विष्णु पुराण · अध्याय 2.2
इति श्रीविष्णुपुराणे द्वितीये ऽंशे प्रथमो ऽध्यायः (1)
श्रीमैत्रेय उवाच
कथितो भवता ब्रह्मन्सर्गः स्वायम्भुवश् च मे ।
श्रोतुमिच्छाम्यहं त्वत्तः सकलं मण्डलं भुवः
यावन्तः सागर द्वीपास् तथा वर्षाणि पर्वताः ।
वनानि सतितः पुर्यो देवादीनां तथा मुने
यत्प्रमाणमिदं सर्वं यदाधारं यदात्मकम् ।
संस्थानमस्य च मुने यथाबद्वक्तुमर्हसि
श्रीपराशर उवाच
मैत्रेय श्रूयतामेतत्संक्षेपाद्गदतो मम ।
नास्य वर्षशतेनापि वक्तुं शक्यो हि विस्तरः
जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो द्विज ।
कुशः क्रैञ्चस् तथा शाकः पुष्करश्चैव सप्तमः
एते द्वीपाः समुद्रैस् तु सप्तसप्तभिर् आवृताः ।
लवणेक्षुसुरासर्पिर्दधिगुग्धजलैः समम्
प्रविष्टः षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्रि विस्तृत ।
मूले षोडशसाहस्रो विस्तारस्तस्य सर्वशः
भूपद्मस्यास्य शैलोसौ कर्णिकाकारसंस्थितः
हिमावान्हेमकूटश् च विषधश्चस्य दक्षिणे ।
नीलः श्वेतश् च शृङ्गी च उत्तरे वर्षपर्वताः
लक्षप्रमाणो द्वौ मध्यौ दशहीनास्तथापरे ।
सहस्रद्वितयोच्छ्रायास् तावद्विस्तारिणश् च ते
भारतं प्रथमं वर्षं ततः किपुरुषं स्मृतम् ।
हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विज
रम्यकं चोत्तरं वर्षं तस्यैवानु हिरण्मयम् ।
उत्तराः कुरवश्चैव यथा वै भारतं तथा
नवसाहस्रमैकैकम् एतेषां द्विजसत्तम ।
इलावृतं च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः
मेरोश्चतुर्दिशं तत्तु नवसाहस्रविस्तृतम् ।
इलावृतं महाभाग चत्वारश्चात्र पर्वताः
विष्कंभारचिता मेरोर्योजनायुतमुच्छ्रितः ।
नवैः सरोभिश् च समं दिक्ष्वेते केशवाचलाः
पुर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ।
विप्ललः पश्चिमे पार्श्वे मुपार्श्वश्चोत्तर स्मृतः
कदम्बस्तेषु जम्बूश् च पिप्पलो वट एव च ।
एकादशशतायामाः पादपा गिरिकेतवः
जम्बूद्वीपस्य सा जम्बूर् नामहेतुर् महामुने ।
महागजप्रमामानि जम्ब्वास्तस्याः फलनि वै ।
पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः
रसेन तेषां प्रख्याता तत्र जाम्बूनदीति वै ।
सरित्प्रवर्तते चापि पीयते तन्निवासिभिः
न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः ।
तत्पानात्स्वच्छमनासांजनानां तत्र जायते
तीरमृत्तद्रसं प्राप्य सुखवायुविशोषिता ।
जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम्
भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे ।
वर्षे द्वे तु मुनिश्रेष्ठ तयोर्मध्यमिलावृतः
वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् ।
वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम्
अरुणोदं महाभद्रमसितोदं समानसम् ।
सरांस्योतानि चत्वारि देवभोग्यानि सर्वदा
शीताम्भश् च कुमुन्दश् च कुररी माल्यवांस् तथा ।
वैकङ्कप्रसुखा मेरोः पूर्वतः केसराचलाः
त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस् तथा ।
निषदाद्या दक्षिणतस्तस्य केसरपर्वतः
शिखिवासाः सवैडूर्यः कपिलो गन्धमादनः ।
जारुधिप्रमुखास्तद्वत् पश्चिमे केसराचलाः
मेरोर् अनन्तराङ्गेषु जठरादिष्ववस्थिताः ।
शंशकूटोथ ऋषभो हंसो नागस् तथा परः ।
कालञ्जनाद्याश् च तथा उत्तरे केसराचलाः
चतुर्दशसहस्राणि योजनानां महापुरी ।
मेरोरुपरि मैत्रेय ब्रह्मणः प्रथिता दिवि
तस्याःसमन्ततश्चाष्टौ दिशासु विदिशासु च ।
इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः
विष्णुपादविनिष्क्रान्ता प्लावयित्वेन्दुमण्डलम् ।
समन्ताद्ब्रह्यणः पुर्यां गङ्ग पतति वै दिवः
सा तत्र पतिता दिक्षु चतुर्धा प्रतिपद्यते ।
सीता चालकनन्दा च चक्षुर्भद्रा च वै क्रमात्
पूर्वेण शैलाच्छीता तु शैलं यात्यन्तरीक्षगा ।
ततश् च पूर्ववर्षैण भद्राश्वैनैति सार्णवम्
तथैवालकनन्दापि दक्षिणेनैत्य भारतम् ।
प्रयाति सागरं भूत्वा सप्तभेदा महामुने
चक्षुश्चं पश्चिमगिरीनतीत्य सकलांस्ततः ।
पश्चिमं केतुमालाख्य वर्षं गत्वैति सागरम्
भद्रा तथोत्तरगिरीनुत्तरांश् च तथा कुरून् ।
अतीत्योत्तरमम्भोधिं समभ्येति महामुने
आनीलनिषधायामौ माल्यवद्गन्धमादनौ ।
तयोर्मध्यगतो मेरूः कर्णिकाकारसंस्थितः
भारताः केतुमालाश् च भद्राश्वाः कुरवस् तथा ।
पत्राणि लोकपद्मस्य मर्यादाशैलबाह्यतः
जठरो हेमकूटश् च मर्यादापर्वतावुभौ ।
तौ दक्षिमोत्तरायामावानीलनिषधायतौ
गन्धमादनकैलासौ पूर्ववच्चायतावुभौ ।
आशीति योजनायामावर्णवान्तव्यवस्थितौ
निषधः परियात्रश् च मर्यादापर्वतावुभौ ।
मेरोः पश्चिमदिग्भागे यथा पूर्वे तथा स्थितौ
त्रिशृङ्गो जारुधिश्चैव उत्तरौ वर्षपर्वतौ ।
पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ
इत्येते मुनिवर्योक्ता मर्यादापर्वतास्तव ।
जठराद्याः स्थिता मेरोस्तेषां द्वौद्वौ चतुर्दिशम्
मेरो श्चतुर्दिशं येतु प्रोक्ताः केसरपर्वताः ।
शीतान्ताद्या मुने तेषामतीव हि मनोरमाः ।
शैलानामन्तरे द्रोण्यः सिद्धचारणसेविताः
सुरम्याणि तथा तासु काननानि पुराणि च ।
लक्ष्मीविष्ण्वग्निसूर्यादिदेवानां मुनि सत्तम ।
तास्वायतनवर्याणि जुष्टानि वरकिन्नरैः
गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः ।
क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वहर्निसम्
भौमा ह्येते स्मृताः स्वर्गा धर्मिणामालया मुने ।
नैतुषु पापकर्माणो यान्ति जन्मशतैर् अपि
भद्राश्वे भगवान्विष्णुरास्ते हयशिरा द्विज ।
वराजः केतुमाले तु भारते कूर्मरूपधृक्
मत्स्यरूपश् च गोविन्दः कुरुष्वास्ते जनार्दनः ।
विश्वरूपेण सर्वत्र सर्वः सर्वत्रगो हरिः
सर्वस्याधारभूतोसौ मैत्रेयास्तेखिलात्मकः
यानिं किंपुरुषादिनि वर्षाण्यष्टौ महामुने ।
न तेषु शौको नायासो नोद्वेगः क्षुद्भयादिकम्
स्वस्थाः प्रजा निरातङ्काःसर्वदुःखविवर्जिताः ।
दश द्वादशवर्षाणां सहस्राणि स्थिरायुषः
न तेषु वर्षते देवो भौमान्यम्भांसि तेषु वै ।
कृतत्रेतादिकं नैव तेषु स्थानेषु कल्पना
सर्वेष्वेतेषु वर्षेषु सप्तसप्तकुलाचलाः ।
नद्यश् च शतशस्तेभ्यः प्रसूता या द्विजोत्तम
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0