगणं पूजयेत्प्रयतो गृही

3.13.7

पितृपूजाक्रमः प्रोक्तो वृद्धावेष सनातनः ।
श्रूयतामवनीपाल प्रेत कर्म क्रियाविधिः

3.13.8

प्रेतदेहं शभैः स्नानैः स्नापितं स्रग्विभूषितम् ।
दग्ध्वा ग्रामाद्बहिः स्नात्वा सचैलःसलिलाशये

3.13.9

यत्र तत्र स्थितायैतदमुकायेति वादिनः ।
दक्षिणाभिमुखा दद्युर्बान्धवाःसलिलाञ्जलीन्

3.13.10

प्रविष्टाश् च समं गोभिर् ग्रामं नक्षत्रदर्शने ।
कटकर्म ततः कुर्याद् भूमौ प्रस्तरशायिनः

3.13.11

दातव्योनदिनं पिडः प्रेताय भुवि पार्थिव ।
दिवा च भक्तं भोक्तव्यममांसं मनुजर्षभ

3.13.12

दिनानि तानि चेच्छातः कर्तव्य विप्रभोजनम् ।
प्रेता यान्ति तथा तृप्तिं बन्धुवर्गेण भुञ्जता

3.13.13

प्रथमेह्नि तृतीये च सप्तमे नवमे तथा ।
वस्त्रत्यागबहिःस्नाने कृत्वा दद्यात् तिलोदकम्

3.13.14

चतुर्थेह्निच कर्तव्यं तस्यास्थिचयनं नृप ।
तदूर्ध्वमङ्गसंस्पर्शःसपिण्डानामपीष्यते

3.13.15

योग्याःसर्वक्रियाणां तु समनसलिलास् तथा ।
अनुलेपनपुष्पादिभोगाद् अन्यत्र पार्थिव

3.13.16

शय्यासनोपभोगश् च सपिण्डानामपीष्यते ।
भस्मास्थिचयनादूर्ध्वं संयोगो न तु योषिताम्

3.13.17

बाले देशान्तरस्थे च पतिते च मुनौ मृते ।
सद्यः शौचं तथेच्छातो जलाग्न्युद्बन्धनादिषु

3.13.18

मृतबन्धोर्दशाहानि कुलस्यान्नं न भुज्यते ।
दानं प्रतिग्रहो होमः स्वाध्यायश् च निवर्तते

3.13.19

विप्रस्यैतद्द्वादशाहं राजन्यस्याप्यशौचकम् ।
अर्धमासं तु वैश्यस्य मासं शूद्रस्य शुद्धये

3.13.20

अयुजो भोजयेत्कामं द्विजानन्ते ततो दिने ।
दद्याद्दर्भषु पिण्डं च प्रेतायोच्छिष्टसन्निधौ

3.13.21

वार्यायुधप्रतोदास्तु दण्डश् च द्विजभोजनात् ।
स्प्रष्टव्योनन्तरं वर्णैः शुद्धेरते ततः क्रमात्

3.13.22

ततःसर्वणधर्मा ये विप्रादिनासुदाहृताः ।
तान्कुर्वीत पुमाञ्जीवेन्निजधर्मार्जनैस् तथा

3.13.23

मृताहति च कर्तव्यमेकोद्दिष्टमतः परम् ।
आह्वानादिक्रिया दैवनियोगरहितेन यत्

3.13.24

एकोर्ध्यस्तत्र दातव्यस्तथैवैकपवित्रकम् ।
प्रेताय पिण्डो दातव्यो भुक्तवत्सु द्विजातिषु

3.13.25

प्रश्नश् च तत्राभिरतिर् यजमानद्विजन्मनाम् ।
अक्षय्यममुकस्येति वक्तव्यं विरतौ तथा

3.13.26

एकोद्दिष्टमयो धर्म इत्थमावत्सरात्स्मृतः ।
सपिण्डीकरणं तस्मिन्काले राजेन्द्र चत्छृणु

3.13.27

एकोद्दिष्टविधानेन कार्यं तदपि पार्थिव ।
संवत्सरेथ षष्ठे वा मासे वा द्वादशेह्नि तत्

3.13.28

तिलगन्धोदकैर् युक्तं तत्र पात्रचतुष्टयम्

3.13.29

पात्रं प्रेतस्य तत्रैकं पैत्रं पात्रत्रयं तथा ।
सेचयेत्पितृपात्रेषु प्रेतपात्रं ततस्त्रिषु

3.13.30

ततः पितृत्वमापन्ने तस्मिन्प्रेते महीपते ।
श्राद्धधर्मैर् अशषस्तु तत्पूर्वानर्चयेत्पितॄन्

3.13.31

पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसंततिः ।
सपिण्ड संततिर्वापि क्रियार्हे नृप जायते

3.13.32

तेषामभावे सवैषां समानोदकसततिः ।
मातृपक्षमपिण्डेन संबन्धा ये जलेन वा

3.13.33

कुलद्वयेपि चोच्छिन्ने स्त्रीभिः कार्याः क्रिया नृप ।
पितृमातृसपिण्डैस् तु समानसलिलैस् तथा

3.13.34

संघातान्तर्गतैर् वापि कार्याः प्रेतस्य च क्रियाः ।
उत्सन्नबन्धुरिक्थाद्वा कारयेदवनीपतिः

3.13.35

पूर्वाः क्रिया मध्यमाश् च तथा चैवोत्तराः क्रियाः ।
त्रिःप्रकाराः क्रियाःसर्वास्तासांभेदं शृणुष्व मे

3.13.36

आदाहाद्यादशाहाश् च स्पर्शाद्यन्तास्तु याः क्रियाः ।
ताः पूर्वा मध्यमा मासि मास्येकोद्दिष्टसंज्ञिताः

3.13.37

प्रेते पितृत्वमापन्ने सपिण्डिकरणादनु ।
क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्ते ता नृपोत्तराः

3.13.38

पितृमातृसपिण्डैस् तु समानासलिलैस् तथा ।
संघातान्तर्गतैर् वापि राज्ञा तद्धनहारिणा

3.13.39

पूर्वाः क्रियाश् च कर्तव्याः पुत्राद्यैर् एव चोत्तराः ।
दौहित्रैर् वा नृपश्रेष्ठ कार्यास्तत्तनयैस् तथा

3.13.40

मृताहनि च कर्तव्यास्त्रीणामप्युत्तराः क्रिया ।
प्रतिसंवत्सरं राजन्नेकोद्दिष्टविधानतः

3.13.41

तस्मादुत्तरसंज्ञायाः क्रियास्ताः शृणु पार्थिव ।
य थायथा च कर्तव्या विधिना येन चानघ

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc