भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 3.10

3.10.1

इतिश्रीविष्णुमहापुराणे तृतीयांशे नवमो ऽध्यायः (9)
सगर उवाच
कथितं चातुराश्रम्यं चातुर्वर्ण्यक्रियास् तथा ।
पुंसः क्रियामहं श्रोतुमिच्छामि द्विजसत्तम

3.10.2

नित्यनैमित्तिकाः काम्याः क्रियाः पुंसामशेषतः ।
समाख्याहि भृगुश्रेष्ठ सर्वज्ञो ह्यसि मे मतः

3.10.3

और्व उवाच
यदेतदुक्तं भवता नित्यनैमित्तिकाश्रयम् ।
तदहं कथयिष्यांमि शृणुष्वैकमना मम

3.10.4

जातस्य जातकर्मादिक्रियाकाण्डमशेषतः ।
पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम्

3.10.5

युग्मांस्तु प्राड्मुखान्विप्रान्भोजयेन्मनुभेश्वर ।
यथा तृप्तिस् तथा कुर्याद्दैवं पित्र्यं द्विजन्मनाम्

3.10.6

दध्ना युक्तैः सबदरैर् मिश्रान् पिडान् मुदा युतः ।
नान्दीमुखेभ्यस्तीर्थेन दद्याद्दैवेन पार्थिव

3.10.7

प्राजापत्येन वा सर्वमुपचारं प्रदक्षिणम् ।
कुर्वीत तत्तथाशेषवृद्धिकालेषु भूपते

3.10.8

ततश् च नाम कुर्वीत पितैव दशमेहनि ।
देवपूर्वं नराख्यं हि शर्मवर्मादिसंयुतम्

3.10.9

शर्मेति ब्राह्यणस्योक्तं वर्मेति क्षत्रसंश्रयम् ।
गुप्तदासात्मकं नाम प्रशस्तं वैश्यशुद्रयोः

3.10.10

नार्थहीनं न चाशस्तं नापशब्दयुतं तथा ।
नामङ्गल्यं जुगुप्साकं नाम कुर्यात्समाक्षरम्

3.10.11

नातिदीर्घंनातिह्रस्वं नातिगुर्वक्षरान्वितम् ।
सुखोच्चार्यं तु तन्नाम कुर्याद्यत्प्रणवाक्षरम्

3.10.12

ततो ऽनन्तरसंस्कारसंस्कृतो गुरुवेश्मनि ।
यथोक्तविधिमाश्रित्य कुर्याद्विद्यापरिग्रहम्

3.10.13

गृहीतविद्यो गुरवे दत्त्वा च गुरुदक्षिणाम् ।
गार्हस्थ्यमिच्छन्भूपाल कुर्याद्दारपरिग्रहम्

3.10.14

ब्रह्मचर्येण वा कालं कुर्यात्संकल्पपूर्वकम् ।
गुगोः शुश्रुषणं कुर्यात्तत्पुत्रादेरथापि वा

3.10.15

वैखानसो वापि भवेत्परिव्राडथ वेच्छया ।
पूर्वसंकल्पितं यादृक् तादृक्कुर्यान्नराधिप

3.10.16

वर्षैर् एकगुणां भार्यामुद्वहेत्त्रिगुमःस्वयम् ।
नाति केशामकेशां वा नातिकृष्णां न पिङ्गलाम्

3.10.17

निसर्गतोधिकाङ्गां वा न्यूनाङ्गामपि नोद्वहेत् ।
नाविशुद्धां सरोमां वाकुलजां वापि रोगिणीम्

3.10.18

न दुष्टां दुष्टवाक्यां वा व्यङ्गिनीं पुतृमातृतः ।
न श्मश्रुव्यञ्जनवतीं न चैव पुरुषाकृतिम्

3.10.19

न घर्वरस्वरां क्षामां तथा काकस्वरां न च ।
नानिबन्धेक्षणां तद्वद्वृत्ताक्षीं नोद्वहेद्बुधः

3.10.20

यस्याश् च रोमशे जङ्घे गुल्फौ यस्यास्तथोन्नतौ ।
गण्डयोः कूपरौ यस्या हसंत्यास्तां न चोद्वहेत्

3.10.21

नातिरूक्षच्छविं पाडुकरजामरुणेक्षणाम् ।
आपीन हस्तपादां च नकन्यामुद्वहेद्बुधः

3.10.22

न वामनां नातिदीर्घां नोद्वहेत्संहतभ्रुवम् ।
न चाति च्छिद्रदशनां न करालमुखीं नरः

3.10.23

पञ्चमीं मातृपक्षाच्च पितृपक्षाच्च सप्तमीम् ।
गृहस्थश्चोद्वहेत्कन्यां न्यायेन विधिना नृप

3.10.24

ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ।
गान्धर्वराक्षयौ चान्यौ पैशाचश् चाष्टमो मतः

3.10.25

एतेषां यस्य यो धर्मो वर्मस्योक्तो महर्षिभिः ।
कुर्वीत दारग्रहणं तेनान्यं परिवर्जयेत्

3.10.26

सधर्मचारिणीं प्राप्य गार्हस्थ्यं सहितस्तया ।
समुद्वहेद्ददात्येतत्सम्यगूढं महाफलम्

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc