भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 2.3

2.3.1

इति श्रिविष्णुमहापुराणे द्वितीये ऽंशे द्वितीयो ऽध्यायः (2)
श्रीपराशर उवाच
उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः

2.3.2

नवयोजनसाहस्रो विस्तारोस्य महामुने ।
कर्मभूमिरियं स्वर्गमपवर्गं च गच्छताम्

2.3.3

महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ।
विन्ध्यश् च पारीयात्रश् च सप्तात्र कुलपर्वताः

2.3.4

अतः संप्राप्यते स्वर्गो सुक्तिमस्मात्प्रयान्ति वै ।
तिर्यक्त्वं नरकं चापि यान्त्यतः पुरुषा मुने

2.3.5

इतः स्वर्गश् च मोक्षश् च मध्यं चान्तश् च गम्यते ।
न ख्लवन्यत्र मर्त्यानां कर्मभूमौ विधीयते

2.3.6

भारतस्यास्य वर्षस्य नवभादान्नशामय ।
इद्रद्वीपः कसेरुश् च ताम्रपर्णां गभस्तिमान्

2.3.7

नागद्वीपस् तथा साम्यो गन्धर्वस्त्वथ चारुणः ।
अयं तु नवमस्तषां द्वीपः सागारसंवृतः

2.3.8

योजनानां सहस्रं तु द्वीपोयं दक्षिणोत्तरात् ।
पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः

2.3.9

ब्राह्मणाः क्षत्रिया वैश्या मध्ये शब्द्राश् च भागशः ।
इज्यायुधवणिज्याद्यैर् वर्तयन्तो व्यवस्थिताः

2.3.10

शतद्रूचन्द्रभागाद्या हिमयत्पादनिर्गताः ।
वेदस्मृतिमुखाद्याश् च पारीयात्रोद्भवा मुने

2.3.11

नर्मदा मुरसाद्याश् च नद्यो विन्ध्याद्रिनिर्गताः ।
तापीपयोष्णीनिर्विन्ध्या प्रसूखा ऋक्षसंभवाः

2.3.12

गोदावरी भीमरथी कृष्णवेण्यादिकास् तथा ।
सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः

2.3.13

कृतमाला ताम्रपर्णिप्रसुखा मलयोद्भवाः ।
त्रिसामा चर्षिकुल्याद्या महेन्द्रप्रभवाः स्मृताः

2.3.14

ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः ।
आसां नद्य उपानद्यः सन्त्यन्याश् च सहस्रशः

2.3.15

तास्विमे कुरुपाञ्चाला मध्यदेशादयो जनाः ।
पूर्वदेशादिकाश्चैव कामरूपनिवासिनः

2.3.16

पुण्ड्राः कलिङ्गा मगधा दक्षिणाद्याश् च सर्वशः ।
तथापरान्ताः सौराष्ट्राः शूराभीरास्तथार्बुदाः

2.3.17

कारूषा मालबाश्चैव पारियात्र निवासिनः ।
सौवीराः सैन्धवा हूणाः साल्वाः कोसलवासिनाः

2.3.18

माद्रारामास्तथाम्बष्ठा पारसीकादयस् तथा ।
आसां पिबन्ति सलिलं वसन्ति सहिताः सदा ।
समीपतो महाभाग हृष्टपुष्टजनाकुलाः

2.3.19

चत्वारि भारते वर्षे युगान्यत्र महामुने ।
कृतं त्रेता द्वापरञ्च कलिश्चान्यत्र न क्वचित्

2.3.20

तपस्तप्यन्ति मुनयो जुह्वते चात्र यज्वनः ।
दानानि चात्र दीयन्ते परलोकार्थमादरात्

2.3.21

पुरुषैर् यज्ञपुरुषो जम्बूद्वीपे सदेज्यते ।
यज्ञैर् यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा

2.3.22

अत्रापि भारतं श्रेष्ठं जन्बूद्वीपे महामुने ।
यतो हि कर्मभूरेषा ह्यतोन्या भोगभूमयः

2.3.23

अत्र जन्मसहस्राणां सहस्रैर् अपि सत्तम ।
कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसंचयात्

2.3.24

गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारत भूमिभागे ।
स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात्

2.3.25

कर्माण्यसंकल्पिततत्फलानि संन्यस्य विष्णो परमात्म्भूते ।
अवाप्य तां कर्ममहीमनन्ते तस्मिल्लयं ये त्वमलाः प्रयान्ति

2.3.26

जानीम नैतत्क्व वयं विलीने स्वर्गप्रदे कर्मणि देहबन्धम् ।
प्राप्स्याम धन्याः खलु ते मनुष्या ये भारते नेन्द्रियविप्रहीनाः

2.3.27

नववर्षं तु मैत्रेय जम्बुद्वीपमिदं मया ।
लक्षयोजनविस्तारं संक्षेपात् कथितं तव

2.3.28

जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः ।
मैत्रेय वलयाकारः स्थितः क्षारोदधिर्बहिः

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc