विष्णु पुराण · अध्याय 3.12
इति श्रीविष्णुमहापुराणे तृतीयांश एकादशो ऽध्यायः (11)
और्व उवाच
देवगोब्राह्मणान्त्सिद्धान्वृद्धाचार्यं स्तथार्चयेत् ।
द्विकालं च नमेत्संध्यामग्नीनुपचरेत्तथा
सदानुपहते वस्त्रे प्रशस्ताश् च महोषधीः ।
गारुडानि च रत्नानि बिभृयात्प्रयतो नरः
प्रस्निग्धामलकेशश् च सुगन्धश्चारुवेषधृक् ।
सिताः सुमनसो हृद्या विभृयाच्च नरः सदा
किञ्चित्परस्वं न हरेन्नल्पमप्यप्रियं वदेत् ।
प्रियं च नानृतं ब्रूयान्नान्यदोषानुदीरयेत्
नान्यस्त्रियं तथा वैरं रोचयेत्पुरुषर्षभ ।
न दुष्टं यानमारोहेत्कूलच्छायां न संश्रयेत्
विद्विष्टपतितोन्मत्तबहुवैर् आदिकीटकैः ।
वर्धकीबन्धकीभर्तुः क्षुद्रानृतकथैः सह
तथातिव्ययशीलैश् च परिवादरतैः शठैः ।
बुधो मैत्रीं न कुर्वात नैकः पन्थानमाश्रयेत्
नावगाहेज्जलोघस्य वेगमग्रे नपेश्वर ।
प्रदीप्तंवेश्म न विशेन्नारोहेच्छिखरं तरोः
न कुर्याद्दन्तसंघर्षं कुष्णियाच्च न नासिकाम् ।
नासंवृतमुखो जृंभेच्छ्वासकासो विसर्जयेत्
नोच्चैर् हसेत् स शब्दं च न मुञ्चेत् पवनं बुधः ।
नखान्न खादयेच्छिन्द्यान्न तृमं न महीं लिखेत्
न श्मश्रु भक्षयेल्लोष्टं न मृद्रीयाद्विचक्षणः ।
ज्योतींष्यमेध्यशस्तानि नाभिवीक्षेत च प्रभो
नग्नां परस्त्रियं चैव सूर्यं चास्तमयोदये ।
न हुङ्कुर्याच्छवं गन्धं शवागन्धोहि सोमज
चतुष्पथं चैत्यतरुं श्मशानोपवनानि च ।
दुष्टस्त्रीसन्निकर्षं च वर्जयेन्नशि सर्वदा
पूज्यदेवद्विजज्योतिश्छायां नातिक्रमेद् बुधः ।
नैकः शून्याटवीं गच्छेत्तथा शून्यगृहे वसेत्
केशास्थिकण्टकामेध्यबलिभस्मतुषांस् तथा ।
स्नानार्द्रधरणीं चैव दूरतः परिवर्जयेत्
नानार्यानाश्रयेत्काश्चिन्न जिह्यं रोचयेद्बुधः ।
उपसर्पेन्न वै व्यालं चिरं तिष्ठेन्न वोत्थितः
अतीव जागरस्वप्ने तद्वत्स्थानासने बुधः ।
न सेवेत तथा शय्यां व्यायामं च नरेश्वर
दंष्ट्रिणः शृङ्गिणश्चैव प्राज्ञो दूरेण वर्जयेत् ।
अवश्यायं च राजेन्द्र पुरोवातातपौ तथा
न स्नायान्न स्वपेन्नग्नो न चैवोपस्पृशेद्बुधः ।
मुक्तकेशश् च नाचामेद्देवाद्यर्चां च वर्जयेत्
होमदेवार्चनाद्यासु क्रियास्वाचमने तथा ।
नैकवस्त्रः प्रवर्तेत द्विजपादावनेजने
नासमञ्जसशीलैस् तु सहासीत कथञ्चन ।
सद्बुत्तसन्निकर्षो हि क्षणार्धमपि शस्यते
विरोधं नोत्तमैर् गच्छेन्नाधमैश् च सदा बुधः ।
विवाहश् च विवादश् च तुल्यशीलैर् नृपेष्यते
नारभेत कलं प्राज्ञः शुष्कवैरं च वर्जयेत् ।
अप्यल्पहानिःसोढव्या वैरेणार्थागमन्त्यजेत्
स्नातो नाङ्गानि संमार्जेत्स्नानशाट्या न पाणिना ।
न च निर्धूतयेत्केशान्नाचामेच्चैव चोत्थितः
पादेन नाक्रमेत्पादं न पूज्याबिमुखं नयेत् ।
नोच्चासनं गुरोरग्रे भजेताविनयान्वितः
अपसव्यं न गच्छेच्च देवागारचतुष्पथान् ।
माङ्गल्यपूज्यांश् च तथा विपरीतान्न दक्षिणम्
सोमार्काग्न्यंबुवायूनां पूज्यानां च न संमुखम् ।
कुर्यान्निष्ठीवविण्मुत्रसमुत्सर्गं च पण्डितः
तिष्ठन्न मूत्रयेत्तद्वत्पथिष्वपि न मूत्रयेत् ।
श्लेष्मविण्मूत्ररक्तानि सर्वदैव न लङ्घयेत्
श्लेष्मशिङ्घाणिकोत्सर्गौ नान्नकाले प्रशस्यते ।
बलिमङ्गलजप्यादौ न होमे न महाजने
योपितो नावमन्येत न चासां विश्वसेद्बुधः ।
न चैवेर्ष्या भवेत्तासु न धिक्कुर्यात्कदाचन
मङ्गल्यपूर्वरत्नाज्यपूज्याननभिवाद्य च ।
न निष्क्रमेद्गृहात्प्राज्ञःसदाचारपरो नरः
चतुष्पथान्नमस्कुर्यात्काले होमपरो भवेत् ।
दीनानभ्युद्धरेत्साधूनुपासीत बहुश्रुतान्
देवर्षिपूजकःसम्यक्पितृपिण्डोजकप्रदः ।
सत्कर्ता चातिथीनां यः स लोकानुत्तमान्व्रजेत्
हितं मितं प्रियं काले वश्यात्मा योभिभाषते ।
स याति लोकानाह्लादहेतुभूतान् नृपाक्षयान्
धीमान्ह्रीपान्क्षमायुक्तो ह्यास्तिको विनयान्वितः ।
विद्याभिजनवृद्धानां याति लोकाननुत्तमान्
अकालगार्जितादौ च पर्वस्वाशौचकादिषु ।
अनध्यायं बुधः कुर्यादुपरागादिके तथा
समं नयति यः क्रुद्वान्सर्वबन्धुरमत्सरी ।
भीताश्वासनकृत्साधुःस्वर्गस्तस्याल्पकं फलम्
वर्षातपादिषु च्छत्री दण्डी रात्र्यटवीषु च ।
शरीरत्राणकामो वै सोपानत्कःसदा व्रजेत्
नोर्ध्वं न तिर्यग्दूरं वा न पश्यन्पर्यटेद्बुधः ।
युगमात्रं महीष्टष्ठं नरो गच्छेद्विलोकयन्
दोषहेतूनशेषांश् च वश्यात्मा यो निरस्यति ।
तस्य धर्मार्थकामानां हानिर्नाल्पापि जायते
सदाचाररतः प्राज्ञो विद्याविनयशिक्षितः ।
पापेप्यपापः परुषे ह्यभिधत्ते प्रियाणि यः ।
मैत्रीद्रवान्तः करणस्तस्य मुक्तिः करे स्थिता
ये कामक्रोधलोभानां वीतरागा न गोचरे ।
सदाचारस्थितास्तेषामनुभावैर् धृता मही
तस्मात्सत्यं वदेत्प्राज्ञो यत्परप्रीतिकारणम् ।
सत्यं यत्परदुःखाय तदा मौनपरो भवेत्
प्रियमुक्तं हितं नैतदिति मत्वा न तद्वदेत् ।
श्रेयस्तत्र हितं वाच्यं यद्यप्यत्यन्तमप्रियम्
प्राणीनामुपकाराय यथैवेह परत्र च ।
कर्मणा मनसा वाचा तदेव मतीमान्वदेत्
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0