भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 2.13

2.13.1

इति श्रीविष्णुमहापुराणे द्वितीये ऽंशे द्वादशो ऽध्यायः (12)
मैत्रेय उवाच
भगवन्सम्यगाख्यातं यत्पृष्टोसि मया किल ।
भूसमुद्रादिसरितां संस्थानं ग्रहसं स्थितिः

2.13.2

विष्ण्वाधारं यथा चैतत्त्रैलोक्यं समवस्थितम् ।
परमार्थस्तु ते प्रोक्तो यथाज्ञानं प्रधानतः

2.13.3

यत्त्वेतद्भगवानाह भरतस्य महीपतेः ।
श्रोतुमिच्छमि चरितं तन्ममाख्यातुमर्हसि

2.13.4

भरतः स महीपालः सालग्रामे ऽवसत्किल ।
योगयुक्तः समाधाय वासुदेवे सदा मनः

2.13.5

पुण्येदेशप्रभावेन ध्यायतश् च सदा हरिम् ।
कथं तु नाभवन्मुक्तिर्यदभूत्स द्विजः पुनः

2.13.6

विप्रत्वे च कृतं तेन यद्भूयः सुमहात्मना ।
भरतेन मुनिश्रेष्ठ तत्सर्वं वक्तुमर्हसि

2.13.7

श्रीपराशर उवाच
सालग्रामे महाभागो भगवन्न्यस्तमानसः ।
स उवास चिरं कालं मैत्रेय पृतिवीपतिः

2.13.8

अहिंसादिष्वशेषेषु गुणेषु गुणिनां वरः ।
अवाप परमां काष्ठां मनसश्चापि संयमे

2.13.9

यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।
कृष्ण विष्णो हृषीकेश वासुदेव नमोस्तु ते

2.13.10

इति राजाह भरतो हरेर्नामानि केवलम् ।
नान्यज्जगाद मैत्रेय किञ्चित्स्वप्रान्तरेपि च ।
एतत्पदन्तदर्थं च विना नान्यदचिन्तयत्

2.13.11

समित्पुष्पकुशादानं चक्रे देवक्रियाकृते ।
नान्यानि चक्रे कर्माणि निःसङ्गो योगतापसः

2.13.12

जगाम सोभिषेकार्थमेकदा तु महानदीम् ।
सस्नौ तत्र तदा चक्रे स्नानस्यानन्तरक्रियाः

2.13.13

अथाजगाम तत्तीरं जलं पातुं पिपासिता ।
आसन्नप्रसवा ब्रह्मन्नेकैव हरिणी वनात्

2.13.14

ततः समभवत्तत्र पीतप्राये जले तथा ।
सिंहस्य नादः सुमहान्सर्वप्राणिभयङ्करः

2.13.15

ततः सा सहसा त्रासादाप्लुता निम्नगातटम् ।
अत्युच्चारोहणेनास्या नद्यां गर्भः पपात ह

2.13.16

तमूह्यमानं वेगेन वीचिमालापरिप्लुतम् ।
जग्राह स नृपो गर्भात्पतितं मृगपोतकम्

2.13.17

गर्भप्रच्युतिदोषेण प्रोत्तुङ्गाक्रमणेन च ।
मैत्रेय सापि हरिणी पपात च ममार च

2.13.18

हरिणीं तां विलोक्याथ विपन्नां तृपतापसः ।
मृगपोतं समादाय निजमाश्रममागतः

2.13.19

चकारानुदिनं चासौ मृगपोतस्य वै नृपः ।
पोषणं पुष्यमाणश् च स तेन ववृधे मुने

2.13.20

चचाराश्रमपर्यन्ते तृणानि गहनेषु सः ।
द्वरं गत्वा च शार्दुलत्रासादभ्याययौ पुनः

2.13.21

प्रातर्गत्वातिदूरं च सायमायात्यथाश्रमम् ।
पुनश् च भरतस्यभूदाश्रमस्योटजाजिरे

2.13.22

तस्य तस्मिन्मृगे दूरसमीपपरिवर्तिनि ।
आसीच्चेतः समासक्तं न ययावन्यतो द्विज

2.13.23

विमुक्तराज्यतनयः प्रोज्झिताशेषबान्धवः ।
ममत्वं स चकारोच्चैस् तस्मिन्हरिणबालके

2.13.24

किं वृकैर् भक्षितो व्यघ्रैः किं सिंहेन निपातितः ।
चिरायमाणे निष्क्रान्ते तस्यासीदिति मानसम्

2.13.25

एषा वसुमती तस्य खुराग्रक्षतकर्बुरा

2.13.26

प्रीतये मम जातोसौ क्व ममैणकबालकः ।
विषामाग्रोण मद्बाहुं कण्डूयनपरो हि सः ।
क्षेमेणाभ्यागतोरण्यादपि मां सुखयिष्यति

2.13.27

एते लूनशिखास्तस्य दशनैर् अचिरोद्गतैः ।
कुशाः काशा विराजन्ते बटवः सामागा इव

2.13.28

इत्थं चिरगते तस्मिन्स चक्रे मानसं मुनिः ।
प्रीतिप्रसन्नवदनः पार्श्वस्थे चाभवन्मृगे

2.13.29

समाधिभङ्गस्तस्यासीत्तन्मयत्वादृतात्मनः ।
सन्त्यक्तराज्यभोगर्धिस्वजनस्यापि भूपतेः

2.13.30

चपलं चपले तस्मिन्दूरगं दूरगामिनि ।
मृगपोते ऽभवच्चित्तं स्तैर्यवत्तस्य भूपतेः

2.13.31

कालेन गच्छता सो ऽथ कालं चक्रे महीपतिः ।
पितेव सास्त्रं पुत्रेण मृगपोतेन वीक्षितः

2.13.32

मृगमेव तदाद्राक्षीत्त्यजन्प्राणानसावपि ।
तन्मयत्वेन मैत्रेय नान्यत्किञ्चिदचिन्तयत्

2.13.33

ततश् च तत्कालकृतां भावनां प्राप्य तादृशीम् ।
जम्बूमार्गे महारण्ये जातो जातिस्मरोमृगः

2.13.34

जातिस्मरत्वदुद्विग्नः संसारस्य द्विजोत्तम ।
विहाय मातरं भूयः सालग्राममुपाययो

2.13.35

शुष्कैस् तृणैस् तथा पर्णैः स कुर्वन्न् आत्मपोषणम् ।
मृगत्वहेतुभूतस्य कर्मणो निष्कृतिं ययौ

2.13.36

तत्र चोत्सृष्टदेहो ऽसौ जज्ञे जातिस्मरो द्विजः ।
सदाचारवतांशुद्धे योगिनां प्रवरे कुले

2.13.37

सर्वविज्ञानसंपन्नः सर्वशास्त्रर्थतत्त्ववित् ।
अपश्यत्य च मैत्रेय आत्मानं प्रकृतेः परम्

2.13.38

आत्मनो ऽधिगतज्ञानो देवादीनि महामुने ।
सर्वभूतान्यभेदेन स ददर्श तदात्मनः

2.13.39

न पपाठ गुरुप्रोक्तं कृतोपनयनः श्रुतिम् ।
न ददर्श च कर्माणि शास्त्राणि जगृहे न च

2.13.40

उक्तोपि बहुशः किञ्चिज्जडवाक्यमभाषत ।
तदप्यसंस्कारगुणं ग्राम्यवाक्योक्तिसंश्रितम्

2.13.41

अपध्वस्तवपुः सो ऽपि मलिनाम्बरग्द्विजः ।
क्लिन्नदन्तान्तरः सर्वैः परिभूतः स नागरैः

2.13.42

संमाननापरां हानिं योगर्धः कुरुते यतः ।
जनेनावमतो योगी योगसिद्धं च विन्दति

2.13.43

तस्माच्चरेत वै योगी सतां धर्ममदूषयन् ।
जना यथा वमन्येरन्गच्छेयुर्नैव सङ्गतिम्

2.13.44

हिरण्यगर्भवचनं विचिन्त्येत्थं महामतिः ।
आत्मानं दर्शयामास जडोन्मत्ताकृतिं जने

2.13.45

भुक्ते कुल्माषवाट्यादिशाकं वन्यं फलं कणान् ।
यद्यदाप्नोति सुबहु तदत्ते कालसंयमम्

2.13.46

पितर्युपरते सो ऽथ भ्रातृभ्रातृव्यबान्धवैः ।
कारितः क्षेत्रकर्मादिकदन्नाहारपोषितः

2.13.47

समाक्षपीनावयवो जडकारी च कर्मणि ।
सर्वलोकोपकरणं बभूवाहारचेतनः

2.13.48

तं तादृशमसंस्कारं विप्राकृतिविचेष्टितम् ।
क्षत्तासौवीरराजस्य काल्यै पशुमकल्पयत्

2.13.49

रात्रौ तं समलङ्कृत्य वैशसस्य विधानतः ।
अधिष्ठितं महाकाली ज्ञात्वा योगेश्वरं तथा

2.13.50

ततः खङ्गं समादाय निशितं निशि सा तथा ।
क्षत्तारं क्रूरकर्माणमच्छिनत्कण्ठमूलतः ।
स्वपार्षदयुता देवी पपौ रुधिरमुल्बणम्

2.13.51

ततःसौवीरराजस्य प्रयातस्य महात्मनः ।
विष्टकर्ताथ मन्येत विष्टियोग्योयमित्यपि

2.13.52

तं तादृशं महात्मानं भस्मच्छन्नमिवानलम् ।
क्षत्ता सौवीरराजस्य विष्टियोग्यममन्यत

2.13.53

स राजा शिबिकारूढो गन्तुं कृतमतिर्द्विज ।
बभूवेक्षुमतीतीरे कपिलर्षेर् वराश्रमम्

2.13.54

श्रेयः किमत्र संसारे दुःखप्राये नृणामिति ।
प्रष्टुं तं मोक्षधर्मज्ञं कपिलाख्यं महामुनिम्

2.13.55

उवाह शिबिकां तस्य क्षत्तुर्वचनचोदितः ।
नृणां विष्टिगृहीतानामन्येषां सो ऽपि मध्यगः

2.13.56

गृहीतो विष्टिना विप्रः सर्वज्ञानैकभाजनम् ।
जातिस्मरोसौ पपास्य क्षयकाम उवाह ताम्

2.13.57

ययौ जडमतिः सोथ मृगमात्रावलोकनम् ।
कुर्वन्मतिमतां श्रष्ठस्तदन्ये त्वरितं ययुः

2.13.58

विलोक्य नृपतिः सोथ विषमां शिबिकागतिम् ।
किमेतदित्याह समं गम्यतां शिबिकावहाः

2.13.59

पुनस्तथैव शिबिकं विलोक्य विषमां हि सः ।
नृपः किमेतदित्याह भवद्भिर् गम्यतेन्यथा

2.13.60

भूपतेर्वदतस्तस्य श्रुत्वेत्थंबहुशो वचः ।
शिबिकावाहकाः प्रोजुरयं यातीत्यसत्वरम्

2.13.61

राजोवाच
किं श्रिन्तोस्यल्पमध्वानं त्वयोढा शिबिका मम ।
किमाया ससहो न त्वं पीवानसि निरीक्ष्यसे

2.13.62

ब्राह्मण उवाच
नाहं पीवा न चैवोढा शिबिका भवतो मया ।
न श्रान्तोस्मि न चायासो सोढव्योस्ति महीपते

2.13.63

राजोवाच
प्रत्यक्षं दृश्यसे पीवानद्यापि शिबिका त्वयि ।
श्रमश् च भारोद्वहने भवत्येव हि देहिनाम्

2.13.64

ब्रह्मण उवाच
प्रत्यक्षं भवता भूप यद्दृष्टं मम तद्वद ।
बलवानबलश्चेति वाच्यं पश्चाद्विशेषणम्

2.13.65

त्वयोढा शिबिका चेति त्वय्यद्यापि च संस्थिता ।
मिथ्यैतदत्र तु भवाञ्छृणोतु वचनं मम

2.13.66

भूमौ पादयुगं त्वास्ते जङ्घे पादद्वये स्थिते ।
ऊर्वोर्जङ्घाद्वयावस्थौ तदाधारं तथोदरम्

2.13.67

वक्षस्थलं तथा बाहू स्कन्धौ चोदरसंस्थितौ ।
स्कन्धाश्रितेयं शिबिका मम भारोत्र किं कृतः

2.13.68

शिबिकायां स्थितं चेदं वपुस्त्वदुपलक्षितम् ।
तत्र त्वमहमप्यत्र प्रोज्यते चेदमन्यथा

2.13.69

अहं त्वं च तथान्ये च भूतैर् उह्याम पर्थिव ।
गुणप्रवाहपतितो भूतवर्गौपि यात्ययम्

2.13.70

कर्मवश्या गुणश्चैते सत्त्वाद्याः पृथिवीपते ।
अविद्यासंचितं कर्म तच्चासेषेषु जन्तुषु

2.13.71

आत्मा शुद्धोक्षरः शान्तो निर्गुणः प्रकृतेः परः ।
प्रवृद्ध्यपचयौ नास्य एकस्याखिलजन्तुषु

2.13.72

यदा नोपचयस्तस्य न चैवापचयो नृप ।
तदा पीवानसीतीत्थं कया युक्त्या त्वयेरितम्

2.13.73

भूपादजङ्घाकट्यूरुजठरादिषु संस्थिते ।
शिबिकेयं यथा स्कन्धे तथा भारः समस्त्वया

2.13.74

तथान्यैर् जन्तुभिर् भूप शिबिकोढा न केवलम् ।
शैलद्रुमगृहोत्थोपि पृथिवी संभवोपि वा

2.13.75

यदा पुंसः सृथग्भावः प्राकृतैः कारणेर्नृप ।
सोढव्यस्तु तदायासः कथं वा नृपते मया

2.13.76

यद्द्रव्या शिबिका चेयं तद्द्रव्यो भूतसंग्रहः ।
भवतो मे ऽकिलस्यास्य ममत्वेनोपबृंहितः

2.13.77

श्रीपारशर उवाच
एवमुक्त्वाभवन्मौनी स वहञ्छिबिकां द्विज ।
सो ऽपि राजावतीर्योव्यां तत्पादौ जगृहे त्वरन्

2.13.78

राजोवाच
भोभोविसृज्य शिबिकां प्रसादं कुरु मे द्विजः ।
कथ्यतां को भवानत्र जाल्मरूपधरः स्थितः

2.13.79

यो भवान्यन्निमित्तं वा यदागमनकारणम् ।
तत्सर्वं कथ्यतां विद्वन्मह्यं शुश्रूषवे त्वया

2.13.80

ब्रह्मण उवाच
श्रूयतां सोहमित्येतद्वक्तुं भूप न शक्यते ।
उपभोगनिमित्तं च सर्वत्रागमनक्रिया

2.13.81

सुखदुःखोपभोगौ तु तौ देहाद्युपपादकौ ।
धर्माधर्मोद्भवौ भोक्तुं जन्तुर्देहादिमृच्छति

2.13.82

सर्वस्यैव हि भूपाल जन्तोः सर्वत्र कारणम् ।
धर्माधर्मौ यतः कस्मात्कारणं पृच्छते त्वया

2.13.83

राजोवाच
धर्माधर्मौ न सन्देहःसर्वकार्येषु कारणम् ।
उपभोगनिमित्तं च देहाद्देहान्तरागमः

2.13.84

यस्त्वेतद्भवता प्रोक्तं सोहमित्येतदात्मनः ।
वक्तुं न सक्यते श्रोतुं तन्ममेच्छा प्रवर्तते

2.13.85

योस्ति सोहमिति ब्रह्मन्कथं वक्तुं न शक्यते ।
आत्मन्येष न दोषाय शब्दोहमिति यो द्विज

2.13.86

ब्राह्मण उवाच
शब्दोहमिति दोषाय नात्मन्येष तथैव तत् ।
अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः

2.13.87

जिह्वा ब्रवीत्यहमिति दन्तोष्ठौ तालुके नृप ।
एतेनाहं यतः सर्वे वाङ्निष्पादनहेतवः

2.13.88

किं हेतुभिर् वदत्येषा वागेवाहमिति स्वयम् ।
अतः पीवानसीत्येतद् वक्तुम् इत्थं न युज्यते

2.13.89

पिण्डः पृथग्यतः पुंसः शिरः पाण्यादिलक्षणः ।
ततोहमिति कुत्रैतां संज्ञां राजन्करोम्यहम्

2.13.90

यद्यन्योस्ति परः कोपि मत्तः पार्थिवसत्तम ।
तदैषोहमयं चान्यो वक्तुमेवमपीष्यते

2.13.91

यदा समस्तदेहेषु पुमानेको व्यवस्थितः ।
तदा हि को भवान्सोहमित्येतद्विफलं वचः

2.13.92

त्वं राजा शिबिका चेयमिमे वाहाः पुरः सराः ।
अयं च भवतो लोको न सदेतन्नृपोच्यते

2.13.93

वृक्षाद्दारु ततश्चेयं शिबिका त्वदधिष्ठिता ।
किं वृक्षसंज्ञा वास्याः स्याद्दारुसंज्ञाथ वा नृप

2.13.94

वृक्षारूढो महाराजो नायं वदति ते जनः ।
न च दारुणि सर्वस्त्वां ब्रवीतिशिबिकागतम्

2.13.95

शिबिकादारुसंघातो रचनास्थितिसंस्थितः ।
अन्विष्यतां नृपश्रेष्ठ तद्भेदे शिबिका त्वया

2.13.96

एवं छत्रशलाकानां पृथग्भावे विमृश्यताम् ।
क्व यातं छत्रमित्येतन्न्यायस्त्वयि तथा मयि

2.13.97

पुमांस्त्रीगौरजो वाजी कुञ्जरो विहगस्तरुः ।
देहेषुलोकसंज्ञेयं विज्ञेया कर्महेतुषु

2.13.98

पुमान्न देवो न नरो न पशुर्न च पादपः ।
शरीराकृतिभेदास्तु भूपैते कर्मयोनयः

2.13.99

वस्तु राजेति यल्लोके यच्च राजभटात्मकम् ।
तथान्यच्च नृपेत्थं तन्न सत्संकल्पनामयम्

2.13.100

यत्तु कालान्तेरेणापि नान्यां संज्ञामुपैति वै ।
परिणामादिसंभूतां तद्वस्तु नृप तच्च किम्

2.13.101

त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपो रिपुः ।
पत्न्याः पतिः पिता सूनोः किं त्वं भूपवदाम्यहम्

2.13.102

त्वं किमेतच्छिरः किं नु ग्रीवा तव तथोदरम् ।
किमु पादादिकं त्वं वा तवैतत्किं महीपते

2.13.103

समस्तावयवेभ्यस्त्वं पृथग्भूय व्यवस्थितः ।
को ऽहमित्यत्र निपुणो भूत्वा चिन्तय पर्थिव

2.13.104

एवं व्यवस्थिते तत्त्वे मयाहमिति भाषितुम् ।
पृथक्करणनिष्पाद्यं शक्यते नृपते कथम्

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc