विष्णु पुराण · अध्याय 3.9
इति श्रिविष्णुमहापुराणे तृतीयांशे ऽष्टमोध्यायः (7)
और्व उवाच
बालः कृतोपनयनो वेदाहरणतत्परः ।
गुरुगेहे वसेद्भूप ब्रह्मचारी समाहितः
शौचा चारव्रतं तत्र कार्यं शुश्रूषणं गुरोः ।
व्रतानि चरता ग्राह्यो वेदश् च कृतबुद्धिना
उभे संध्ये रविं भूप तथैवाग्निं समाहितः ।
उपतिष्ठेत्तदा कुर्याद्गुरोरप्यभिवादनम्
स्थिते तिष्ठेद्वाजेद्याते नीचैर् आसीत चासति ।
शिष्यो गुरोर्नृपश्रेष्ठ प्रतिकूलं न संचरेत्
तेनै वोक्तं पठेद्वेदं नान्यचित्तः पुरःस्थितः ।
अनुज्ञातश् च भिक्षान्नमश्नीयाद्गुरुणा ततः
अवगाहेदपः पूर्वमाचार्येणावगाहितः ।
समिज्जलादिकं चास्य काल्यं काल्यमुपानयेत्
गृहीतग्राह्यवेदश् च ततो ऽनुज्ञाम् अवाप्य च ।
गार्हस्थ्यमाविशेत् प्राज्ञो निष्पन्नगुरुणिष्कृतिः
विधिनावाप्तदारस्तु धनं प्राप्य स्वकर्मणा ।
गृहस्थकार्यमखिलं कुर्याद्भूपाल शक्तितः
निवापेन पितॄनर्चन् यज्ञैर् देवांस्तथातिथीन् ।
अन्नैर् मुनींश् च स्वाध्यायैर् अपत्येन प्रजापतिम्
भूतानि बलिभिश्चैव वात्सल्येनाखिलं जगत् ।
प्राप्नोति लोकान्पुरुषो निजकर्मसमार्जितान्
बिक्षाभुजश् च ये केचित्परिव्रड्ब्रह्मचारिणः ।
तेप्यत्रैव प्रतिष्ठन्ते गार्हस्थ्यं तेन वै परम्
वेदाहरणकार्याय तीर्थस्नानाय च प्रभो ।
अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च
अनिकेता ह्यनाहारा यत्र सायङ्गृहाश् च ये ।
तेषां गृहस्थः सर्वेषां प्रतिष्ठा योनिरेव च
तेषां स्वागतदानादिवक्तव्यं मधुरं नृप ।
गृहागतानां दद्याच्च शयनासनभोजनम्
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति
अवज्ञानमहङ्कारो दंभश्चैव गृह सतः ।
परितापोपघातौ च पारुष्यं च न शस्यते
यस्तु सम्यक्करोत्येवं गृहस्थः परमं विधिम् ।
सर्वबन्धविनिर्मुक्तो लोकानाप्नोत्यनुत्तमान्
वयःपरीणतो राजन्कृतकृत्यो गृहाश्रमी ।
पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा
पर्णमूलफलाहारः केशश्मश्रुजटाधरः ।
भूमिशायी भवेत्तत्र मुनिःसर्वातिथिर्नृप
चर्मकाशकुशैः कुर्यात्परिधानोत्तरीयके ।
तद्वत्त्रिषवणं स्नानं शस्तमस्य नरेश्वरः
देवताभ्यर्चनं होमःसर्वाभ्यागतपूजनम् ।
भिक्षाबलिप्रदानं च शस्तमस्य नरेश्वर
वन्यस्त्रेहेन गात्राणामभ्यङ्गश्चास्य शस्यते ।
तपश् च तस्य राजेन्द्र शीतोष्णादिसहिष्णुता
यस्त्वेतां नियतश्चर्यां वानप्रस्थश्चरेन्मुनिः ।
स दहत्यग्निवद्दोषाञ्जयेल्लोकांश् च शाश्वतान्
चतुर्थश्चाश्रमो भिक्षोः प्रोज्यते यो मनीषिभिः ।
तस्य स्वरूपं गदतो मम श्रोतुं नृपार्हसि
पुत्रद्रव्यकलत्रेषु त्यक्तस्त्रेहो नराधिप ।
चतुर्थमाश्रमस्थानं गच्छेन्निर्धूतमत्सरः
त्रैवर्गिकांस्त्यजेत्सर्वानारंभानवनीपते ।
मित्रादिषु समो मैत्रःसमस्तेष्वेव जन्तुषु
जरायुजाण्डजादीनां वाड्मनःकायकर्मभिः ।
युक्तः कुर्वीत न द्रोहं सर्वसंगांश्चवर्जयेत्
एकारात्रस्थितिर् ग्रामे पञ्चरात्रस्थितिः पुरे ।
तथा तिष्ठेद्यथाप्रीतिर्द्वेषो वा नास्य जायते
प्राणयात्रानिमित्तं च व्यङ्गारे भुक्तवज्जने ।
काले प्रशस्तवर्णानां भिक्षार्थं पर्यटेद्गृहान्
कामः क्रोधस् तथा दर्पमोहलोभादयश् च ये ।
तांस्तु सर्वान्परित्यज्यपरिव्राण्निर्ममो भवेत्
अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः ।
तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित्
कृत्वाग्निहोत्रंस्वशरीरसंस्थं शारीरमग्निं स्वमुखे जुहोति ।
विप्रस्तु भैक्ष्योपहितैर् हविर्भिश्चिताग्निकानां व्रहति स्म लोकान्
मोक्षोश्रमं यश्चरते यथोक्तं शुचिःसुखं कल्पितबुद्धियुक्तः ।
अनिन्धनं ज्योतिरिव प्रशान्तःस ब्रह्मलोकं श्रयते द्विजातिः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0