भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 2.10

2.10.1

इति श्रीविष्णुमहापुराणे द्वितीये ऽंशे नवमो ऽध्यायः (9)
श्रीपराशर उवाच
त्र्यशीतिमण्डलशतं काष्ठयोरन्तरं द्वयोः ।
आरोहणावरोहाभ्यां भानोरब्देन या गतिः

2.10.2

स रथोधिष्ठितो देवैर् आदित्यै ऋषिभिस् तथा ।
गन्धर्वैर् अप्सरोभिश् च ग्रामणीसर्पराक्षसैः

2.10.3

धाता क्रतुस्थला चैव पुलस्त्यो बासुकिस् तथा ।
रथभृद्ग्रामणीर्हेतिस्तुम्बुरुश्चैव सप्तमः

2.10.4

एते वसन्ति वै चैत्रे मधुमासे सदैव हि ।
मैत्रेय स्यन्दने भानोः सप्तमासाधिकारिणः

2.10.5

अर्यमा पुलहश्चैव रथौजाः पुञ्चिकस्थला ।
प्रहेतिः कच्छवीरश्व नारदश् च रथे रवेः

2.10.6

माधवे निवसन्त्येते शुचिसंज्ञे निबोध मे

2.10.7

मित्रोत्रिस्तक्षको रक्षः पौरुषेयोथ मेनका ।
हाहा रथस्वनश्चैव मैत्रेयैते वसन्ति वै

2.10.8

वरुणो वसिष्ठो रम्भा च सहजन्या हुहूरथः ।
रथचित्रस् तथा शुक्रे वसन्त्याषाढसंज्ञके

2.10.9

इन्द्रो विश्वावसुः स्रोता एलापुत्रस्तथाङ्गिराः ।
प्रम्लोचा च न भस्येते सप्तिश्चार्के वसन्ति वै

2.10.10

विवस्वानुग्रसेनश् च भृगुरापूरणस् तथा ।
अनुम्लोचा शङ्खपालो व्याघ्रो भाद्रपदे तथा

2.10.11

पूषा च सुरुचिर्वातो गौतमोथ धनञ्जयः ।
सुषेणो ऽन्यो घृताची च वसन्त्याश्वयुजे रवौ

2.10.12

विश्वावसुर्भरद्वाजः पर्जन्यैर् आवतौ तथा ।
विश्वाची सेनजिच्चापि कार्त्तिके च वसन्ति वै

2.10.13

अंशः काश्यपतार्क्ष्यास्तु महापद्मस्तथोर्वशी ।
चित्रसेनस् तथा विद्युन्मार्गशीर्षेधिकारिणः

2.10.14

क्रतुर्भगस्ततोर्णायुः स्फूर्जः कार्कोटकस् तथा ।
अरिष्टनेमिश्चैवान्या पूर्वाचित्तिर्वराप्सराः

2.10.15

पौषमासे वसन्त्येते सप्तभास्करमणाले ।
लोकप्रकाशनार्थाय विग्रवर्याधिकारिणः

2.10.16

त्वष्टाथ जमदग्निश् च कम्बलोभ तिलोत्तमा ।
ब्रह्मोपेतोथ ऋतजिद्धृतराष्ट्रोथ सप्तमः

2.10.17

माघमासे वसन्त्त्येते सप्त मैत्रेय भास्करे ।
श्रूयतां चापरे सूर्ये फाल्गुनेनिवसन्ति यो

2.10.18

विष्णुरश्वतरो रम्भा सूर्यवर्चाश् च सत्यजित् ।
विश्वामित्रस् तथा रक्षो यज्ञोपेतो महामुने

2.10.19

मासेष्वेतेषु मैत्रेय वसन्त्येते तु सप्तकाः ।
सवितुर्मण्डले ब्रह्मन्विष्णुसक्त्युपबृंहिताः

2.10.20

स्तुवन्ति मुनयः सूर्यं गन्धर्वैर् गीयते पुरः ।
नृत्यन्त्यप्सरसो यान्ति सूर्यस्यानुनिशाचराः

2.10.21

वहन्ति पन्नगा यक्षैः क्रियते ऽभीषुसंग्रहः

2.10.22

वालखित्यास्तथैवैनं परिवार्य समासते

2.10.23

सोयं सप्तगणः सूर्यमण्डले मुनिसत्तम ।
हिमोष्णवारिवृष्टीनां हेतुः स्वसमयं गतः

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc