विष्णु पुराण · अध्याय 2.1
इति श्रिविष्णुमहापुराणे प्रथमे ऽंशे द्वाविंशो ऽध्यायः
इति श्रीपराशरमुनिविरचिते श्रिविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे प्रथमांशः समाप्तः ।
अथ श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्यश्रीधरीय व्याख्याद्वयोपेते द्वितीयोंशः प्रारभ्यते
श्रीमते रामानुजाय नमः
मैत्रेय उवाच
भगवन्सम्यगाख्यातं ममैतदखिलं त्वाया ।
जगतः सर्गसम्बन्धि यत्पृष्टोसि गुरो मया
योयमंशो जगत्सृष्टिसम्बन्धो गदितस्त्वया ।
तत्राहं श्रोतुमिच्छामि भूयोपि मुनिसत्तम
प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य यौ ।
तयोरुत्तानपादस्य ध्रुवः पुत्रस्त्वयोदितः
प्रियव्रतस्य नैवोक्ता भवता द्विज सन्ततिः ।
तामहं श्रोतुमिच्छामि प्रसन्नो वक्तुमर्हसि
श्रीपराशर उवाच
कर्दमस्यात्मजां कन्यामुपयेमे प्रयिव्रतः ।
सम्राट् कुक्षि च तत्कन्ये दशपुत्रस्तथापरे
महाप्रज्ञा महावीर्या विनीता दयिताः पितुः ।
प्रियव्रतसुताः ख्यातास्तेषां नामानि मे शृणु
आग्नीध्रश्चाग्निबाहुश् च वपुष्मान्द्युतिमांस् तथा ।
मेधा मेधातिथिर्भव्यः सवनः पुत्र एव च
ज्योतिष्मान्दशमस्तेषां सत्यनामा सुतो ऽभवत् ।
प्रियव्रतस्य पुत्रास्ते प्रख्याता बलवीर्यतः
मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः ।
जातिस्मारा महाभागान राज्याय मनो दधुः
निर्मलाः सर्वकालन्तु समस्तार्थेषु वै मुने ।
चक्रुः क्रियां यथान्यायमफलाकाक्षिणो हि ते
प्रियव्रतो ददौ तेषां सप्तानां मुनिसत्तम ।
सप्तद्वीपानि मैत्रेय विभज्य सुमहात्मनाम्
जम्बूद्वीपे महाभाग सोग्नीध्राय ददौ पिता ।
मेधातिथेस् तथा प्रादात्प्लक्षद्वीपं तथापरम्
शाल्मले च वपुष्मन्तं नरेन्द्रमभिषिक्तवान् ।
ज्योतिष्मन्तं कुशद्वीपे राजानं कृतावान्प्रभुः
द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् ।
शाकद्वीपेश्वरं चापि भव्यं चक्रे प्रियव्रतः
पुष्कराधिपतिं चक्रे सवनं चापि स प्रभुः ।
जम्बूद्वीपेश्वरो यस्तु आग्नीध्रो मुनिसत्तम
तस्य पुत्रा बभूवुस्ते प्रजापतिसमा नव ।
नाभिः किंपुरुषश्चैव हरिवर्ष इलावृतः
रम्यो हिरण्वान्षष्ठश् च कुरुभद्राश्व एव च ।
केतुमालस्तथैवान्यः साधुचेष्टो ऽभवन्तृपः
जन्बूद्वीपवि भागांश् च तेषां विप्र निशामय ।
पित्रा दत्तं हिमाह्वं तु वर्षं नाभेस्तु दक्षिणम्
हेमकूटं तथा वर्षं ददौ किंपुरुषाय सः ।
तृतीयं नैषधं वर्षं हरिवर्षाय दत्तवान्
इलावृताय प्रददौ मेरुर्यत्र तु मध्यमः ।
नीलाचलाश्रितं वर्ष रम्याय प्रददौ पिता
श्वेतं यदुत्तरं तस्मात्पित्रा दत्तं हिरण्वते
यदुत्तरं शृङ्गवतो वर्ष तत्कुरवे ददौ ।
मेरोः पुर्वेण यद्वर्ष भद्राश्वाय प्रदत्तवान्
गन्धमाधनवर्ष तु केतुमालाय दत्तवान् ।
इत्येतानि ददौ तेभ्यः पुत्रेभ्यः स नरेश्वरः
वर्षेष्वेतेषु तान्पुत्रानभिषिच्य स भूमिपः ।
सालाग्रामं महापुण्यं मैत्रेय तपसे ययौ
यनि किंपुरुषादीति वर्षाव्यष्टौ महामुने ।
तेषां स्वाभाविकि सिद्धिः सुखप्राया ह्ययत्नतः
विपर्ययो न तेष्वस्ति जरामृत्युभयं न च ।
धर्मधमौ न तेष्वास्तां नोत्तमाधममध्यमाः
न तेष्वस्ति युगावस्था क्षेत्रेष्वष्टसु सर्वदा ।
हिमाह्वयं तु वै वर्षं नाबेरासीन्महात्मनः ।
तस्यर्षभो ऽभवत्पुत्रो मेरुदेव्यां महाद्युतिः
ऋषभाद्भारतो जज्ञे ज्येष्ठः पुत्रशतस्य सः ।
कृत्वा राज्यं स्वधर्मेण तथैष्ट्वा विविधान्मखान्
अभिषिच्य सुतं वीरं भरतं पृथिवीपतिः ।
तपसे स महाभागः पुलहस्याश्रमं ययौ
वानप्रस्थविधानेन तत्रापि कृतनिश्चयः ।
तपस्तेपे यथान्यायमियाज स महीपतिः
तपसा कर्षितोत्यर्थं कृशो धमनिसन्ततः ।
नग्नो वीटां मुखे कृत्वा वीराध्वानं ततो गतः
ततश् च भारतं वर्षमेतल्लोकेषु गीयते ।
भरताय यतः पित्रा दत्तं प्रातिष्ठता वनम्
सुमतीर्भरतस्याभूत्पुत्रः परमधार्मिकः ।
कृत्वा सम्यग्ददौ तस्मै राज्यमिष्टमखं पिता
पुत्रसंक्रामित श्रीस्तु भरतः स महीपतिः ।
योगाभ्यासरतः प्राणान्सालग्रामे ऽयजन्मुने
अजायत च विप्रोसौ योगीनां प्रवरे कुले ।
मैत्रेय तस्य चरितं कथयिष्यामि ते पुनः
मुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजायत ।
परमेष्ठी ततस्तस्मात्प्रतिहारस्तदन्वयः
प्रतिहर्तेति विख्यात उत्पन्नस्तस्य चात्मजः ।
भवस्तस्मादथोद्गीथः प्रास्तविस्तत्सुतो विभुः
पृथुस्ततस्ततो नक्तो नक्तस्यापि गयः सुतः ।
नरो गयस्य नतयस्तत्पुत्रोभूद्विराट् ततः
तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत ।
महान्तस्तत्सुतश्चाभून्मनस्युस्तस्य चात्मजः
त्पष्टा त्वष्टुश् च विरजो रजस्तस्याप्यभूत्सुतः ।
शतजिद्रजसस्तस्य जज्ञे पुत्रशन्त मुने
विष्वग्ज्योतिप्रधानास्ते यैर् इमा वर्धिताः प्रजाः ।
तैर् इदं भारतं वर्षं नवभेदमलङ्कृतम्
तेषां वंशप्रसूतैश् च भुक्तेयं भारती पुरा ।
कृतत्रेतादिसर्गेण युगाख्यामेकसप्ततिम्
एष स्वायंभुवः सर्गौ येनेदं पूरितं जगत् ।
वाराहे तु मुने कल्पे पूर्वमन्वन्तराधिपः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0