विष्णु पुराण · अध्याय 2.9
इति श्रीविष्णुमहापुराणे द्वितीये ऽंशे ऽष्टमो ऽध्यायः (8)
श्रीपारशर उवाच
तारामयं भगवतः शिशुमाराकृति प्रभोः ।
दिवि रूपं हरेर् यत्तु तस्य पुच्छे स्थितो ध्रुवः
सैष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहान् ।
भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत्
सूर्याचन्द्रमसौ तारा नक्षत्रामि ग्रहैः सह ।
वातानीकमयैर् बन्धैर् ध्रुवे बद्धानि तानि वै
शिशुमाराकृति प्रोक्तं यद्रूपं ज्योतिषां दिवि ।
नारायणो ऽयनं धाम्नां तस्याधारः स्वयं हृदि
उत्तानपादपुत्रस्तु तमाराध्य जगत्पतिम् ।
स तारा शिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः
आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः ।
ध्रुवस्य शिशुमारस्तु ध्रुवे भानुर्व्यवस्थितः
तदाधारं जगच्चेदं सदेवासुरमानुषम्
येन विप्रविधानेन तन्ममैकमनाः शृणु ।
विवस्वानष्टभिर् मासैर् आदायापो रसात्मिकाः ।
वर्षत्यम्बुततश्चान्नमन्नादप्यखिलं जगत्
विवस्वानंशुभिस् तीक्ष्णैर् आदाय जगतो जतम् ।
सोमं पुष्मात्यथेन्दुश् च वायुनाडीमयैर् दिवि ।
नालैर् विक्षिपते ऽभ्रेषु धूमाग्न्यनिलमूर्तिषु
न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः ।
अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः ।
संस्कारं कांलजनितं मैत्रेयासाद्य निर्मलाः
सरित्समुद्रभोमास्तु तथापः प्राणिसम्भवाः ।
चतुष्प्रकारा भगवानादत्ते सविता मुने
आकाशगङ्गासलिलं तथादायगभस्तिमान् ।
अनभ्रगतमेवोर्व्यां सद्यः क्षिपति रश्मिभिः
तस्य संस्पर्शनिर्धूतपापपङ्को द्विजोत्तम ।
न याति नरकं मर्त्यो दिव्यं स्नानं हि तत्स्मृतम्
दृष्टसूर्यं हि यद्वारि पतत्यभ्रैर् विना दिवः ।
आकाशगङ्गासलिलं तद्गोभिः क्षिप्यते रवेः
कृत्तिकादिषु ऋक्षेषु विषमेषु च यद्दिवः ।
दृष्टार्कपतितं ज्ञेयं तद्गाङ्गं दिग्गजोज्झितम्
युग्मर्क्षेषु च यत्तोयं पतत्यर्कोज्झितं दिवः ।
तत्सूर्यरश्मिभिः सर्वं समादाय निरस्यते
उभयं पुण्यमत्यर्थं नृणां पापभयापहम् ।
आकाशगङ्गासलिलं दिव्यं स्नानं महामुने
यत्तु मैघैः समुत्सृष्टं वारि तत्प्राणिनां द्विज ।
पुष्णात्यौषधयः सर्वा जीवनायामृतं हि तत्
तेन वृद्धिं परां नीतः सकलश्चौषधीगणः ।
साधकः फलपाकन्तः प्रजानां द्विज जायते
तेन यज्ञान्यथाप्रोक्तान्मानवाः शास्त्रचक्षुषः ।
कुर्वन्त्यहरहस्तैश् च देवानाप्याययन्तिते
एवं यज्ञाश् च वेदाश् च वर्णाश् च द्विजपूर्वकाः ।
सर्वे देवनिकायाश् च सर्वे भूतगणाश् च ये
वृष्ट्या धृतमिदं सर्वमन्नं निष्पाद्यते यया ।
सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तम
आधारभूतः सवितुर्ध्रुवो मुनिवरोत्तम ।
ध्रुवस्य शिशुपारो ऽसौ सो ऽपि नारायणात्मकः
हृदि नारायणस्तस्य शिशुमारस्यं संस्थितः ।
बिभर्ता सर्वभूतानामादिभूतः सनातनः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0