विष्णु पुराण · अध्याय 1.22
इति श्रिविष्णुपुरामे प्रथमैंश एकविंशोध्यायः (21)
श्रीपराशर उवाच
यदाभिषिक्तः स पृथुः पूर्वं राज्ये महर्षिभिः ।
ततः क्रमेण राज्यानि ददौ लोकपितामहः
नक्षत्रग्रहविप्राणां वीरुधां चाप्यशेषतः ।
सोमं राज्ये दधद्ब्रह्म यज्ञानां तपसामपि
राज्ञां वैश्रवणं राज्ये जलानां वरुणं तथा ।
आदित्यानां पतिं विष्णुं वसूनामथ पावकम्
प्रजापतीनां दक्षं तु वासवं मरुतामपि ।
दैत्यानां दानवानां च प्रह्लादमधिपं ददौ
पितॄणां धर्मराजानं यमं राज्ये ऽभ्यषेचयत् ।
ऐरावतं गर्जेद्राणामशोषाणां पतिं ददौ
पतत्रिणां तु गुरुडं देवानामपि वासवम् ।
उच्चैःश्रवसमश्वानां वृषभं तु गवामपि
मृगाणां चैव सर्वेषां राज्ये सिंहं ददौ प्रभुः ।
शेषं तु दन्दशूकानामकरोत्पतिमव्ययः
हिमालयं स्थावरणां मुनीनां कपिलं मुनिम् ।
नखिनां देष्ट्रिणां चैव मृगाणां व्याघ्रमीश्वरम्
वनस्पतीनां राजानेः प्लक्षमैवाब्यषेचयत् ।
एवमेवान्यजातीनां प्राधान्येनाकरोत्प्रभून्
एवं विभज्य राज्यानि दिशां पालाननन्तरम् ।
प्रजापतिपतिर्ब्रह्मा स्थापयामास सर्वतः
पूर्वस्यां दिशि राजानं वैराजस्य प्रजापतेः ।
दिशापालं सुधन्वानं सुतं वै सो ऽभ्यषेचयत्
दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः ।
पुत्रं शङ्खपदं नाम राजानं सो ऽभ्यषेचयत्
पश्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् ।
केतुमन्तं महात्मानं राजानं सो ऽभ्यषैचयत्
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ।
उदीच्यां दिशि दुर्धर्षं राजानमभ्यषेचयत्
तैर् इयं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
यथाप्रदेशमद्यापि धर्मतः परिपाल्यते
एते सर्वे प्रवृत्तस्य स्थितौ विष्णोर्महात्मनः ।
विभूतिभूता राजानो ये चान्ये मुनिसत्तम
ये भविष्यन्ति ये भूताः सर्वे भूतेश्वरा द्विज ।
ते सर्वे सर्वभूतस्य विष्णोरंशा द्विजोत्तम
ये तु देवाधिपतयो ये च दैत्याधिपास् तथा ।
दानवानां च ये नाथा ये नाथाः पिशिताशिनाम्
पशुनां ये च पतयः पतयो ये च पक्षिणाम् ।
मनुष्याणां च सर्पाणां नागानामधिपाश् च ये
वृक्षाणां पर्वतानां च ग्रहाणां चापि ये ऽधिपाः ।
अतीता वर्तमानाश् च ये भविष्यन्ति चापरे ।
ते सर्वे सर्वभूतस्य विष्णोरंशसमुद्भावाः
न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिम् ।
स्थितं स्थितौ महाप्राज्ञ भवत्यन्यस्य कस्यचित्
सृजत्येष जगत्सृष्टौ स्थितौ पाति सनातनः ।
हन्ति चैवान्तकत्वेन रजःसत्त्वादिसंश्रयः
चतुर्विभागः संसृष्टौ चतुर्धा संस्थितः स्थितौ ।
प्रलयं च करोत्यन्ते चतुर्भेदो जनार्दनः
एकेनांशेन ब्रह्मसौ भवत्यव्यक्तमूर्तिमान् ।
मरीचिमिश्राः पतयः प्रजानाञ्चान्यभागशः
कालस्तृतीयस्तस्यांशः सर्वभूतानि चापरः ।
इत्थं चतुर्धा संसृष्टौ वर्ततेसौ रजोगुणः
एकांशेनास्थितो विष्णुः करोति प्रतिपालनम् ।
मन्वादिरूपश्चान्येन कालरूपो ऽपरोण च
सर्वभूतेषु चान्येन संश्थितः कुरुते स्थितिम् ।
सत्त्वं गुणं समाश्रित्य जगतः पुरुषोत्तमः
आश्रित्य तमसो वृत्तिमन्तकाले तथा पुनः ।
रुद्रस्वरूपो भगवानेकांशेन भवत्यजः
अग्न्यन्तकादिरूपेण भागेनान्येन वर्तते ।
कालस्वरूपो भागो यःसर्वभूतानि चापरः
विनाशं कुर्वतस्तस्य चतुर्धैवं महात्मनः ।
विभागकल्पना ब्रह्मन् कथ्यते सार्वकालिकी
ब्रह्म दक्षादयः कालस्तथै वाखिलजन्तवः ।
विभूतयो हरेरेता जगतः सृष्टिहेतवः
विष्णुर्मन्वादयः कालः सर्वभूतानि च द्विज ।
स्थितेर्निमित्तभूतस्य विष्णोरेता विभूतयः
रुद्रः कालान्तकाद्याश् च समस्ताश्चैव जन्तवः ।
चतुर्धा प्रलायायैता जनार्दनविभूतयः
जगदादौ तथा मध्ये सृष्टिराप्रलया द्विज ।
धात्रा मरीचिमिश्रैश् च क्रियते जन्तुभिस् तथा
ब्रह्म सृजत्यादिकाले मरीचिप्रमुखास्ततः ।
उत्पादयन्त्यपत्यानि जन्तवश् च प्रतिक्षणम्
कालेन न विना ब्रह्म सृष्टिनिष्पादको द्विज ।
न प्रजापतयः सर्वे न चैवाखिलजन्तवः
एवमेव विभागोयं स्तितावप्युपदिश्यति ।
चतुर्दा तस्य देवस्य मैत्रेय प्रलये तथा
यत्किञ्चित्सृज्यते येन सत्त्वजातेन वै द्विज ।
तस्य सृज्यस्य सम्भूतो तत्सर्वं वै हरेस्तनुः
हन्ति यावच्च यत्किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
जनार्दनस्य तद्रौद्रं मैत्रेयान्तकरं वतुः
एवमेष जगत्स्त्रष्टा जगत्पाता तथा जगत् ।
जगद्भक्षयिता देवः समस्तस्य जनार्दनः
सृष्ठिस्थित्यन्तकालेषु त्रिधैवं संप्रवर्तते ।
गुणप्रवृत्या परमं पदं तस्यागुणं महत्
तच्च ज्ञानमयं व्यापि स्वासंवेद्यमनौपमम् ।
चतुष्प्रकारं तदपि स्वरूपं परमात्मनः
श्रीमैत्रेय उवाच
चतुःप्रकारतां तस्य ब्रह्मभूतस्य हे मुने ।
ममाचक्ष्व यथान्यायं यदुक्तं परमं पदम्
श्रीपरासर उवाच
मैत्रेय कारणं प्रोक्तं साधनं सर्ववस्तुषु ।
साध्यं च वस्त्वभिमतं यत्साधयितुमात्मनः
योगिनो मुक्तिकामस्य प्राणायामादिसाधनम् ।
साध्यं च परमं ब्रह्म पुनर्नवर्ततेयतः
साधनालम्बनं ज्ञानं मुक्तये योगिनां हि यत् ।
स भेदः प्रथमस्तस्य ब्रह्मभूतस्य वै मुने
युञ्जतः क्लेशमुक्त्यर्थं साध्यं यद्ब्रह्म योगिनः ।
तदालम्बनविज्ञानं द्वितीयो ऽंशो महामुने
उभयोस्त्वविभागेन साध्यसाधनयोर्हि यत् ।
विज्ञानमद्वैतमयं तद्भागोन्यो मयोदितः
ज्ञानत्रयस्य वै तस्य विशेषो यो महामुने ।
तन्निराकरणद्वारा दर्शितात्मस्वरूपवत्
निर्व्यापारमनाख्येयं व्याप्तिमात्रमनूपमम् ।
आत्मसम्बोधविषयं सत्तामात्रमलक्षणम्
प्रशान्तमभयं शुद्धं दुर्विभाव्यमसंश्रयम् ।
विष्णोर्ज्ञानमयस्योक्तं तज्ज्ञानं ब्रह्मसंज्ञितम्
तत्र ज्ञाननिरोधेन योगिनो यान्ति ये लयम् ।
संसारकर्षणोप्तौ ते यान्ति निर्बीजतां द्विजा
एवंप्रकारममलं नित्यं व्यापकमक्षयम् ।
समस्तहेयरहितं विष्ण्वाख्यं परमं पदम्
तद्ब्रह्म परमं योगी यतो नावर्तते पुनः ।
श्रयत्यपुण्योपरमे क्षीणक्लेशे ऽतिनिर्मले
द्वे रूपे ब्रह्मणस्तस्य मूर्त चामूर्तमेव च ।
क्षराक्षरास्वरूपे ते सर्वभूतेष्ववस्थिते
अक्षरं तत्परं ब्रह्म क्षरं सर्वमिदं जगत् ।
एकदेशस्थितस्याग्नेर्ज्योत्स्त्रा विस्तारिणि यथा ।
परस्य ब्रह्मणः शक्तिस्तथोदमखिलं जगत्
तत्राप्यासन्नदूरत्वाद् बहुत्वस्वल्पतामयः ।
ज्योत्स्नाभेदोस्ति तच्छक्तेस्तद्वन्मैत्रेय विद्यते
ब3ह्मविष्णुशिवा ब्रह्मन्प्रधाना ब्रह्मशक्तयः ।
ततश् च देवा मैत्रेय न्यूना दक्षादयस्ततः
ततो मनुष्याः पशवौ मृगपक्षिसरीसृपाः ।
न्यूनान्यूनतराश्चैव वृक्षगुल्मादयस् तथा
तदेतदक्षरं नित्यं जगन्मुनिवराखितम् ।
आविर्भावतिरोभाव-जन्मनाशविकल्पवत्
सर्वशक्ति मयो विष्णुः स्वरूपं ब्रह्मणः परम् ।
मूर्तं यद्योगिभिः पुर्वं योगारम्भेषु चिन्त्यते
सालम्बनो महायोगः सबीजो यत्रसंस्थितः ।
मनस्यव्याहते सम्यग्युञ्जतां जायते मुने
स परः परशक्तीनां ब्रह्मणः समनन्तरम् ।
मूर्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरिः
यत्र सर्वमिदं प्रोतमोतं चैवाखितं जगत् ।
ततो जगज्जगत्यस्मिन्स जगच्चखिलं मुने
क्षराक्षरमयो विष्णुर्बिभर्त्यखिलमीश्वरः ।
पुरुषाव्याकृतमयं भूषणास्त्रस्वरूपवत्
श्रीमैत्रेय उवाच
भूषणास्त्रस्वरूपस्थं यच्चैतदखिलं जगत् ।
बिभर्ति भगवन्विष्णु स्तन्ममाख्यातुमर्हसि
श्रीपराशर उवाच
नमस्कृत्वाप्रमेयाय विष्णवे प्रभविष्णवे ।
कथयामि यथाख्यातं वसिष्ठेन ममा भवत्
आत्मानमस्य जगतो निर्लेपमगुणामलम् ।
बिभर्ति कौस्तुभमणिस्वरूपं भगवान्हरिः
श्रीवत्ससंस्थानधर मनन्ते न समाश्रितम् ।
प्रधानं बुद्धिरप्यास्ते गदरूपेण माधवे
भूतादिमिन्द्रियादिं च द्विधाहङ्कारमीश्वरः ।
बिभर्ति शंखरूपेण शार्ङ्गरूपेण च स्थितम्
चलत्स्वरूपमत्यन्तं जवेनान्तारितानिलम् ।
चक्रस्वरूपं च मनो धत्ते विष्णुकरे स्थितम्
पञ्चरूपा तु या माला वैजयन्ती गदाभृतः ।
सा भूतहेतुसंघाता भूतमाला च वै द्विज
यानीन्द्रियाण्यशेषाणि बुद्धिकर्मात्मकानि वै ।
शररूपाण्यशेषाणि तानि धत्ते जनार्दनः
बिभर्ति यच्चासिरत्नमच्युतोत्यन्तनिर्मलम् ।
विद्यामय तु तज्ज्ञानमविद्याकोशसंस्थितम्
इत्थं पुमान्प्रधानं च बुद्ध्यहङ्कारमेव च ।
भूतानि च हृषीकेशे मनः सर्वेन्द्रियाणि च ।
विद्याविद्ये च मैत्रेय सर्वमेतत्समाश्रितम्
अस्त्रभूषणसंस्थानस्वरूपं रूपवर्जितः ।
बिभार्ति मायारूपोसौ श्रेयसे प्राणिनां हरिः
सविकारं प्रधानं च पुमांश्चैवाखिलं जगत् ।
बिभर्ति पुण्डहीकाक्षस्तदेवं परमेश्वरः
या विद्या या तथाविद्या यत्सद्यच्चासदव्ययम् ।
तत्सर्वं सर्वभूतेशे मैत्रेय मधुसूदने
कलाकाष्ठानिमेषादिदिनर्त्वयनहायनैः ।
कालस्वरूपो भगवानपापो हरिरव्ययः
भूर्लोकोथ भुवर्लोकः स्वर्लोको मुनिसत्तम ।
महर्जनस्तपः सत्यं सप्त लोका इमे विभुः
लोकात्ममूर्तिः सर्वेषां पूर्वेषामपि पूर्वजः ।
आधारः सर्वविद्यानां स्वयमेव हरिः स्थितः
देवमानुषपश्वादिश्वरूपैर् बहुभिः स्थितः ।
ततः सर्वेश्वरो ऽनन्तो भूतमूर्तिरमूर्तिमान्
ऋचो यजूंषि सामानि तथैवाथर्वाणानि वै ।
इतिहासोपवेदाश् च वेदान्तेषु तथोक्तयः
वेदाङ्गानि समस्तानि मन्वादिगदितानि च ।
शास्त्राण्यशेषाण्याख्यानान्य् अनुवाकाश् च ये क्वचित्
काव्यालापाश् च ये केचिद्रीतकान्यखिलानि च ।
शब्दमूर्तिधरस्यैतद् वपुर्विष्णोर् महात्मनः
यानि मूर्तान्य् अमूर्तानि यान्यत्रान्यत्र वा क्वचित् ।
सन्ति वै वस्तुजातानि तानि सर्वाणि तद्वपुः
अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणकार्यजातम् ।
ईदृङ्मनो यस्य न तस्यट भूयो भवोद्भावा द्वन्द्वगदा भवन्ति
इत्यैष तेंशः प्रथमः पुराणस्यास्य वै द्विज ।
यथावत्कथितो यस्मिन्धृते पापैः प्रमुच्यते
कार्त्तिक्यां पुष्करस्नाने द्वादशाब्देन यत्फलम् ।
तदस्य श्रवणात्सव मैत्रेयाप्नोति मानवः
देवर्षिपितृगन्धर्वयक्षादिनां च सम्भवम् ।
भवन्ति शृण्वतः पुंसो देवाद्य वरदा मुने
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0