भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 2.4

2.4.1

इति श्रिविष्णुमहापुराणे द्वितीये ऽंशे तृतीयोध्यायः (3)
श्रीपराशर उवाच
क्षारोदेन यथा द्वीपो जम्बूसंज्ञो ऽभिवेष्टितः ।
संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस् तथा स्थितः

2.4.2

जम्बूद्वीपस्य विस्तारः शतसाहस्रसंमितः ।
स एवं द्विगुणो ब्रह्मन् प्लक्षद्वीप उदाहृतः

2.4.3

सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै ।
ज्येष्ठ शान्तहयो नाम शिशिरस्तदनन्तरः

2.4.4

सुखोदयस्तथानन्दः शिवः क्षेमक एव च ।
ध्रुवश् च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते

2.4.5

पूर्वं शान्तहयं वर्षं शिशिरं च सुखं तथा ।
आनन्दं च शिवं चैव क्षेमकं ध्रुवमेव च

2.4.6

मर्यादाकारकास्तेषां तथान्ये वर्षपर्वताः ।
सप्तैव तेषां नामानि शृणुष्व मुनिसत्तम

2.4.7

गोमदेश्चैव चन्द्रश् च नारदौ दुन्दुभिस् तथा ।
सोमकः मुमनाश्चैव वैभ्राजश्चैव सप्तमः

2.4.8

वर्षाचलेषु रम्येषु वर्षेष्वेतेषु चानघाः ।
वसंति देवगन्धर्वसहिताः सततं प्रजाः

2.4.9

तेषु पुण्या जनपदाश्चिराच्च म्रियते जनः ।
नाधयो व्याधयो वापि सर्वकालसुखं हि तत्

2.4.10

तेषां नद्यस्तु सप्तैव वर्षाणां च समुद्रगाः ।
नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः

2.4.11

अनुतप्ता शिखी चैव विपाशा त्रिदिवाक्लमः ।
अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः

2.4.12

एते शैलास् तथा नद्यः प्रधानाः कथितास्तव ।
क्षुद्रशैलास् तथा नद्यस्तत्र सन्ति सहस्रशः ।
ताः पिबन्दि सदाहृष्टा नदीर्जनपदास्तुते

2.4.13

अपसर्पिणी न तेषां वै न चैवोत्सर्पिणी द्विज ।
न त्वेवास्ति युगावस्था तेषु स्तानेषु सप्तसु

2.4.14

त्रेतायुगसमः कालः सर्वदैव महामते ।
प्लक्षद्वीपादिषु ब्रह्मञ् शाकद्वीपान्तिकेषु वै

2.4.15

पञ्च वर्षसहस्राणि जना जीवन्त्यनामयाः ।
धर्मः पञ्चस्वथैतेषु वर्णाश्रमविभागशः

2.4.16

वर्णाश् च तत्र चत्वारस्तान्निबोध वदामि ते

2.4.17

आर्यकाः कुरारश्चैव विदिश्या भाविनश्चे ते ।
विप्रक्षत्रिवैश्यास्ते शूद्राश् च मुनिसत्तम

2.4.18

ज्मबूवृक्षप्रमाणस्तु तन्मध्ये सुमहांस्तरुः ।
प्लक्षस्तन्नामसंज्ञोयं प्लक्षद्वीपो द्विजोत्तम

2.4.19

इज्यते तत्र भगवांस्तैर् वर्णैर् आर्यकादिभिः ।
सीमरूपि जगत्स्त्रष्टा सर्वः सर्वेश्वरो हरिः

2.4.20

प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समावृतः ।
तथैवेक्षुरमोदेन परिवेषानुकारिणा

2.4.21

इत्येवं तव मैत्रेय प्लक्षद्वीप उदाहृतः ।
संक्षेपेण मया भूयः शाल्मलं मे निसामय

2.4.22

शाल्ममस्येश्वरोःवीरो वपुष्मांस्तत्सुताञ्छृणु ।
तेषां तु नामसंज्ञानि सप्तवर्षाणि तानि वै

2.4.23

श्वेतोथ हरितश्चैव जीमूतो रोहितस् तथा ।
वैद्युतो मानसश्चैव सुप्रभश् च महामुने

2.4.24

शाल्मलेन समुद्रोसौ द्वीपेनेक्षुरसोदकः ।
विस्तारद्विगुणेनाथ सर्वतः संवृतः स्थितः

2.4.25

तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः ।
वर्षाभिव्यञ्जका ये तु तथा सप्त च निम्नगाः

2.4.26

कुमुदश्चेन्नतश्चैव तृतीयश् च बलाहकः ।
द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः

2.4.27

कङ्कस्तुपञ्चमः षष्ठी महिषः सप्तमस् तथा ।
ककुद्मान्पर्वतवरः सरिन्नामानि मे शृणु

2.4.28

योनितोयो वितृष्णा च चन्द्रा मुक्ता विमोचनी ।
निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः

2.4.29

श्वेतञ्च हरितं चैव वैद्युतं मानसं तथा ।
जीमूतं रोहितं चैव सुप्रभं चापि शोभनम् ।
सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि वै

2.4.30

शाल्मले ये तु वर्णाश् च वसन्त्येते महामुने ।
कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक् पृथक्

2.4.31

ब्रह्मणाः क्षत्रया वैश्याः शुद्राश्चैव यजन्तितम् ।
भगवन्तं समस्तस्य विष्णुमात्मानमव्ययम् ।
वायुभूतं मखश्रेष्ठैर् यज्वनो यज्ञसंस्थितिम्

2.4.32

देवानामत्र सान्नध्यमतीव सुमनोहरे ।
शाल्मलिः सुमहान्वृक्षो नाम्ना निर्वृतिकारकः

2.4.33

एष द्वीपः समुद्रेण सुरोदेन समावृतः ।
विस्ताराच्छाल्मलस्यैव समेन तु समन्ततः

2.4.34

सुरोदकः परिवृतः कुशद्वीपेन सर्वतः ।
शाल्मलस्य तु विस्तराद्द्विगुणेन समन्ततः

2.4.35

ज्योतिष्मतः कुशद्वीपे सप्त पुत्राञ्छृणुष्व तान्

2.4.36

उद्भिदो वेणुमांश्चैव वेरथो लम्बनो धृतिः ।
प्रभाकरोतिकपिलस्तन्नामा वर्षपद्धतिः

2.4.37

तस्मिन्वसन्ति मनुजाः सह दैते यदानवैः ।
तथैव देवगन्धर्वयक्षकिंपुरुषादयः

2.4.38

वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः ।
दमिनः शुष्मिणः स्नेहा मन्देहाश् च महामुने

2.4.39

ब्रह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः

2.4.40

यथोस्ककर्मकर्तृत्वात्स्वाधिकारोक्षयाय ते ।
तत्रैव तं कुशद्वीपे ब्रह्मरूपं जनार्दनम् ।
यजन्तः क्षपयन्त्य् उग्रम् अधिकारफलप्रदम्

2.4.41

विद्रुमो हेमशैलश् च द्यतिमान् पुष्पवांस् तथा ।
कुशशयो हरिश्चैव सप्तमो मन्दराचलः

2.4.42

वर्षाचलास्तु सप्तैते तत्र द्वीपे महामुने ।
नद्यश् च सप्त तासां तु शृणु नामान्यनुक्रमात्

2.4.43

धूतपापा शिवा चैव पवित्रा संमतिस् तथा ।
विद्युदम्भा मही चान्या सर्वपाप हरास्त्विमाः

2.4.44

अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाचलाः ।
कुशद्वीपे गुशस्तम्बः संज्ञया तस्य तत्स्मृतम्

2.4.45

तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः ।
घृतोदश् च समुद्रो वै क्रौञ्चद्वीपेन संवृतः

2.4.46

क्रौञ्चद्वीपो महाभाग श्रुयताञ्चापरो महान् ।
कुशद्वीपस्य विस्तारा द्द्विगुणो यस्य विस्तरः

2.4.47

क्रौञ्चद्वीपे द्युतिमतः पुत्रास्तस्य महात्मनः ।
तन्नामानि च वर्षाणि तेषां चक्रे महीपतिः

2.4.48

कुशलो मल्लगश्चोष्णः पीवरोथान्धकारकः ।
मुनिश् च दुन्दुभिश्चैव सप्तैते तत्सुता मुने

2.4.49

तत्रापि देवगन्धर्वसेविताः सुमनोहराः ।
वर्षाचला महाबुद्धे तेषां नामानि मे शृणु

2.4.50

क्रौञ्चश् च वामनश्चैव तृतीयश्चान्धकारकः ।
चतुर्थो रत्नशैलश् च स्वाहिनी हयसन्निभः

2.4.51

दिवावृत्पञ्चमश्चात्र तथान्यः पुण्डरीकवान् ।
दुन्दुभिश् च महाशैलो द्विगुणास्त परस्परम् ।
द्वीपाद्वीपेषु ये शैला यथा द्वीपानि ते तथा

2.4.52

वर्षेष्वेतेषु रम्येषु तथा शैलवरेषु च ।
निवसंति निरातङ्काः सह देवगणैः प्रजाः

2.4.53

पुष्कराः पुष्कला धन्यास्तितिख्याश् च महामुने ।
ब्रह्मणाः क्षत्रिया वैश्याः शुद्राश्चानुक्रमोदिताः

2.4.54

नदीर्मैत्रेय ते तत्र याः पिबन्ति शृणुष्व ताः ।
सप्तप्रधानाः शतशस् तत्रान्याः क्षुद्रनिम्नगाः

2.4.55

गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ।
क्षान्तिश् च पुण्डरीका च सप्तैता वर्षनिम्नगाः

2.4.56

तत्रापि विष्णुर्भगवान्पुष्काराद्यैर् जानार्दनः ।
यागौ रुद्रस्वरूपश् च इज्यते यज्ञसन्निधौ

2.4.57

क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन च ।
आवृतः सर्वतः क्रौञ्च द्वीपतुल्येन मानतः

2.4.58

दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः ।
क्रौञ्चद्वीपस्य विस्ताराद्द्विगुणेन महामुने

2.4.59

शाकद्वीपेश्वरस्यापि भव्यस्य मुमहात्मनः ।
सप्तैव तनयास्तषां ददौ वर्षाणि सप्त सः

2.4.60

जलदश् च कुमारश् च मुकुमारो मरीचकः ।
कुसुमोदश् च मौदाकिः सप्तमश् च महाद्रुमः

2.4.61

तत्संज्ञान्येव तत्रापि सप्त वर्षाण्यनुक्रमात् ।
तत्रापि पर्वताः स्पत वर्षविच्छेदकारिणः

2.4.62

पूर्वस्तत्रोदयगिरिर्जलाधारस्तथापरः ।
तथा रैवतकः श्यामस्तथैवास्तगिरिर्द्विज ।
आम्बिकेयस् तथा रम्यः केसरी पर्वतोत्तमः

2.4.63

शाकस्तत्र महावृक्षः सिद्धगन्धर्वसेवितः ।
यत्रत्यवातसंस्पार्शादाह्लादो जायते परः

2.4.64

तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः ।
नद्यश्चात्र महापुण्याः सर्वपापभयापहाः

2.4.65

सुकुमारी कुमारी च नलिनी धेनुका च या ।
इक्षुश् च वेणुका चैव गभस्ती सप्तमी तथा

2.4.66

अन्याश् च शतशस्तत्र क्षुद्रनद्यो महामुने ।
महीधरास् तथा सन्ति शतशोथ सहस्रशः

2.4.67

ताः पिबन्ति मुदायुक्ता जलदादिषु ये स्थिताः ।
वर्षषु ते जनपदाः स्वर्गादभ्येत्य मेदिनीम्

2.4.68

धर्महानिर्न तेष्वस्ति न संघर्षः परस्परम् ।
मर्यादाव्युत्क्रमो नापि तेषु देशेषु सप्तसु

2.4.69

वङ्गाश् च मागधाश्चैव मानसा मन्दगास् तथा ।
वङ्गा ब्रह्मणभूयिष्ठा मागधाः क्षत्रियास् तथा ।
वैश्यास्तु मानसास्तेषां शूद्रस्तेषां तु मन्दगाः

2.4.70

शाकद्वीपे तु तैर् विष्णुः सूर्यरूपधरो मुनें ।
यथोक्तौरिज्यते सम्यक्कर्मभिर् नियतात्मभिः

2.4.71

शाकद्वीपस्तु मैत्रेय क्षिरोदेन समावृतः ।
शाकद्वीपप्रमाणेन वलयेनेव वेष्टितः

2.4.72

क्षिराब्धिः सर्वतो ब्रह्मन्पुष्कराख्येन वेष्टितः ।
द्वीपेन शाकद्वीपात्तु द्वीगुणेन समन्ततः

2.4.73

पुष्करे सवनस्यापि महावीरो ऽभवत्सुतः ।
धातुकिश् च तयोस्तत्र द्वे वर्षे नामचिह्निते ।
महावीरं तथैवान्यद्धातुकीखण्डसंज्ञितम्

2.4.74

एकश्चत्र महाभाग प्रख्यातो वर्षपर्वतः ।
मानासोत्तरसंज्ञो वै मध्यतो वलयाकृतिः

2.4.75

योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः ।
तावदेव च विस्तीर्णः सर्वतः परिमण्डलः

2.4.76

पुष्करद्वीपवलयं मध्येन विभजन्निव ।
स्थितोसौ तेन विछिन्नं जातं तद्वर्षकद्वयम्

2.4.77

वलयाकारमेकैकं तयोर्वर्षं तथा गिरिः

2.4.78

दशवर्षसहस्राणि तत्र जीवन्ति मानवाः ।
विरामया विशोकाश् च रागद्वेषादिवर्जिताः

2.4.79

अधमोत्तमौ न तेष्वास्तां न वध्यवधकौ द्विज ।
नेर्ष्यासूया भयं द्वेषो दोषो लोभादिको न च

2.4.80

महापीतंबहिर्वर्षं धातकीखण्डमन्ततः ।
मानसोत्तरशौलस्य देवदैत्यादिसेवितम्

2.4.81

सत्यानृतेन तत्रास्तां द्वीपे पुष्करसंज्ञिते ।
न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते

2.4.82

तुल्यपेषास्तु मनुजा देवास्तत्रैकरूपिणः

2.4.83

वर्णाश्रमाचारहीनं धर्माचरणवर्जितम् ।
त्रयीवार्तादण्डनीतिशुश्रूषारहितञ्च यत्

2.4.84

वर्षद्वयं तु मैत्रेय भौमः स्वर्गोयमुत्तमः ।
सर्वर्तुसुखदः कालो जरारोगादिवर्जितः ।
धातकीखण्डसंज्ञे ऽथ महावीरे च वै मुने

2.4.85

न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम् ।
तस्मिन्नवसति ब्रह्मा पूज्यमानः सुरासुरैः

2.4.86

स्वादूदकेनोदधिना पुष्करः परिवेष्टितः ।
समेन पुष्करस्यैव विस्तारान्मण्डलं तथा

2.4.87

एवं द्वीपाः समुद्रैश् च सप्तसप्तभिर् आवृताः ।
द्वीपश्चैव समुद्रश् च समानो द्विगुणौ परौ

2.4.88

पयांसि सर्वदा सर्वसमुद्रेषु समानि वै ।
न्यूनातिरिक्तता तेषां कदाचिन्नैव जायते

2.4.89

स्थालीस्थमग्नीसंयोगादुद्रेकिसलिले यथ ।
तथेन्दुवृद्धौ सलिलमंभोधौ मुनिसत्तम

2.4.90

अन्यूनानतिरिक्ताश् च वर्धन्त्यापो ह्रसंति च ।
उदयास्तमनेष्विन्दोः पक्षयोः शुक्लकृष्णयोः

2.4.91

दशोत्तराणि पञ्चैव ह्यङ्गुलानां शतानि वै ।
अपां वृद्धिक्षणो दृष्टौ सामुद्रीणां महामुने

2.4.92

भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम् ।
षड्रसं भुञ्जते विप्र प्रजाः सर्वाः सदैव हि

2.4.93

स्वादूदकस्य परितो दृस्यते लोकसंस्थितिः ।
द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता

2.4.94

लोकालोकस्ततः शैलो जोजनायुतविस्तृतः ।
उच्छ्रायेणापि तावन्ति सहस्राण्यचलो हि सः

2.4.95

ततस्तमः समावृत्य तं शौलं सर्वतः स्थितम् ।
तमश्चाण्डकटाहेन समन्तात्परिवेष्टितम्

2.4.96

पञ्चशत्कोटिविस्तारा सेयमुर्व महामुने ।
सहैवाण्डकटाहेन सद्वीपाब्धिमहीधरा

2.4.97

सेयं धात्री विधात्री च सर्वभूतगुणाधिका ।
आधारभू6ता सर्वेषां मैत्रेय जगतामिति

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc