विष्णु पुराण · अध्याय 2.14
इति श्रीविष्णुमहापुराणे द्वितीयेंसे त्रयोदशो ऽध्यायः (13)
श्रीपराशर उवाच
निशम्य तस्येति वचः परमार्थसमन्वितम् ।
प्रश्रयावनतो भूत्वा तमाह नृपतिर्द्विजम्
राजोवाच
भगवन्यत्त्वया प्रोक्तं परमार्थमयं वचः ।
श्रुते तस्मिन्भ्रमन्तीव मनसो मम वृत्तयः
एतद्विवेकविज्ञानं यदशेषेषु जन्तुषु ।
भवता दर्शितं विप्रतत्परं प्रकृतेर्महत्
नाहं वहामि शिबिकां शिविका न मयि स्थिता ।
शरीरमन्यदस्मत्तौ योनेयं शिबिका धृता
गुणप्रवृत्त्या भूतानां प्रवृत्तिः कर्मचोदिता ।
प्रवर्तन्ते गुणा ह्येते किं ममेति त्वयोदितम्
एतस्मिन्परमार्थज्ञ मम श्रोत्रपथं गते ।
मनो विह्वलतामेति परमार्थार्थितां गतम्
पूर्वमेव महाभागं कपिलर्षिमहं द्विज ।
प्रष्टुमभ्युद्यतो गत्वा श्रेयः किं त्वत्र शंस मे
तदन्तरे च भवता यदेत द्वाक्यमीरितम् ।
तेनैव परमार्थार्थं त्वयि चेतः प्रधावति
कपिलर्षिर्बागवतः सर्वभूतस्य वै द्विज ।
विष्णोरंशो जगन्मोहनाशायोर्वीमुपागतः
स एव भगवान्नूनमस्माकं हितकाम्यया ।
प्रत्यक्षतामत्र गतो यथैतद्भावतोच्यते
तन्मह्यं प्रणताय त्वं यच्छ्रेयः परमं द्विजः ।
तद्वदाखिल विज्ञानजलवीच्युदधिर्भवान्
ब्राह्मण उवाच
भूप पृच्छसि किं श्रेयः परमार्थं नु पृच्छसि ।
श्रेयांस्यपरमार्थानि अशेषाणि च भूपते
देवताराधनं कृत्वा धनसम्पदमिच्छति ।
पुत्रानिच्छति राज्यं च श्रेयस्तस्यैव तन्नृप
कर्म यज्ञात्मकं श्रेयः फलं तत्प्राप्तिलक्षणम् ।
श्रेयः प्रधानं च फले तदेवानभिसंहिते
आत्मा ध्येयः सदा भुप योगयुक्तैस् तथा परम् ।
श्रेयस्तस्यैव संयोगः श्रेयो यः परमात्मनः
श्रेयांस्येवमनेकानि शतशोय सहस्रसः ।
सन्त्यत्र परमार्थस्तु न त्वेते श्रूयतां च मे
धर्माय त्यज्यते किन्तु परमार्थो धनं यदि ।
व्ययश् च क्रियते कस्मात् कामप्राप्त्युपलक्षणः
पुत्रश्चेत्परमार्थः स्यात्सो ऽप्य् अन्यस्य नरेश्वर ।
परमार्थभूतः सोन्यस्य परमार्थो हि तत्पिता
एवं न परमार्थोस्ति जगत्यस्मिञ्चराचरे ।
परमार्थो हि कार्याणि कारणानामशेषतः
राज्यादिप्राप्तिरत्रोक्ता परमार्थतया यदि ।
परमार्था भवन्त्यत्र न भवन्ति च वै ततः
ऋग्यजुःसामनिष्पाद्यं यज्ञकर्म मतं तव ।
परमार्थभूतं तत्रापि श्रुयतां गदतो मम
यत्तु निष्पाद्यते कार्यं मृदा कारणभूतया ।
तत्कारणानुगमनाज् ज्ञायते नृप मृण्मयम्
एवं विनाशिभिर् द्रव्यैः समिदाज्यकुशादिभिः ।
निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी
अनाशो परमार्थश् च प्राज्ञौरभ्युपगम्यते ।
तत्तु नाशि न सन्देहो नाशिद्रव्योपपादितम्
तदेवाफलदं कर्म परमार्थो मतस्तव ।
मुक्तिसाधनभूतत्वात्परमार्थो न साधनम्
ध्यानं चैवात्मनो भूपु परमार्थार्थशब्दितम् ।
भेदकारि परेभ्यस्तु परमार्थो न भेदवान्
परमात्मात्मनोर्योगः परमार्थ इतीष्यते ।
मिथ्यैतदन्यद्रव्यं हि नैति तद्द्रव्यतां यतः
तस्माच्छ्रेयांस्यशेषाणि नृवैतानि न संशयः ।
परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम
एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः ।
जन्मवृद्ध्यादिरहित आत्मा सर्वगतोव्ययः
परज्ञानमयो सद्भिर् नामजात्यादिभिर् विभुः ।
न योगवान्न युक्तोभून्नैव पार्थिव योक्ष्यते
तस्यात्मपरदेहेषु सतोप्येकमयं हि यत् ।
विज्ञानं परमार्थो ऽसौ द्वैतिनो ऽतथ्यर्शिनः
वेणुरन्ध्रप्रभेदेन भेदः षङ्जादिसंज्ञितः ।
अभेदव्यापिनोवायोस्तथास्य परमात्मनः
एकस्वरूपभेदश् च ब्राह्मकर्मावृतिप्रजः ।
देवादिभेदे ऽपध्वस्तें नास्त्येवावरणे हि सः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0