विष्णु पुराण · अध्याय 3.11
इति श्रीविष्णुमहापुराणे तृतीयांशे दशमो ऽध्यायः (10)
सगर उवाच
गृहस्थस्य सदाचारं श्रोतुमिच्छाम्यहं मुने ।
लोकादस्मात्परस्माच्च यमातिष्ठन्न हीयते
और्व उवाच
श्रूयतां पृथिवीपाल सदाचारस्य लक्षणम् ।
सदाचारवता पुंसा जितौ लोकावुभावपि
साधवः क्षीणदेषास्तु सच्चब्दः साधुवाचकः ।
तेषामाचरणं यस्तु सदाचारःस उच्यते
सप्तर्षयोथ मनवः प्रजानां पतयस् तथा ।
सदाचारस्य वक्तारः कर्तारश् च महीपते
ब्राह्मो मुहूर्ते चोत्थाय मनसा मतिमात्रृप ।
प्रबुद्धश्चिन्तयेद्धर्ममर्थं चाप्यविरोधिनम्
अपीडया तयोः काममुभयोरपि चिन्तयेत् ।
दृष्टादृष्टविनाशाय त्रिवर्गे समदर्शिना
परित्यजेदर्थकामौ धर्मपीडाकरौ नृप ।
धर्ममप्यसुखोदर्कं लोकविद्वेष्टमेव च
ततः काल्यं समुत्थाय कुर्यान्मूत्रं नरेश्वर
नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः ।
द्वरादावसथान्मूत्र पुरीषं च विसर्जयेत्
पादावनेजनोच्छिष्टे प्रक्षिपेन्न गृहाङ्गणे
आत्मच्छायां तरुच्छायां गोसूर्याग्न्यनिलांस् तथा ।
गुरुद्विजादींस्तु बुधो नाधिमेहेत्कदाचन
न कृष्टे सस्यमध्ये वा गौव्रजे जनसंसदि ।
न वर्त्मनि न नद्यादितीर्थेषु पुरुषर्षभ
नाप्सु नैवांभसस्तीरे श्मशाने न समाचरेत् ।
उत्सर्गं वै पुरीषस्य मूत्रस्य च विसर्जनम्
उदङ्मुखो दिवामूत्रं विपरीतमुखो निशि ।
कुर्वितानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव
तृणैर् आस्तीर्य वसुधां वस्त्रप्रावृतमस्तकः ।
तिष्ठेन्नातिचिरं तत्र नैव किञ्चिदुदीरयेत्
वल्मीकमूषिकोद्भूतां मृदं नान्तर्जलां तथा ।
शौचावशिष्टां गेहाच्चनादद्याल्लेपसंभवाम्
अणुप्राण्युपपन्नां च हलोत्खातां च पार्थिव ।
परित्यजेन्मृदो ह्येताःसकलाः शौचकर्मणि
एका लिङ्गे गुदे तिस्त्रो दस वामकरे नृप ।
हस्तद्वये च स्पत स्युर्मृदः शौचोपपादिकाः
अच्छेनागन्धलेपेन जलेनाबुद्बुदेन च ।
आचामेच्चमृदंभूयस् तथा दद्यात्समाहितः
निष्पादिताङ्घ्रिशौचस्तु पादावभ्युक्ष्य तैः पुनः ।
त्रिः पिबेत्सलिलं तेन तथा द्विः परिमार्जयेत्
शिर्षण्यानि ततः खानि मूर्धानं च समालभेत् ।
बाहू नाभिं च तोयेन हृदयं चापि संस्पृशेत्
स्वाचान्तस्तु ततः कुर्यात्पुमान्केशप्रसाधनम् ।
आदर्शाञ्जनमाङ्गल्यं दूर्वाद्यालंभनानि च
ततःस्ववर्णधर्मेण वृत्त्यर्थं च धनार्जनम् ।
कुर्वीत श्रद्धासंपन्नो यजेच्च पृथिवीपते
सोमसंस्था हविःसंस्थाः पाकसंस्थास्तु संस्थिताः ।
धने यतो मनुष्याणां यतेतातो धनार्जने
नदीनदतटाकेषु देवखातजलेषु च ।
नित्यक्रियार्थं स्नायीत गीरिप्रस्त्रवणेषु च
कूपेषूद्धृततोयेन स्नानं कुर्वीत वा भुवि ।
गृहेषूद्धृततोयेन ह्यथवा भुव्यसंभवे
शुचिवस्त्रधरः स्नातो देवर्षिपितृतर्पणम् ।
तेषामेव हि तीर्थेनकुर्वीत सुसमाहितः
त्रिरपः प्रीणनार्थाय देवानामपवर्जयेत् ।
ऋषीणां च यथान्यायं सकृच्चापि प्रजापतेः
पितॄणां प्रीणनार्थाय तदपः पृतिवीपते ।
पितामहेभ्यश् च तथा प्रीमयेत्प्रपितामहान्
मातामहाय तत्पित्रे तत्पित्रे च समाहितः ।
दद्यात्पैत्रेणतीर्थेन काम्यं चान्यच्छृणुष्व मे
मात्रे स्वमात्रे तन्मात्रे गुरुपत्न्यै तथा नृप ।
गुरूणां मातुलानां च स्निग्धमित्राय भूभूजे
इदं चापि जपेदंबु दद्यादात्मेच्छयानृप ।
उपकाराय भूतानां कृतदेवादितर्पणम्
देवासुरास् तथा यक्षा नागगन्धर्वराक्षसाः ।
पिशाचा गुह्यकाःसिद्धाः कूष्माडाः पशवः खगाः
जलेचरा भूलेचरा भूनिलया वाय्वाहाराश् च जतवः ।
तृप्तिमेतेन यान्त्याशु मद्दत्तेनांबुनाखिलाः
नरकेषु समस्तेषु यातनासु च संस्थिताः ।
तेषामाप्यायनायौतद्दीयते सलिलं मया
ये बान्धवाबान्धवा ये येन्यजन्मनि बान्धवाः ।
ते तृप्तिमखिला यान्तु ये चास्मत्तोभिवाञ्छति
यत्र क्वचनसंस्थानां क्षुत्तृष्णोपहतात्मनाम् ।
इदमाप्यायनायास्तु मया दत्तं तिलोदकम्
काम्योदकप्रदानं ते मयैतत्कथितं नृप ।
यद्दत्त्वा प्रीणयत्येतन्मनुष्यःसकलं जगत् ।
जगदाप्यायनोद्भूतं पुण्यमाप्नोति चानध
दत्त्वा काम्योदकं सम्यगेतेभ्यः श्राद्धयान्वितः ।
आचम्य च ततो दद्यात्सूर्याय सलिलाञ्जलिम्
नमो विवस्वते ब्रह्मभास्वते विष्णुतेजसे ।
जगत्सवित्रे शुचये सवित्रे कर्मसाक्षिणे
ततो गृहार्ऽचनं कुर्यादभीष्टसुरपूजनम् ।
जलाभिषेकैः पुष्पैश् च धूपाद्यैश् च निवेदनम्
अपूर्वमाग्निहोन्त्र च कुर्यात्प्राग्ब्रह्मणे नृप
प्रजापतिं समुद्दिश्य दद्यादाहुतिमादरात् ।
गृहेभ्यः काश्य पायाथ ततोनुमतये क्रमात्
तच्छेषं मणिके पृथ्वीर्पजन्येभ्यः क्षिपेत्ततः ।
द्वारे धातुर्विधातुश् च मध्ये च ब्रह्मणे क्षिपेत्
गृहस्य पुरषब्याघ्र दिग्देवानपि मे शृणु
इन्द्राय धर्मराजाय वरुणाय तथेन्दवे ।
प्राच्यादिषु बुधो दद्याद्धुतशेषात्मकं बलिम्
प्रागुत्तरे च दिग्भागे धन्वन्तारिबलिं बुधः ।
निर्वपैद्वैश्वदेवं च कर्म कुर्यादतः परम्
वायव्यां वायवे दिक्षु समस्तासु यथादिशम् ।
ब्रह्मणे चान्तारीक्षाय भानवे च क्षिपेद्बलिम्
विश्वेदवान्विश्वभूतानष्टौ विश्वपतीन्पितॄन् ।
यक्षाणां च समुद्दिश्य बलिं दद्यान्नरेश्वर
ततोन्यदन्नमादाय भूमि भागे शुचौ बुधः ।
दद्यादशेषभूतेभ्यः स्वेच्चया सुसमाहितः
देवा मनुष्याः पशवो वयांसि सिद्धाःसयक्षोरगदैत्यसंघाः ।
प्रतोः पिशाचास्तरवःस मस्ता ये चान्नमिच्छन्ति मयात्र दत्तम्
पिपीलिकाः कीटपतङ्गकाद्या बुभुक्षिताः कर्मनिबन्धबद्धाः ।
प्रयान्ति ते तृप्तिमिदं मयान्नन्तेभ्यो विसृष्टं सुखिनो भवन्तु
येषां न माता न पिता न बन्धुर्नैवान्नसिद्धिर्न नथान्नमस्ति ।
तत्तृप्ये ऽन्नं भुवि दत्तमेव ते यान्तु तृप्तिं मुदिता भवन्तु
भूतानि सर्वाणि तथान्नमेतदहं च विष्णुर्न यतोन्यदस्ति ।
तस्मादहं भूतनिकायभूतमन्नं प्रयच्छामि भवाय तेषाम्
चतुर्दशो भूतगणो य एष तत्र स्थिता ये ऽखिलभूतसंघाः ।
तृप्त्यर्थमन्नं हि मया निसृष्टं तेषामिदं ते मुदिता भवन्तु
इत्युच्चार्य नरो दद्यादन्नं श्रद्धासमन्वितः ।
भुवि सर्वोपकाराय गृही सर्वाश्रयो यतः
श्वचण्डालविहङ्गानां भुवि दद्यान्नरेश्वर ।
ये चान्ये पतिताः केचिदपुत्राः संतिमानवाः
ततो गोदोहमात्रं वै कालं तिष्ठेद्गृहाङ्गणे ।
अतिथिग्रहणार्थाय तदूर्ध्वं तु तथैच्छाया
अतिथिं तत्र संप्राप्तं पूजयेत्स्वागदादिना ।
तथासनप्रदानेन पादप्रक्षालनेन च
श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च ।
गच्छतश्चानुयानेन प्रीतिमुत्पादयेद्गृही
अज्ञातकुलनामानमन्यदेशादुपागतम् ।
पूजयेदतिथिं सम्यङ्नैकग्रामनिवासिनम्
अकिञ्चनमसंबन्धमज्ञातकुलशीलिनम् ।
असंपूज्यातिथिं भुक्त्वा भोक्तुकामं व्रजत्यधः
स्वाध्यायगोत्राचरणमपृष्ट्वा च तथा कुलम् ।
हिरण्यगर्भबुद्ध्या तं मन्येताभ्यागतं गृही
पित्रर्थं चापरं विप्रमेकमप्याशयेन्नृप ।
तद्देश्यं विदिताचारसंभूतिं पाञ्चयज्ञिकम्
अन्नाग्रञ्च समुद्धृत्य हन्तकारोपकल्पितम् ।
निर्वापभूतं भूपाल श्रोत्रियायोपपादयेत्
दद्याच्च भिक्षात्रितयं परिव्राड्ब्रह्मचारीणाम् ।
इच्छया च बुधो दद्याद्विभवे सत्यवारितम्
इत्येतेतिथयः प्रोक्ता प्रागुक्ता भिक्षवश् च ये ।
चतुरः पूजायित्वैतान्नृप पापात्प्रमुच्यते
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति
धाता प्रजापतिः शक्रो वह्निर्वसुगणोर्ऽयया ।
प्रविश्यातिथिमेते वै भुञ्जन्तेन्नं नरेश्वर
तस्मादतिथिपूजायां यतेत सततंनरः ।
स केवलमघं भुङ्क्ते यो भुङ्क्ते ह्यतिथिं विना
ततः स्ववासिनीं दुःखीं गुर्विणीं वृद्धबालकान् ।
भोजयेत्संस्कृतान्नेन प्रथमं चरमं गृही
अभुक्तवत्सु चैतेषु भुञ्जन्भुङ्क्ते स दुष्कृतम् ।
मृतश् च गत्वा नरकं श्लोष्मभुग्जायते नरः
अस्त्राताशी मलं भुक्ते ह्यजपी पूयशोणितम् ।
असंस्कृतान्नभुङ्मूत्रं बालादिप्रथमं शकृत्
अहोमी च कृमीन्भुङ्क्ते अदत्त्वा विषमाश्नुते
तस्माच्छृणुष्व राजन्द्र यथा भुञ्जीत वै गृही ।
भुञ्जतश् च यथा पुंसः पापबन्धो न जायते
इह चारोग्यविपुलं बलबुद्धिस् तथा नृप ।
भवत्यरिष्टशान्तिश् च वैरिपक्षाभिचारिणः
स्नातो तथावत्कृत्वा च देवर्षिपितृतर्पणम् ।
प्रशस्तरत्नपाणिस्तु भुञ्जीत प्रयतो गृही
कृते जपे हुते वह्नौ शुद्धवस्त्रधरो नृप ।
दत्त्वातिथिभ्यो विप्रेभ्यो गुरुभ्यः संश्रिताय च ।
पुम्यगन्धश्सस्तमाल्यधारी चैव नरेश्वर
नैकवस्त्रधरो नार्द्रपाणिपादो महीपते ।
वुशुद्धवदनः प्रीतो भुञ्जीत न विदिङ्मुखः
प्राङ्मुखोदङ्मुखो वापि न चैवान्यमना नरः ।
अन्नं प्रशस्तं पथ्यं च प्रोक्षितं प्रोक्षणोदकैः
न कुत्सिताहृ-तं नैव जुगुप्सापदसंस्कृतम् ।
दत्त्वा तु भक्तं शिष्येभ्यः क्षुधितेभ्यस् तथा गृही
प्रशस्तशुद्धपात्रे तु भुञ्जीताकुपितो द्विजः
नासंदिसंस्थिते पात्रे नादेशे च नरेश्वर ।
नाकाले नातिसंकीर्णे दत्त्वाग्रं च नरोग्नये
मन्त्राभिमन्त्रितं शस्तं न च पर्युषितं नृप ।
अन्यत्र फलमूलेभ्यः शुष्कशाखादिकात्तथा
तद्वद्धारीतकेभ्यश् च गुडभक्ष्येभ्य एव च ।
भुञ्जीतोद्धृतसाराणि न कदापि नरेश्वर
न शेषं पुरुषोश्नीय्यादन्यत्र जगतीपते ।
मध्वंबुदधिसर्पिभ्यः सक्तुभ्यश् च विवेकवान्
अश्नीयात्तन्मयो भूत्वा पुर्वं तु मधुरं रसम् ।
लबणाम्लो तथा मध्ये कटुतिक्तादिकांस्ततः
प्राग्द्रवं पुरुषोश्नीयान्मध्ये कठिनभोजनः ।
अन्ते पुनर्द्रवाशी तु बलारोग्ये न मुञ्चति
अनिन्द्यं भक्षयेदित्थं वाग्यतोन्नमकुत्सयन् ।
पञ्चग्रासं महामौनं प्राणाद्याप्यायनं हि तत्
भुक्त्वा सम्यगथाचम्य प्राङ्मुखोदङ्मुखो ऽपि वा ।
यथावत्पुनराचामेत्पाणी प्रक्षाल्य मूलतः
स्वस्थः प्रशान्तचित्तस्तु कृतासनपरिग्रहः ।
अभीष्टदेवतानां तु कुर्वीत स्मरणं नरः
अग्निराप्याययेद्धातुं पार्थिवं पवनेरितः ।
दत्तावकाशंनभसा जरयत्यस्तु मे सुखम्
अन्नं बलाय मे भूमेरपामग्न्यनिलस्य च ।
भवत्येतत्परीणतं ममास्त्यव्याहतं सुखम्
प्रामापानसमानानामुदानव्यानयोस् तथा ।
अन्नं पुष्टिकरं चास्तु ममाप्यव्याहतं सुखम्
अगस्तिरग्निर्वडवानलश् च भुक्तं मयान्नं जरयत्वशेषम् ।
सुखं च मे त्परिणामसंभवं यच्छन्त्वरोगं मम चास्तु देहे
विष्णुःसमस्तेन्द्रियदेहदेही वृथा न भूतो भगवान्यथैकः ।
सत्येन तेनात्तमशेषमन्नमारोग्यतां मे परिणाममेतु
विष्णुरत्ता तथैवान्नं परिमामश् च वै तथा ।
सत्येन तेन मद्भुक्तं जीर्यत्यन्नमिदं तथा
इत्युच्चार्य स्वहस्तेन परिमृज्य तथोदरम् ।
अनायासप3दायीनि कुर्यात्कर्मण्यतन्द्रितः
सच्छास्त्रादिविनोदेन सन्मार्गादविरोधिना ।
दिनं नयेत्ततःसंध्यामुपतिष्ठेत्समाहितः
दिनान्तसंध्यां सूर्येण पूर्वामृक्षैर् युतां बुधः ।
उपतिष्ठेध्यथान्याय्यं सम्यगाचम्य पार्थिव
सर्येणाभ्युदितो यश् च त्यक्तः सूर्येण वा स्वपन् ।
अन्यत्रातुरभावात्तु प्रायश्चित्ती भवेन्नरः
तस्मादनुदिते सूर्ये समुत्थाय महीपते ।
उपतिष्ठेन्नरःसंध्यामस्वपंश् च दिनान्तजाम्
उपतिष्ठन्ति वै संध्यां ये न पूर्वं न पश्चिमाम् ।
व्रजन्ति ते दुरात्मानस्तमिस्त्रं नरकं नृप
पुनः पाकमुपादाय सायमप्यवनीपते ।
वैश्वदेवनिमित्तं वै पत्न्या सार्धं बलिं हरेत्
तत्रापि श्वपचादिब्यस्तथैवान्नविसर्जनम्
अतिथिं चागतं तत्र स्वशक्त्या पूजयेद्बुधः ।
पादशौचासनप्रह्वस्वागतोक्त्या च पूजनम् ।
ततश्चान्नप्रदानेन शयनेन च पर्थिव
दिवातिथौ तु विमुखे गते यत्पातकं नृप ।
तदेवाष्टगुणंपुंसःसूर्योढे विमुखे गते
तस्मात्स्वशक्त्या राजेन्द्र सूर्योढमतिथिं नरः ।
पूजयेत्पूजिते तस्मिन्पूजिताःसर्वदेवता
अन्नशाकांबुदानेन स्वशक्त्या पूजयेत्पुमान् ।
शयनप्रस्तरमहीप्रदानैर् अथवापि तम्
सृतपादादिशौचस्तु भुक्त्वा सायं ततो गुही ।
गच्छेच्छय्यामंस्फुटितामपि दारुमयीं नृप
नाविशालं न वै भुग्नां नासमां मलिनां न च ।
नच जन्तुमयींशय्यामधितिष्ठेदनास्तृताम्
प्राच्यां दिशि शिरः शस्तं याम्यायामथ वा नृप ।
सदैव स्वपतः पुंसो विपरीतं तु रोगदम्
ऋतावुपगमः शस्तःस्वपत्न्यामवनीपते ।
पुन्नामर्क्षे शुभे काले ज्येष्ठायुग्मासु रात्रिषु
नाद्युनां तु स्त्रियं गच्छेन्नातुरां न रजस्वलाम् ।
नानिष्टां न प्रकुपितां न त्रस्तां न च गार्भिणीम्
नादक्षिणां नान्यकामां नाकामां नान्ययोषितम् ।
क्षुत्क्षामां नातिभुक्तां वा स्वयं चैभिर् गुर्णैर् युतः
स्नातःस्रग्गन्धधृक्प्रीतो नाध्मातः क्षुधितोपि वा ।
सकामःसानुरागश् च व्यवायं पुरुषो व्रजेत्
चतुर्दश्यष्टमी चैव तथा माचाथ पूर्णिमा ।
पर्वाण्येतानि राजन्द्र रवीसंक्रान्तिरेव च
तैलस्त्रीमाससंभोगी सर्वैंष्वेतेषु वै पुमान् ।
विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः
अशेषपर्वस्वेतेषु तस्मात्संयमिभिर् बुधैः ।
भाव्यं सच्छास्त्रदेवेज्याध्यानजप्यपरैर् नरैः
नान्ययोनाव् अयोनौ वा नोपयुक्तौषधस् तथा ।
द्विजदेवगुरूणां च व्यवायी नाश्रमे भवेत्
चैत्यचत्वरतीरेषु नैव गोष्ठे चतुष्पथे ।
नैव श्मशानोपवने सलिलेषु महीपते
प्रोक्तपर्वस्वशेषेषु नैव भूपाल संध्ययोः ।
गच्छेव्द्यवायं मनसा न मूत्रोच्चारपीडितः
पर्वस्वभिगमोनिन्द्यो दिवा पापप्रदो नृप ।
भुवि रोगावहो नॄणामप्रशस्तो जलाशये
परदारान्न गच्छेत मनसापि पथञ्चन ।
किमु वाचास्थिबन्धोपि नास्ति तेषु व्यवायिनाम्
मृतो नरकमभ्येति हीयते त्रापि चायुषः ।
परदाररतिः पुंसामिह चामुत्र भीतिदा
इति मत्वा स्वदारेषु ऋतुमत्सु बुधो व्रजेत् ।
यथोक्तदोषहीनेषु सकामेष्वनृतावपि
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0