विष्णु पुराण · अध्याय 2.16
इति श्रीविष्णुमहापुराणे द्वितीये ऽंशे पञ्चदशो ऽध्यायः (15)
ब्राह्मण उवाच
ऋभुर्वर्षसहस्रे तु समतीते नरेश्वर ।
निदाघज्ञानदानाय तदेव नगरं ययौ
नगरस्य बहिः सोथ निदाघं ददृशे मुनिः ।
महीबलपरीवारे पुरं विशति पार्थिवे
दूरे स्थितं महाभागं नजसंमर्दवर्जकम् ।
क्षुत्क्षामकण्ठमायान्तमरण्यात्ससमित्कुशम्
दृष्ट्वा निदाघं स ऋभुरुपगम्याभिवाद्य च ।
उवाच कस्मादेकान्ते स्थीयते भवता द्विज
निदाघ उवाच
भो विप्र जनसंमर्दे महानेष नरेश्वरः ।
प्रविविक्षुः पुरं रम्यं तेनात्र स्थीयते मया
ऋभुरुवाच
नराधिपोत्र कतमः कतमश्चेतरोजनः ।
कथ्यतां मे द्विज श्रेष्ठ त्वमभिज्ञो मतो मम
निदाघ उवाच
योयं गजेन्द्रमुन्मत्तमद्रिशृङ्गसमुच्छ्रितम् ।
अधिरूढो नरेद्रो ऽयं परिलो कस्तथेतरः
ऋभुरुवाच
एतौ हि गजराजानौ युगपद्दर्शितौ मम ।
भवता न विशेषेण पृथक्चिह्नोपलक्षणौ
तत्कथ्यतां महाभाग विशेषो भवतानयोः ।
ज्ञातुमिच्छाम्यहं कोत्र गजः को वा नराधिपः
निदाघ उवाच
गजो योयमथो ब्रह्मन्नुपर्यस्यैष भूपतिः ।
वाह्यवा हकसम्बन्धं को न जानानि वै द्विज
ऋभुरुवाच
जानाम्यहं यथा ब्रह्यंस् तथा मामवबोधय ।
अधःशब्दनिगद्यं हि किं चोर्ध्वमभिधियते
ब्राह्मण उवाच
इत्युक्तः सहसारुह्य निदाघः प्राह तमृभुम् ।
श्रूयतां कथयाम्येष यन्मां त्वं परिपृच्छसि
उपर्यहं यथा राजा त्वमधः कुञ्जरो यथा ।
अवबोधाय ते ब्रह्मन्दृष्टान्तो दर्शितो मया
ऋभुरुवाच
त्वं राजेन द्विजश्रेष्ठ स्थितोहं गजवद्यदि ।
तदेतत्त्वं समाचक्ष्व कतमस्त्वमहं तथा
ब्राह्मम उवाच
इत्युक्तः सत्वरं तस्य प्रगृह्य चरमाबुभौ ।
निदाघस्त्वाह भगवानाचार्यस्त्वमृभुर्ध्रुवम्
नान्यस्याद्वैतसंस्कारसंस्कृतं मानसं तथा ।
यथाचार्यस्य तेन त्वां मन्ये प्राप्तमहं गुरुम्
ऋबुरुवाच
तवोपदेशदानाय पूर्वशुश्रुषणादृतः ।
गुरुस्नेहादृभुर्नाम निदाघ समुपागतः
तदेतदुपदिष्टं ते संक्षेपेण महामते ।
परमार्थसारभूतं यद् अद्वैतम् अशेषतः
ब्राह्म उवाच
एवमुक्त्वा ययौ विद्वान्निदाघं स ऋभुर्गुरुः ।
निदाघोप्युपदेशेन तेनाद्वैतपरोभवत्
सर्वभूतान्यभेदेन ददृशे स तदात्मनः ।
यथा ब्रह्मपरो मुक्तिमवाप परमां द्विजः
तथा त्वमपि धर्मज्ञ तुल्योत्मरीपुबान्धवः ।
भव सर्गगतं जानन्नत्मानमवनीपते
सितनीला दिभेदेन यथैकं दृश्यते नभः ।
भ्रान्तदृष्टिभिर् आत्मापि तथैकः सन्पृथक्पृथक्
एकः समस्तं यदिहास्ति किञ्चित्तदच्युतो नास्ति परं ततोन्यत् ।
सो ऽहं स च त्वं च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम्
श्रीपराशर उवाच
इतीरितस्तेन स राजवर्स्तत्याज भेदं परमार्थदृष्टिः ।
स चापि जातिस्मरणाप्तबोधस्तत्रैव जन्मन्यपवर्गमाप
इति भरतनरेन्द्रसारवृत्तं कथयति यश् च शृणोति भक्तियुक्तः ।
स विमलमतिरेति नात्म मोहं भवति च संसरणेणु मुक्तियोग्यः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0