भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 2.12

2.12.1

इति श्रीविष्णुमहापुराणे द्वितीयेंश एकादशो ऽध्यायः (11)
श्रीपराशर उवाच
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः ।
वामदक्षिणतो युक्ता दशतेन चरत्यसौ

2.12.2

वीथ्याश्रयाणि ऋक्षाणि ध्रुवाधारेण वेगिना ।
ह्रासवृद्धिक्रमस्तस्य रश्मीनां सवितुर्यथा

2.12.3

अर्कस्येव हि तस्याश्वाः सकृद्युक्ता वहन्ति ते ।
कल्पमेकं मुनिश्रेष्ठ वारीगर्भसमुद्भवाः

2.12.4

क्षीणं पीतं सुरैः सोममाप्याययति दीप्तिमान् ।
मैत्रेयैककलं सन्तं रश्मिनैकेन भास्करः

2.12.5

क्रमेण येन पीतो ऽसौ देवैस् तेन निशाकरम् ।
आप्याययत्यनुदिनं भास्करो वारितस्करः

2.12.6

संभृतं चार्धमासेन तत्सोमस्थं सुधामृतम् ।
पिबन्दि देवा मैत्रेय सुधाहारा यतो ऽमराः

2.12.7

त्रयास्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च ।
त्रयस्त्रिंशत्तथा देवाः पिबन्ति क्षणदाकरम्

2.12.8

कलाद्वयाविशिष्टस्तु प्रविष्टः सूर्यमण्डलम् ।
अमाख्यारश्मौ वसति अमावास्या ततः स्मृता

2.12.9

अप्सु तस्मिन्नहोरात्रे पूर्वम् विशति चन्द्रमाः ।
ततो वीरुत्सु वसति प्रयात्यर्कं ततः क्रमात्

2.12.10

छिनत्ति विरुधो यस्तु वीरुत्संस्थे निशाकरे ।
पत्रं वा पातयत्येकं ब्रह्महत्यां स विन्दति

2.12.11

सोमं पञ्चदशे भागे किञ्चिच्छिष्टे कलात्मके ।
अपाराह्ने पितृगणाजघन्यं पर्युपासते

2.12.12

पिबन्ति द्विकलाकारं शिष्टा तस्य कला तु या ।
सुधामृतमयी पुण्या तामिन्दोः पितरो मुने

2.12.13

निःसृतन्तदमावास्यां गभस्तिभ्यः सुधामृतम् ।
मासं तृप्तिमवाप्याग्र्यां पितरः सन्ति निर्वृताः ।
सौम्या बर्हिषदश्चैव अग्निष्वात्ताश् च ते त्रिधा

2.12.14

एवं देवान् सिते पक्षे कृष्णपक्षे तथा पितॄन् ।
वीरुधश्चामृतमयैः शीतैर् अप्परमाणुभिः

2.12.15

वीरुधौषधिनिष्पत्त्या मनुष्यपशुकीटकान् ।
आप्याययति शीतांशुः प्राकाश्याह्लादनेन तु

2.12.16

वाय्वग्निद्रव्यसंभूतो रथश्चन्द्रसुतस्य च ।
पिशङ्गैस् तुरगैर् युक्तः सो ऽष्टाभिर् वायुवेगिभिः

2.12.17

सवरूथः सानुकर्षो युक्तो भूसंभवैर् हयैः ।
सोपासंगपताकस्तु शुक्रस्यापि रथो महान्

2.12.18

अष्टाश्वः काञ्चनः श्रीमान्भौमस्यापि रथो महान् ।
पद्मरागारुणैर् अश्वैः संयुक्तो वह्निसम्भवैः

2.12.19

अष्टाभिः पाण्डुरैर् युक्तो वाजिभिः काञ्चनोरथः ।
तस्मिंस्तिष्ठति वर्षान्ते राशौराशौ वृहस्पतिः

2.12.20

आकाशसम्भवैर् अश्वैः शबलैः स्यन्दनं युतम् ।
तमारुह्य शनैर् याति मन्दगामीशनैश्चरः

2.12.21

स्वर्भानोस्तुरगा ह्यष्टौ भृङ्गाभा धूसरं रथम् ।
सकृद्युक्तास्तु मैत्रेय वहन्त्यविरतं सदा

2.12.22

आदित्यान्निःसृतो राहुः सोमं गच्छति पर्वसु ।
आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु

2.12.23

तथा केतुरथस्याश्वा अप्यष्टौ वातरंहसः ।
पलालधूमवर्णाभा लाक्षारसनिभारुणाः

2.12.24

एते मया ग्रहाणां वै तवाख्याता रथा नव ।
सर्वे ध्रुवे महाभाग प्रबद्धा वायुरश्मिभिः

2.12.25

ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धान्यशेषतः ।
भ्रमन्त्युचितचारेण मैत्रेयानिलरश्मिभिः

2.12.26

यावान्त्यश्चैव तारास्ता तावन्तो वातरश्मयः ।
सर्वे ध्रुवे निबद्धास्ते भ्रमन्तो भ्रामयन्ति तम्

2.12.27

तैलपीडा यथा चक्रं भ्रमन्तो भ्रामयन्ति वै ।
तथा भ्रमन्ति ज्योतींषि वातविद्धानि सर्वशः

2.12.28

अलातचक्रवद्यान्ति वातचक्रेरितानि तु ।
यस्मज्योतींषि वहति प्रवहस्तेन स स्मृतः

2.12.29

शिशुमारस्तु यः प्रोक्तः स ध्रुवो यत्र तिष्ठति ।
सन्निवेशं च तस्यापि शृणुष्व मुनिसत्तम

2.12.30

यदह्ना कुरुते पापं तं दृष्ट्वा निशि मुच्यते ।
यावन्त्यश्चैव तारास्ताः शिशुमाराश्रिता दिवि ।
तावन्त्येव तु वर्षाणि जीवत्यभ्यधिकानिच

2.12.31

उत्तानपादस्तस्याधो विज्ञेयो ह्युत्तरो हनुः ।
यज्ञो ऽधरश् च विज्ञेयो धर्मो मूर्धानमाश्रितः

2.12.32

हृदि नारायणश्चास्ते अश्विनौ पूर्वपादयोः ।
वरुणश्चार्यमा चैव पश्चिमे तस्य सक्थिनी

2.12.33

शिश्रः संवत्सरस्तस्य मित्रो ऽपानं समाश्रितः

2.12.34

पुच्छेग्निश् च महेन्द्रश् च कस्यपोथ ततो ध्रुवः ।
तारका शिशुमारस्य नास्तमेति चतुष्टयम्

2.12.35

इत्येष सन्निवेशो ऽयं पृथिव्या ज्योतिषां तथा ।
द्वीपानामुदधीनां च पर्वतानां च कीर्तितः

2.12.36

वर्षाणां च नदीनां च ये च तेषु वसन्ति वै ।
तेषां स्वरूपमाख्यातं संक्षेपः श्रुयतां पुनः

2.12.37

यदम्बु वैष्णवः कायस्ततो विप्र वसुन्धरा ।
पद्माकारा समुद्भूता पर्वताब्ध्यादिसंयुता

2.12.38

ज्योतीषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश् च ।
नद्यः समुद्राश् च स एव सर्वं यदस्ति यन्नास्ति च विप्रवर्य

2.12.39

ज्ञानस्वरूपो भगवान्यतोसा वशेषमूर्तिर्न तु वस्तुभूतः ।
ततो हि शैलब्धिधरादिभेदाञ्जानीहि विज्ञानविजृम्भितानि

2.12.40

यदा तु शुद्धं निजरूपि सर्वं कर्मक्षये ज्ञानमपास्तदोषम् ।
तदा हि संकल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तुभेदाः

2.12.41

वस्त्वस्ति किं कुत्राचिदादिमध्यपर्यन्तहीनं सततैकरूपम् ।
यच्चान्यथात्वं द्विज याति भूयो न तत्तथा तत्र कुतो हि तत्त्वम्

2.12.42

मही घटत्वं घटतः कपालिका कपालिकाचूर्णरजस्ततो ऽणुः ।
जनैः स्वकर्मस्तिमितात्मनिश्चयैर् आलक्ष्यते ब्रूहि किमत्र वस्तु

2.12.43

तस्मान् न विज्ञानम् ऋते ऽस्ति किंचित् क्वचित् कदाचिद् द्विज वस्तुजातम् ।
विज्ञानम् एकं निजकर्मभेदविभिन्नचित्तेर् बहुधाभ्युपेतम्

2.12.44

ज्ञानं विशुद्धं विमलं विशो कमशेषलोभादिनिरस्तसङ्गम् ।
एकं सदैकं परमः स वासुदेवो न यतो ऽन्यदस्ति

2.12.45

सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमस्तयत्यमन्यत् ।
एतत्तु यत्संव्यवहारभूतं तत्रापि चोक्तं भुवनाश्रितं ते

2.12.46

यज्ञः पशुर्वह्निरशेषऋत्विक्सोमः सुराः स्वर्गमयश् च कामः ।
इत्यादिकर्माश्रितमार्गदृष्टं भूरादिभोगाश् च फलानि तेषाम्

2.12.47

यच्चैतद्भुवनगतं मया तवोक्तं सर्वत्र व्रजति हि तत्र कर्मवश्यः ।
ज्ञात्वैवं ध्रुवमचलं सदैकरूपं तत्कुर्याद्विशति हि येन वासुदेवम्

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc