विष्णु पुराण · अध्याय 2.15
इति श्रीविष्णुमहापुराणे द्वितीये ऽंशे चतुर्दशो ऽध्यायः (14)
श्रीपराशर उवाच
श्रीपराशर उवाच
इत्युक्ते मौनिनं भूयश्चिन्तयानं महीपतिम् ।
प्रत्युवाचाथ विप्रोसावद्वैतान्तर्गतां कथाम्
ब्राह्मण उवाच
श्रूयतां नृपशार्दूल यद्गीतमृभुणा पुरा ।
अवबोधं जनयता निदाघस्य महात्मनः
ऋभुनामाभवत्पुत्रो ब्रह्मणः परमेष्ठिनः ।
विज्ञाततत्त्वसद्भावो निसर्गादेव भूपते
तस्य शिष्यो निदाघोभूत्पुलस्त्यतनयः पुरा ।
प्रादादशेषविज्ञानं स तस्मै परया मुदा
अपाप्तज्ञानतन्त्रस्य न तस्याद्वैतवासना ।
स ऋभुस्तर्कयामास निदाघस्य नरेश्वर
देविकायास्तटे वीरनगरं नाम वै पुरम् ।
समृद्दमतिरम्यं च पुलस्त्येन विवेशित्म
रम्योपवनपर्यन्ते स तस्मिन्पार्थिवोत्तम ।
निदाघो नाम योगज्ञ ऋभुशिष्यो ऽवसत् पुरा
दिव्ये वर्षसहस्रे तु समतीतेस्य तत्पुरम् ।
जगाम स ऋभुः शिष्यं निदाघमवलोककः
स तस्य वैश्वदेवान्ते द्वारालोकनगोचरे ।
स्थितस्तेन गृहीतार्घ्यो निजवेश्म प्रवेशितः
प्रक्षालिताङ्घ्रिपाणिं च कृता सनपरिग्रह्म ।
उवाच स द्विजाश्रेष्ठो भुज्यतामिति सादरम्
ऋभुरुवाच
भो विप्रवर्य भोक्तव्यं यदन्नं भवतो गुहे ।
तत्कथ्यतां कदन्नेषु न प्रीतिः सततं मम
निदाघ उवाच
सक्तुयावकवाट्यानामपूपानां च मे गृहे ।
यद्रोचते द्विजश्रेष्ठ तत्त्वं भुक्ष्व यथेच्छया
ऋभुरुवाच
कदन्नानि द्विजौतानि मृष्टमन्नं प्रयच्छ मे ।
संयावपायसादीनि द्रप्सफाणितवन्ति च
निदाघ उवाच
हेहे शालिनि मद्गेहे यत्किञ्चिदतिशोभनम् ।
भक्ष्योपसाधनं मृष्टं तेनास्यान्नं प्रसाधय
ब्राह्मण उवाच
इत्युक्ता तेन सा पत्नीमृष्टमन्नं द्विजस्य यत् ।
प्रसादितवती तद्वै भर्तुर्वचनगौरवात्
तं भुक्तवन्तमिच्छातो मृष्टमन्नं महामुनिम् ।
निदाधः प्राह भूपाल प्रश्रयावनतः स्थितः
निदाघ उवाच
अपिते परमा तृप्तिरुत्पन्ना तुष्टिरेव च ।
अपि ते मानसंस्वस्थमाहारेण कृतं द्विज
क्वनिवासो भवान्विप्र क्व च गन्तुंसमुद्यतः ।
आगम्यते च भवता यतस्तच्च द्विजोच्यताम्
ऋमुरुवाच
क्षुद्यस्य तस्य भुक्तेन्ने तृप्तिर्ब्राह्मण जायते ।
न मे क्षुन्नाभवत्तृप्तिः कस्मान्मां परिपृच्छसि
वह्निना पार्थिवे धातौ क्षपिते क्षुत्समुद्भवः ।
भवत्यम्भसि च क्षीणे नृणां तृडपि जायते
क्षुत्तुष्णे देहधर्माख्ये न ममैते यतो द्विज ।
ततः क्षुत्सम्भवाभावात्तृप्तिरस्त्येव मे सदा
मनसः स्वस्थता तुष्टिश्चित्तधर्माविमौ द्विज ।
चेतसो यस्य तत्पृच्छ पुमान् एभिर् न युज्यते
क्व निवासस्तवेत्युक्तं क्व गन्तासि च यत्त्वाया ।
कुताश्चागम्यते तत्र त्रितयेपि निबोध मेः
पुमान्सर्वगतो व्यापी आकाशवदयं यतः ।
कुतः कुत्र क्व गन्तासीत्ये तदप्यर्थवत्कथम्
सो ऽहं गन्ता न चागन्ता नैकदेशनिकेतनः ।
त्वं चान्ये च न च त्वं च नान्ये नैवाहमप्यहम्
मृष्टं न मृष्टमप्येषा जिज्ञासा मे कृता तव ।
किं वक्ष्यसीति तत्रापि श्रूयतां द्विजसत्तम
किमस्वाद्वथ वा मृष्टं भुञ्जतोस्ति द्विजोत्तम ।
मृष्टमेव यथा मृष्टं तदेवोद्वेगकारकम्
अमृष्टं जायते मृष्टं मृष्टादुद्विजते जनः ।
आदिमध्यावसानेषु किमन्नं रुचिकारकम्
मृण्मयं हि गृहं यद्वन् मृदा लिप्तं स्थिरं भवेत् ।
पर्थिवोयं तथा देहः पार्थिवैः परमाणुभिः
यवगोधूममुद्गादि घृतं तैलं पयो दधि ।
गुडंफलादीनि तथा पार्थिवाः परमाणवः
तदेतद्भवता ज्ञात्वा मृष्टामृष्टविचारि यत् ।
तन्मनःसमतालम्बि कार्यं साम्यं हि मुक्तये
ब्राह्मण उवाच
इत्याकर्ण्य वचस्तस्य परमार्थश्रितं नृप ।
प्रणिपत्य महाभागो निदाघो वाक्यमब्रवीत्
प्रसीद मद्धितार्थाय कथ्यतां यत्त्वमागतः ।
नष्टो मोहस्तवाकर्ण्य वचांस्येतानि मे द्वीज
ऋभुरुवाच
ऋमुरस्मि तवाचार्यः प्रज्ञादानाय ते द्विज ।
इहाग तोहं यास्यामि परमार्थस्तवोदितः
एवमेकमिदं विद्धि न भेदि सकलं जगत् ।
वासुदेवाभिधेयस्य स्वरूपं परमात्मनः
ब्राह्मण उवाच
तथत्युक्त्वा निदाघेन प्रणिपातपुरःसरम् ।
पूजतः परया भक्त्या इच्छातः प्रययाव् ऋभुः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0