भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 2.6

2.6.1

इति श्रीविष्णुमहाहुराणे द्वितीरये ऽंशे पञ्चमो ऽध्याय (5)
पराशर उवाच
ततश् च नरका विप्र भुवोधः सलिलस्य च ।
पापिनो येषु पात्यन्ते ताञ्छृणुष्वमहामुने

2.6.2

रौरवः सूकरो रोधस्तालो विशसनस् तथा ।
महाज्वालस्तप्तकुम्भो लवणेथ विलोहितः

2.6.3

रूधिराम्भो वैतरणिः क्रिमिशः क्रिमिभोजनः ।
असिपत्रवनं कृष्णो लालाभक्षश् च दारुणः

2.6.4

तथा पूयवहः पापो वह्निज्वालो ह्यधः शिराः ।
संदंशः कालसूत्रश् च तमश्चावीचिरेव च

2.6.5

श्वभोजनोथाप्रतिष्ठश्चाप्रचिश् च तथा परः ।
इत्येवमादयश्चान्ये नरका भृशदारूणाः

2.6.6

यमस्य विषये घोराः शस्त्राग्निभयदायिनः ।
पतन्ति येषु पुरुषाः पापकर्मरतास्तु ये

2.6.7

कूटसाक्षी तथासम्यक्पक्षपातेन यो वदेत् ।
यश्चान्यदनृतं वक्ति स नरो याति रौरवम्

2.6.8

भ्रूणहा पुरहन्ता च गौघ्नश् च मुनिसत्तम ।
यान्ति ते नरकं रोधं यश्चोच्छ्वासनिरोधकः

2.6.9

सुरापो ब्रह्महा हर्ता सुवर्णस्य च सूकरे ।
प्रयान्ति नरके यश् च तैः संसर्गमुपैति वै

2.6.10

राजन्यवैश्यहन्ता च तथैव गुरुतल्पगः ।
तप्तकुण्डेस्वसृगामी हन्ति राजभटांश् च यः

2.6.11

साध्वीविक्रयकृद्बन्धपालः केसरिविक्रयी ।
तप्तलोहे पतन्त्य् एते यश् च च भक्तं परित्यजेत्

2.6.12

स्नुषां सुतां चापि गत्वा महाज्वाले निपात्यते ।
अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः

2.6.13

वेददूषयितायश् च वेदविक्रयकश् च यः ।
अगम्यगामी यश् च स्यात्ते यान्ति लवणं द्विज

2.6.14

चोरो विलोहे पतति मर्यादादूषकस् तथा

2.6.15

देवद्विजपितृद्वेष्टा रत्नद्वषयिता च यः ।
स याति क्रिमिभक्षे वै क्रिमिशे च दुरिष्टकृत्

2.6.16

पितृदेवातिथींस् त्यक्त्वा पर्यश्नाति नराधमः ।
लालाभक्षे स यात्य् उग्रे शरकर्ता च वेधके

2.6.17

करोति कर्णनो यश् च यश् च खङ्गादिकृन्नरः ।
प्रयान्त्येते विशसने नरके भृशदरुणे

2.6.18

असत्प्रतिगृहीता तु नरके यात्यधोमुखे ।
अयाज्ययाजकश्चैव तथा नक्षत्रसूचकः

2.6.19

वेगी पूयवहे चैको याति मष्टान्नभुङ्गरः

2.6.20

लाक्षामासरसानां च तिलानां लवणस्य च ।
विक्रेता ब्रह्मणो याति तमेव नरकं द्विज

2.6.21

मार्जारकुक्कुटच्छाग श्ववराहविहङ्गमान् ।
पोषयन्नरकं याति तमेव द्विजसत्तम

2.6.22

रङ्गोपजीवी कैवर्तः कुम्डाशी गरदस् तथा ।
सूची माहिषकश्चैव पर्वकारी च यो द्विजः

2.6.23

अगारदाही मित्रघ्नः शाकुनिर्ग्रमयाजकः ।
रुधिरान्धे पतन्त्येते सोमं विक्रीणते च ये

2.6.24

मखहा ग्रामहन्ता च याति वैतरणीं नरः

2.6.25

रेतः पातादिकर्तारो मर्यादाभेदिनो हि ये ।
ते कृष्णे यान्त्यशौचाश् च कुहकाजीविनश् च ये

2.6.26

असिपत्रवनं याति वनच्छेदी वृथैव यः ।
औरभ्रिको मृगव्याधो वह्निज्वाले पतन्ति वै

2.6.27

यान्त्येते द्विज तत्रैव ये चापाकेषु वह्निदाः

2.6.28

व्रतानां लोपको यश्चस्वाश्रमाद्विच्युतश् च यः ।
सन्दंशयातनामध्ये पततस्तावुभावपि

2.6.29

दिवा स्वप्ने च स्कन्दन्ते ये नरा ब्रह्मचारिणः ।
पुत्रैर् अध्यापिता ये च ते पतन्ति श्वभोजने

2.6.30

एते चान्ये च नरकाः शतशोथ सहस्रशः ।
येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः

2.6.31

यथैव पापान्येतानि तथान्यानि सहस्रशः ।
भुज्यन्ते तानि पुरुषैर् नरकान्तरगोचरैः

2.6.32

वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः ।
कर्मणा मनसा वाचा निरयेषु पतन्ति ते

2.6.33

अधः शिरोभिदृश्यन्ते नारकैर् दिवि देवताः ।
देवाश्चाधोमुखान्सर्वानधः पश्यन्ति नारकान्

2.6.34

स्थावराः क्रिमयोब्जाश् च पक्षिणः पशवो नराः ।
धार्मिकास्त्रिदशास्तद्धन्मोक्षिणश् च यथाक्रमम्

2.6.35

सहस्रभागप्रथमा द्वितीयानुक्रमास् तथा ।
सर्वे ह्येते महाभागा यावन्मुक्तिसमाश्रयाः

2.6.36

यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः ।
पापकृद्याति नरकं प्रायाश्चित्तपराङ्मुखः

2.6.37

पापानामनुरूपाणि प्रायश्चित्तानि यद्यथा ।
तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः

2.6.38

पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः ।
प्रायश्चित्तानि मैत्रेय जगुः स्वायंभुवादयः

2.6.39

प्रायश्चित्तान्यशेषाणि तपःकर्मत्मकानि वै ।
यानि तेषाणशेषाणां कृष्णानुस्मरणम्परम्

2.6.40

कृते पापे ऽनुतापो वै यस्य पुंसः प्रजायते ।
प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम्

2.6.42

प्रातर्निशि तथा सन्ध्यामध्याह्नादिषु संस्मरन् ।
नारायणमवाप्नोति सद्यः पापक्षयन्नरः ।
विष्णुसंस्मरणात्क्षीणसमस्तक्लेशसञ्चयः ।
मुक्तिं प्रयाति स्वर्गाप्तिस्तस्य विघ्नोनुमीयते

2.6.43

वासुदेवे मनो यस्यजपहोमार्चनादिषु ।
तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम्

2.6.44

क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् ।
क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम्

2.6.45

तस्मादहर्निशं विष्णु संस्मरन्पुरुषो मुने ।
न याति नरकं मर्त्यः संक्षीणाखिलपातकः

2.6.46

मनः प्रीतिकरः स्वर्गो नरकस्तद्विपर्ययः ।
नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम

2.6.47

वस्त्वेकमेव दुःखाय सुखायेष्र्यागमाय च ।
कोपाय च यतस्तस्माद्वस्तु वस्त्वात्मकं कुतः

2.6.48

तदेव प्रीतये भूत्वा पुनर्दुःखा य जायते ।
तदेव कोपाय यतः प्रसादाय च जायते

2.6.49

तस्माद्दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम् ।
मनसः परिमामोयं सुखदुःखादिलक्षमः

2.6.50

ज्ञानमेव परं ब्रह्म ज्ञानं बन्धाय चेष्यते ।
ज्ञानत्मकमिदं विश्वं न ज्ञानाद्विद्यते परम्

2.6.51

विद्याविद्येति मैत्रेय ज्ञानमेवोपधारय

2.6.52

एवमेतन्मयाख्यातं भवतो मण्डलं भुवः ।
पातालानि च सर्वाणि तथाव नरका द्विज

2.6.53

समुद्राः पर्वताश्चैव द्वीपा वर्षाणि निम्नगाः ।
संक्षेपात्सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc