विष्णु पुराण · अध्याय 2.11
इति क्षिविष्णुमहापुराणे द्वितीये ऽंशे दशमो ऽध्यायः (10)
मैत्रेय उवाच
यदेतद्भगवानाह गणः सप्तविधो रवेः ।
मण्डले हिमतापादेः कारणं तन्मया श्रुतम्
व्यापारश्चापिकथितो गन्धर्वोरगरक्षसाम् ।
ऋषीणां वालखिल्यानां तथैवाप्सरसां गुरो
यक्षाणां च रथे भानोर्विष्णुशक्तिधृतात्मनाम् ।
किं चादित्यस्य यत्कर्म तन्नात्रोक्तं त्वया मुने
यदि सप्तगणो वारि हिममुष्णं च वर्षति ।
तत्किमत्र रवेर्येन वृष्टिः सूर्यादितीर्यते
विवस्वानुदितो मध्ये यात्यस्तमिति किं जनः ।
ब्रवीत्येतत्समं कर्म यदि सप्तगणस्य तत्
पराशर उवाच
मैत्रेयश्रूयतामेतद्यद्भवान्परिपृच्चति ।
यथा सप्तगणोप्येकः प्राधान्येनाधिको रविः
सर्वशक्तिः परा विष्णो ऋग्यजुःसामसंज्ञिता ।
सैषात्रयी तपत्यंहो जगतश् च हिनस्ति या
सैष विष्णुः स्थितः स्थित्यां जगतः पालनोद्यतः ।
ऋग्यजुः सामभूतोन्तः सवितुर्द्विजतिष्ठति
मासिमासि रविर्योयस्तत्र तत्र हि सा परा ।
त्रयीमयी विष्णुशक्तिरवस्थानं करोति वै
ऋचस्तुवन्तिः पूर्वाह्ने मध्याह्नेथ यजूंषि वै ।
बृहद्रथन्तरादीनि सामान्यह्नः क्षये रविम्
अङ्गमेषा त्रयी विष्णो ऋग्यजुः सामसंज्ञिता ।
विष्णुशक्तिरवस्थानं सदादित्ये करोति सा
न केवलं रवेः शक्तिर्वैष्णवी सा त्रयीमयी ।
ब्रह्माथ पुरुषो रुद्रस्त्रयमेतत्त्रयीमयम्
सर्गादौ ऋङ्मयो ब्रह्मा स्थितौ विष्णुर्यजुर्मयः ।
रुद्रः साममयोन्ताय तस्मात्तस्याशुचिर्थ्वनिः
एवं सा सात्त्विकी शक्तिर्वैष्णवी या त्रयीमयी ।
आत्मसप्तगणस्थं तं भास्वन्तमधितिष्ठति
तया चाधिष्ठितः सो ऽपि जाज्वलीति स्वरश्मिभिः ।
तमः समस्तजगतां नाशंनयति चाखिलम्
स्तुवन्ति चैनं मुनयो गन्धर्वैर् गीयते पुरः ।
नृत्यन्त्यो ऽप्सरसो यान्ति तस्य चानु निशाचराः
वहन्ति पन्नगा यक्षैः क्रियते ऽभीषुसंग्रहः ।
वालखिल्यास्तथैवैनं परिवार्य समासते
नोदेता नास्तमेता च कदाचिच्छक्तिरूपधृक् ।
विष्णुर्विष्णोः पृथक् तस्य गणाःसप्तविधो ऽप्ययम्
स्तम्भस्थदर्पणस्येव यो ऽयमासन्नतां गतः ।
छायादर्शनसंयोगं स तं प्राप्नोत्यथात्मनः
एवं सा वैष्णवी शक्तिर्नैवापैति ततो द्विज ।
मासानुमासं भास्वन्तमध्यास्ते तत्र संस्थितम्
पितृदेवमनुष्यादीन्स सदाप्याययन्प्रभुः ।
परिवर्तत्यहोरात्रकारणं सविता द्वज
सूर्यरश्मिसुषुम्णायस्तर्पितस्तेन चन्द्रमाः ।
कृष्णपक्षेमरैः शश्वत्पीयते वै सुधामयः
पीतं तं द्विकलं सोमं कृष्णपक्षक्षये द्विज ।
पिबन्ति पतरस्तेषां भास्करात्तर्पमं तथा
आदत्ते रश्मिभिर् यंतु क्षितिसंस्थं रसं रविः ।
तमुत्सृजति भूतानां पुष्ट्यर्थं सस्यवृद्धये
तेन प्रीणात्यशेषाणि भूतानि भगवान्रविः ।
पितृदेवमनुष्यादीनेवमाप्याययत्यसौ
पक्षतृप्तिं तु देवानां पितॄणां चैव मासिकीम् ।
शश्वत्तृप्तिं च मर्त्यानां मैत्रेयार्कः प्रयच्छति
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0