भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 2.5

2.5.1

इति श्रीविष्णुमहापुराणे द्वितीये ऽंशे चतुर्थो ऽध्यायः (4)
श्रीपराशर उवाच
विस्तार एष कथितः पृथिव्या भवतो मया ।
सप्ततिस्तु सहस्राणि द्विजोच्छ्रायोपि कथ्यते

2.5.2

दशसाहस्रमेकैकं पातालं मुनिसत्तम ।
अतलं वितलं चैव नितलं च गभस्तिमत् ।
महाख्यं सुतलं चाग्र्यं पातालं चापि सप्तमम्

2.5.3

शुक्लाकृष्णारुणाः पीताः शर्कराः शैलकाञ्चनाः ।
भूमयो यत्र मैत्रेय परग्रासादमण्डिताः

2.5.4

तेषु दानवदैतेया यक्षाश् च शतशस् तथा ।
निवसन्ति महानागजा तयश् च महामुने

2.5.5

स्वर्लोकादपि रम्याणि पातालानीति नारदः ।
प्राह स्वर्गसदं मध्ये पातालाभ्यागतो दिवि

2.5.6

आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः ।
नागाभरणभूषासु पातालं केन तत्समम्

2.5.7

दैत्यदानवकन्याभिर् इतश्चैतश् च शोभिते ।
पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते

2.5.8

दिवार्करश्मयो यत्र प्रभां तन्वन्ति नातपम् ।
शशिरश्मिर् न शीताय निशि द्योताय केवलम्

2.5.9

भक्ष्यभोज्यमहापानमुदितैर् अपि भोगिभिः ।
यत्र न ज्ञायते कालो गतोपि दनुजादिभिः

2.5.10

वनानि नद्यो रम्याणि सरांसि कमलाकराः ।
पुंस्कोकिलाभिलापाश् च मनोज्ञान्यम्बराणि च

2.5.11

भूषणान्यतिशुभ्राणि गन्धाढ्यं चानुलेपनम् ।
वीणावेणुमृदङ्गानां स्वनैर् अपूरितानि च

2.5.12

एतान्यन्यानि चोदारभग्यभोग्यानि तानवैः ।
दैत्योरगैश् च भुज्यन्ते पातालान्तरगोचरैः

2.5.13

पातालानामधश्चास्ते विष्णोर्या तामसी तनुः ।
शेषख्या यद्रुणान्वक्तुं न शक्ता दैत्यदानवाः

2.5.14

योनन्तः पाठ्यते सिद्धैर् दैवो देवर्षिपूजितः ।
स सहस्रशिरा व्यक्तस्वस्तिकामलभूषणः

2.5.15

फणामणिसहस्रेण यः स विद्योतयन्दिशः ।
सर्वान्करोति निर्विर्यान् हिताय जगतो ऽसुरान्

2.5.16

मदाघूर्णितनेत्रोसौ यः सदैवैककुम्डलः ।
किरिटी स्रग्धरो भाति साग्निः श्वेत इवाचलः

2.5.17

नीलवासा मदोत्सिक्तः श्वेतहारोपशोभितः ।
साभ्रगङ्गाप्रवाहोसौ कैलासाद्रिरिवापरः

2.5.18

लाङ्गलासक्तहस्ताग्रो बिभ्रन्मुसलमुतमम् ।
उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्तया

2.5.19

कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः ।
संकर्षणात्मको रूद्रो निष्क्रम्यात्ति जगत्त्रयम्

2.5.20

स बिभ्रच्छेखरीभूतमशेषं क्षितिमण्डलम् ।
आस्ते पातालमूलस्थः शेषो ऽशेषसुरार्चितः

2.5.21

तस्य वीर्यं प्रभावश् च स्वरूपं रूपमेव च ।
न हि वर्णयितुं शक्यं ज्ञातुं च त्रिदशैर् अपि

2.5.22

यस्यैषा सकला पृथ्वी फणामणिशिखारूणा ।
आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति

2.5.23

यदा विजृम्भतेनन्तो मदाघूर्णितलोचनः ।
तदा चलति भूरेषा साब्धितोया सकानना

2.5.24

गन्धर्वाप्सरसः सिद्धाः किन्नरोरगचारणाः ।
नान्तं गुणानां गच्छन्ति तेनानन्तोयमव्ययः

2.5.25

यस्य नागवधूहस्तैर् लंबितं हरि चन्दनम् ।
मुहुः श्वासानिलापास्तं याति दिक्क्षोदवासताम्

2.5.26

यमाराध्य पूराणर्षिर्गर्गो ज्योतींषि तत्त्वतः ।
ज्ञातवान्सकलं चैव निमित्तपठितं फलम्

2.5.27

तेनेयं नागवर्येण शिरसा विधृता मही ।
बिभर्ति मालां लोकानां सदेवासुरमानुषाम्

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc