विष्णु पुराण · अध्याय 1.9
इति श्रीविष्णुपुराणे प्रथमे ऽंशे अष्टमो ऽध्यायः (8)
श्रीपराशर उवाच
इदं च शृणु मैत्रेय यत्पृष्टोहमिह त्वया ।
श्रीसम्बन्धं मायाप्येतच्छ्रुतमासीन्मरीचितः
दुर्वासाः शङ्करस्यांशश्चार पृथिविमिमाम ।
स ददर्श स्रजं दिव्यामृषिर्विद्याधरीकरे
संतानकानामखिलं यस्या गन्धेन वासितम् ।
अतिसेव्यमभूद्ब्रह्यन् तद्वनं वनचारिणाम्
उन्मत्तव्रतधृग्विप्रस्तां दृष्ट्वा शोभनां स्रजम् ।
तां ययाचे वरारोहां विद्याधरवधूं ततः
याचिता तेन तन्वङ्गी मालां विद्याधराङ्गना ।
ददौ तस्मै विशालाक्षी सादरं प्रणिपत्य तम्
तामादायात्मनो मूर्ध्नि स्रजमुन्मत्तरूपधृक् ।
कृत्वा स विप्रो मैत्रेय परिबभ्राम मेदिनीम्
स ददर्श तमायान्तमुन्मत्तैरावते स्थितम् ।
त्रैलोक्याधिपतिं देवं सह देवैः शचीपतिम्
तामात्मनः स शिरसः स्रजमुन्मत्त षट्पदाम् ।
आदायामरराजाय चिक्षेपोन्मत्तवन्मुनिः
गृहीत्वामरराजेन स्रगैरावतमूर्धनि ।
न्यस्ता रराज कैलासशिखरे जाह्नवी यथा
मदान्धकारिताक्षोसौ गन्धाकृष्टेन वारणः ।
करेणाघ्राय चिक्षेप तां स्रजं धरणीतले
ततश्चुक्रोध भगवान्दुर्वासा मुनि सत्तमः ।
मैत्रेय देवराजानं क्रुद्धश्चैतदुवाच ह
दुर्वासा उवाच
ऐश्वर्यमददुष्टात्मन्नतिस्तब्धोसि वासव ।
श्रियो धाम स्रजं यस्त्वं मद्दत्तां नाभिनन्दसि
प्रसाद इति नोक्तं ते प्रणिपातपुरः सरम् ।
हर्षोत्फुल्लकपोलेन न चापि शिरसा धृता
मया दत्तामि मां मालं यस्मान्न बहु मन्यसे ।
त्रैलोक्यश्रीरतो मूढ विनाशमुपयास्यति
मां मन्यसे त्वं मदृशं नूनं शक्रतरद्विजैः ।
अतोवमा नमस्मासु मानिना भवता कृतम्
मद्दत्त भवता यस्मात्क्षिप्ता माला महीतले ।
तस्मात्प्रणष्टलक्ष्मीकं त्रैलोक्यं ते भविष्यति
यस्य संजातकोपस्य भयमेति चराचरम् ।
तं त्वं मामतिगर्वेण देवराजवमन्यसे
श्रीपराशर उवाच
महेन्द्रो वारणस्कन्धादवतीर्य त्वरान्वितः ।
प्रसादयामास मुनिं दुर्वाससमकल्मषम्
प्रसाद्यमानः स तदा प्रणिपातपुरःसरम् ।
इत्युवाच सहस्राक्षं दुर्वासा मुनिसत्तम
दुर्वासा उवाच
नाहं कृपालुहृदयो न चमां भजते क्षमा ।
अन्ये ते मुनयः शक्र दुर्वाससमवेहि माम
गौतमादिभिर् अन्यैस् त्वं गर्वमारोपितो मुधा ।
अक्षान्तिसारसर्वस्वं दुर्वाससमवेहि माम्
वसिष्ठाद्यैर् दयासारैः स्तोत्रं कुर्वद्भिर् उच्चकैः ।
गर्वं गतो सि येनैवं मामप्यद्यावमन्यसे
ज्वलज्जटाकलापस्य भृकुटीकुटिलं मुखम् ।
निरीक्ष्य कस्त्रिभुवने मम यो न गतो भयम्
नाहं क्षमिष्ये बहुना किमुक्तेन शतक्रतो ।
विडंबनामिमां भूयः करोष्यनुनयात्मिकाम्
श्रीपराशर उवाच
इत्युक्त्वा प्रययै विप्रो देवराजोपि तं पुनः ।
आरुह्यैरावतं ब्रह्मन् प्रययावमरावतीम्
ततः प्रभृति निःश्रीकं सशक्रं भुवनत्रयम् ।
मैत्रेयासीदपध्वस्तं संक्षा णौषधिवीरुधम्
न यज्ञाः समवर्तन्ते न तपस्यन्ति तापसाः ।
न च दानादिधर्मेणु मनश्चक्रे तदा जनः
निःसत्त्वाः सकला लोका लोभाद्युपहतेन्द्रियाः ।
स्वल्पेपि हि बभूवुस्ते साभिलाषा द्विजोत्तम
यतः सत्त्वं ततो लक्ष्मीः सत्त्वं भूत्यनुसारि च ।
निःश्रीकाणां कुतः सत्त्वं विना तेन गुणाः कुतः
बलशौर्याद्यभावश् च पुरुषाणां गुणैर् विना ।
लवनायः समस्तस्य बलशौर्यविवर्जितः
भवत्यपध्वस्तमतिर्लघितः प्रथितः पुमान् ।
एवमत्यन्तनिःश्रीके त्रैलोक्ये सत्त्ववर्जिते
दवान् प्रति बलोद्योगं चक्रुर्दैतेयदानवाः
लोभाभिभूता निःश्रीका दैत्याः सत्त्वविवर्जिताः ।
श्रिपाविहीनैर् निःसत्त्वैर् देवैश् चक्रुस् ततो रणम्
विजितास्त्रिदशा दैत्यैर् इन्द्राद्याः शरणं ययुः ।
पितामहं महाभागं हुताशनपुरोगमाः
यथावत्कथितो देवैर् ब्रह्मा प्राह ततः सुरान् ।
परावरेशं शरणं व्रजध्वमसुरार्दनम्
उत्पत्तिस्थितिनाशानामहेतुं हेतुमीश्वरम् ।
प्रजा पतिपतिं विष्णुमनन्तमपराजितम्
प्रधानपुंसोरजयोः कारणं कार्यभूतयोः ।
प्रणतार्तिहरं विष्णुं स वः श्रेयो विधास्यति
श्रीपराशर उवाच
एवमुक्त्वा सुरान्सर्वान् ब्रह्मा लोकपितामहः ।
क्षीरोदस्योत्तरं तीरं तैर् एव सहितो ययौ
स गत्वा त्रिदशैः सर्वैः समवेतः पितामहः ।
तुष्टाव वाग्भिर् इष्टाभिः परावरपतिं हरिम्
ब्रह्मोवाच
नमामि सर्वं सर्वेशमनन्तमजमव्ययम् ।
लोकधाम धराधारमप्रकाशमभेदिनम्
नारायणमणीयांसमशेषणामणीयसाम् ।
समस्तानां गरिष्ठं च भूरादीनां गरीयसाम्
यत्र सर्वं यतः सर्वमुत्पन्नं मत्पुरःसरम् ।
सर्वभूतश् च यो देवः पराणामपि यः परः
परः परस्मात्पुरुषात्परमात्मस्वरूपधृक् ।
योगिभिश्चिन्त्यते यो ऽसौ सुक्तिहेतोर्मुमुक्षुभिः
सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः ।
स शुद्धः सर्वशुद्धेभ्यः पुमानाद्यः प्रसीदतु
कला काष्ठा मुहूर्तादिकालासूत्रस्य गोचरे ।
यस्य शक्तिर्न शुद्धस्य स नो विष्णुः प्रसीदतु
प्रोच्यते परमेशो हि यः शुद्धो ऽप्युपचारतः ।
प्रसीदतु स नो विष्णुरात्मा यः सर्वदेहिनाम्
यः कारणं च कार्यं च कारणस्यापि कारणम् ।
कार्य स्यापि च यः कार्यं प्रसीदतु स नो हरिः
कार्यकार्यस्य यत्कार्यं तत्कार्यस्यापि यः स्वयम् ।
तत्कार्यकार्यभूतो यस्ततश् च प्रणतास्म तम्
कारणं कारणस्यापि तस्य कारणकारणम् ।
तत्कारणानां हेतुं तं प्रणता स्म परेश्वरम्
भोक्तारं भोग्यभूतं च स्रष्टारं सृज्यमेव च ।
कार्यकर्तृस्वरूपं तं प्रणता स्म परं पदम्
विशुद्धबोधवन्नित्यमजमक्षयमव्ययम् ।
अव्यक्तमविकारं यत्तद्विष्णोः परमं पदम्
न स्थुलं न च सूक्ष्मं यन्न विशेषणगोचरम् ।
तत्पदं परमं विष्णोः प्रणमाम सदामलम्
यस्या युतायुतांशांशे विश्वशक्तिरियं स्थिता ।
परब्रह्मस्वरूपं यत्प्रणमामस्तमव्ययम्
यद्योगिनः सदोद्युक्ताः पुण्यपापक्षयेक्षयम् ।
पश्यन्ति प्रणवे चिन्त्यं तद्विष्णोः परमं पदम्
यन्न देवा न मुनयो न चाहं न च शङ्करः ।
जानन्ति परमेश स्य तद्विष्णोः परमं पदम्
शक्तयो यस्य देवस्य ब्रह्मविष्णुशिवात्मिकाः ।
भवन्त्यभूतपूर्वस्य तद्विष्णोः परमं पदम्
सर्वेश सर्वभूतात्मन्सर्व सर्वाश्रयाच्युत ।
प्रसीद विष्णो भक्तानां व्रज नो दृष्टिगोचरम्
श्रीपराशर उवाच
इत्युदीरितमाकर्ण्य ब्रह्मणस्त्रिदशास्ततः ।
प्रणम्योचुः प्रसीदेति व्रज नो दृष्टि गोचरम्
यन्नायं भगवान् ब्रह्म जानाति परमं पदम् ।
तन्नताः स्म-जगद्धाम तव सर्वगताच्युत
इत्यन्ते वचसस्तेषां देवानां ब्रह्मणस्त था ।
ऊचुर्देवर्षयःसर्व बृहस्पतिपुरोगमाः
अद्यो यज्ञः पुमानीड्यः पूर्वेषां यश् च पूर्वजः ।
तन्नताः स्म जगत्स्त्रष्टुः स्रष्टारम विशेषणम्
भगवन्भूतभव्येश यज्ञमूर्तिधराव्यय ।
प्रसीद प्रणतानां त्वं सर्वेषां देहि दर्शनम्
एष ब्रह्म सहास्माभिः सह रुद्रैस् त्रिलोचनः ।
सर्वादित्यैः समं पूषा पावको ऽयं सहाग्निभः
अश्विनौ वसवश्चेमे सर्वे चैते मरुद्गणाः ।
साध्या विश्वे तथा देवा देवेन्द्रश्चायमीश्वरः
प्रणामप्रवणा नाथ दैत्यसैन्यैः पराजिताः ।
शरणं त्वामनुप्राप्ताः समस्ता देवतागणाः
श्रीपराशर उवाच
एवं संस्तूयमानस्तु भगवाञ्छंखचक्रधृक् ।
जगाम दर्शनं तेषां मैत्रेय परमे श्वरः
तं दृष्ट्वा ते तदा देवाः शङ्खचक्रगदाधरम् ।
अपूर्वरूपसंस्थानं तेजसां राशिमूर्जितम्
प्रणम्य प्रणताः सर्वे संक्षोभ स्तिमितेक्षणाः ।
तुष्टुवुः पुण्डरीकाक्षं पितामहपुरोगमाः
देवा ऊचुः ।
नमोनमो विशेषस्त्वं त्वं ब्रह्म त्वं पिनाकधृक् ।
इन्द्रस्त्वम ग्निः पवनो वरुणः सविता यमः
वसवो मरुतः साध्या विश्वेदेवगणा भवान् ।
यो ऽयं तवाग्रतो देव समीपं देवतागणः ।
स त्वमेव जगत्स्त्रष्टा यतः सर्वगतो भवान्
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः प्रजापतिः ।
विद्या वेद्यं च सर्वात्मंस्त्वन्मयं चाखिलं जगत्
त्वमार्ताः शरणं विष्णो प्रयाता दैत्यनिर्जिताः ।
वयं प्रसीद सर्वात्मंस्तेजसाप्याययस्व नः
तावदार्तिस् तथा वाञ्छा ताव न्मोहस् तथा मुखम् ।
यावन्न याति शरणं त्वामशेषाघनाशनम्
त्वं प्रसादं प्रसन्नत्मन् प्रपन्नानां कुरुष्व नः ।
तेजसां नाथ सर्वेषां स्वशक्त्याप्यायनं कुरु
श्रीपराशर उवाच
एवं संस्तूयमानस्तु प्रणतैर् अमरैर् हरिः ।
प्रसन्नदृश्टिर्भगवानिदमाह स विश्वकृत्
तेजसो भवतां देवाः करिष्याम्युपबृंहणम् ।
वदाम्यहं यत्क्रियतां भवद्भिस् तदिदं सुराः
आनीय सहिता दैत्यैः क्षीराब्धौ सरलौ षधीः ।
प्रक्षिप्यात्रमृतार्थं ताः सकला दैत्यदानवैः ।
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम्
मथ्यताममृते देवाः सहाये मय्यवस्थिते
सामपूर्वं च दैतेयास्तत्र साहाय्यकर्मणि ।
सामान्यफलभोक्तारो यूयं वाच्या भविष्यथ
मथ्यमाने च तत्राब्धौ यत्समुत्पत्स्यते ऽमृतम् ।
तत्पानाद्बलिनो यूयममराश् च भविष्यथ
तथा चाहं करिष्यामि ते यथा त्रिदशद्विषः ।
न प्राप्स्यन्त्यमृतं देवाः केवलं क्लेशभागिनः
श्रीपराशर उवाच
इत्युक्ता देवदेवेन सर्व एव तदा सुराः ।
सन्धानमसूरैः कृत्वा यत्नवन्तो ऽमृते ऽभवन्
नानौषधीः समानीय देवदैतेयदानवाः ।
क्षिप्त्वा क्षीराब्धिपयसि शर दभ्रामलत्विषि
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम् ।
ततो मथितुमारब्धा मैत्रेय तरसामृतम्
विबुधाः सहिताः सर्वे यतः पुच्छं ततः कृताः ।
कृष्णेन वासुकेर्दैत्याः पूर्वकाये निवेशिताः
ते तस्य मुखनिश्वासवह्नितापहतत्विषः ।
निस्तेजसो ऽसुराः सर्वे बभूवुरमितौजसः
तेनैव मुखनिश्वासवायुनास्तबलाहकैः ।
पुच्छप्रदेशे वर्षद्भिस् तदा चाप्यायिताः सुराः
क्षीरो दमध्ये भगवान्कूर्मरूपी स्वयं हरिः ।
मन्थनाद्रेरधिष्ठानं भ्रमतो ऽभून्महामुने
रूपेणान्येन देवानां मध्ये चक्रगदाधरः ।
चकर्ष नाग राजानं दैत्यमध्ये ऽपरेण च
उपर्याक्रान्तवाञ्शैलं बृहद्रूपेण केशवः ।
तथापरेण मैत्रेय यन्न दृष्टं सुरासुरैः
तेजसा नागरा जानं तथाप्यायितवान्हरिः ।
अन्येन तेजसा देवानुपबृंहितवान्प्रभुः
मथ्यमाने ततस्तस्मिन्क्षिराब्धो देवदानवैः ।
हविर्धामाभवत्पूर्वं सुरभिः सुरपूजीता
जग्मुर्मुदं ततो देवा दानवाश् च महामुने ।
व्याक्षिप्तचेतसश्चैव बभूवुस्तिमितेक्षणाः
किमेतदितिसिद्धानां दिवि चिन्तयतां ततः ।
बभूव वारुणी देवी मदाघूर्णितलोचना
कृतावर्तात्ततस्तस्मात्क्षीरोदाद्वासयञ्जगत् ।
गन्धेन पारीजातोभूद्देवस्त्रीनन्दनस्तरुः
रूपौदार्यगुणोपेतस् तथा चाप्सरसां गणः ।
क्षीरोदधेः समुत्पन्नो मैत्रेय परमाद्भुतः
ततः शीतांशुरभवज्जगृहे तं महेश्वरः ।
जगृहुश् च विषं नागाः क्षीरोदाब्धिसमुत्थितम्
ततो धन्वन्तरिर्देवः श्वेताम्बरधरस्वयम् ।
बिभ्रत्कमण्डलुं पूर्णममृतस्य समुत्थितः
ततः स्वस्थमनस्कास्ते सर्वे दैतैयदानवाः ।
बभूवुर्मुदिताः सर्वे मैत्रेय मुनिभिः सह
ततः स्फुरत्कान्तिमती विकासिकमले स्थिता ।
श्रीर्देवी पयसस्तस्मादुद्भूता धृतपङ्कजा
तां तुष्टुवुर्मुदा युक्ताः श्रीसूक्तेन महर्षयः
विश्वावसुमुखास्तस्या गन्धर्वाः पुरतो जगुः ।
घृताचीप्रमुखास्तत्र ननृतुश्चाप्सरोगणाः
गङ्गाद्याः सरितस्तोयैः स्नानार्थमुपतस्थिरे ।
दिग्गजा हेमपात्रस्थमादाय विमलं जलम् ।
स्त्रापयाञ्चक्रिरे देवीं सर्वलोकमहेश्वरीम्
क्षीरोदो रूपधृक्तस्यै मालामम्लानपङ्कजाम् ।
ददौ विभूषणान्यङ्गे विश्वकर्मा चकार ह
दिव्यमाल्याम्बरधरास्त्राता भूषणभूषिता ।
पश्यतां सर्वदेवानां ययौ वक्षस्थलं हरेः
तया विलोकिता देवा हरिवक्षस्थलस्थया ।
लक्ष्म्या मैत्रेय सहसा परां निर्वृतिमागताः
उद्वेगं परमं जग्मुर्दैत्या विष्णुपराङ्मुखाः ।
त्यक्ता लक्ष्म्या महाभाग विप्रचित्तिरुरोगमाः
ततस्ते जगृहुर्दैत्या धन्वन्तरिकरस्थितम् ।
कमण्डलुं महावीर्या यत्राऽस्ते ऽमृतमुत्तमम्
मायया मोहयित्वा तान्विष्णुः स्त्रीरूपसंस्थितः ।
दानवेभ्यस्तदादाय देवेभ्यः प्रददौ प्रभुः
ततः पपुः सुरगुणाः शक्राद्यास्तत्तदामृतम् ।
उद्यतायुधनिस्त्रंशा दैत्यास्तांश् च समाभ्ययुः
पीते ऽमृते च बलिभिर् देवैर् दैत्यचमूस्तदा ।
वध्यमाना दिशो भेजे पातालं च विवेश वै
ततो देवा मुदा युक्ताः शङ्खचक्रगदाभृतम् ।
प्रणिपत्य यथापूर्वमाशासत्तत्त्रिविष्टपम्
ततः प्रसन्नभाः सूर्यः प्रययौ स्वेन वर्त्मना ।
ज्योतींषि च यथामार्गं प्रययुर्मुनिसत्तम
जज्वाल भगवांश्चोच्चैश् चारुदीप्तिर्विभावसुः ।
धर्मे च सर्वभूतानां तदा मतिरजायत
त्रैलोक्यं च श्रिया जुष्टं बभूव द्विजसत्तम ।
शक्रश् च त्रिदशश्रेष्ठः पुनः श्रीमा नजायत
सिंहासनगतः शक्रःसंप्राप्य त्रिदिवं पुनः ।
देवराज्ये स्तितो देवीं तुष्टावाब्जकरां ततः
इन्द्र उवाच
नमस्ये सर्वलोकानां जननीमब्जसम्भवाम् ।
श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षस्थलस्थिताम्
पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम् ।
वन्दे पद्मसुखीं देवीं पद्मनाभप्रियामहम्
त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी ।
सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती
यज्ञविद्या महाविद्य गुह्यविद्य च शोभने ।
आत्मविद्या च देवि त्वं विसुक्तिफलदायिनी
आन्वीक्षिकीत्रयीवार्त दण्डनीतिस्त्वमेव च ।
सैम्यासौम्यैर् जगद्रूपैस् त्वयैत्तद्देवि पूरितम्
का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः ।
अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः
त्वाया देवि परित्यक्तं सकलं भुवनत्रयम् ।
विनष्टप्रायमभवत्त्वयेदानीं समेधितम्
दाराः पुत्रास्तथागारसुहृद्धान्यधनादिकम् ।
भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्तृणाम्
शरीरारोग्यमैश्वर्यम् अरिपक्षक्षयः सुखम् ।
देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम्
त्वं माता सर्वलोकानां देवदेवो हरिः पिता ।
त्वयैतद्विष्णुना चाम्ब जगव्द्याप्तं चराचरम्
मा नः कोशं तथा गोष्ठं मा गृहं मा परिच्छदम् ।
मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि
मा पुत्रान्मा सुहृर्द्वग मा पशुन्मा विभूषणम् ।
त्यजेथा मम देवस्य विष्णोर्वक्षःस्थलालये
सत्त्वेन सत्यशौचाभ्यां तथा शीलदिभिर् गुणैः ।
त्यज्यन्ते ते नराः सद्यः संत्यक्ता ये त्वायामले
त्वया विलोकिताः सद्यः शीलाद्यैर् अखिलैर् गुणैः ।
कुलैश्वर्यैश् च युज्यन्ते पुरुषा निर्गुणा अपि
सर् श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् ।
स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः
सद्यो वैगुण्यमायान्ति शीलाद्यः सकला गुणाः ।
पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे
न ते वर्णयितुं शक्ता गुणाञ्चिह्वापि बेधसः ।
प्रसीद देवि पद्माक्षि मास्मांस्त्याक्षीः कदाटन
श्रीपरशर उवाच
एवं श्रीः संस्तुता सम्यक् प्राह देवी शतक्रतुम् ।
शृण्वतां सर्वदेवानां सर्वभूतस्थिता द्विज
श्रीरुवाच
परितुष्टास्मि देवेशे स्तोत्रेणानेन ते हरे ।
वरं वृणीष्व यस्त्विष्टो वर दाहं तवागता
इन्द्र उवाच
वरदा यदि मे देवि वारर्हे यदि वाप्यहम् ।
त्रैलोक्यं न त्वया त्याज्यमेष मेस्तु वरः परः
स्तोत्रेण यस्तथैतेन त्वां स्तोष्यत्यब्धिसम्भवे ।
स त्वया न परीत्याज्यो द्वितीयोस्तु वरो मम
श्रीरुवाच
त्रैलोक्यं त्रिद शश्रेष्ठ न सन्त्यक्ष्यामि वासव ।
दत्तो वरो मयायन्ते स्तौत्राराधनतुष्टया
यश् च सायं तथा प्रातः स्तोत्रेणानेन मानवः ।
मां स्तोष्यति न तस्याहं भविष्यामि पराङ्मुखी
श्रीपराशर उवाच
एवं ददौ वरं देवी देवराजाय वै पुरा ।
मैत्रेय श्रीर्महाभागा स्तोत्राराधनतोषिता
भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्वमुदधेः पुनः ।
देवदानवयत्नेन प्रसूतामृतमन्थने
एवं यदा जगत्स्वामी देवदेवो जनार्दनः ।
अवतारं करोत्येषा तदा श्रीस्तत्महायिनि
पुनश् च पद्मादुत्पन्ना आदित्योभूद्यदा हरिः ।
यदा तु भार्गवो रामस्तदाभूद्धरणी त्वियम्
राघवत्वे ऽभवत्सीता रुक्मिणी कृष्णजन्मनि ।
अन्येषु चावतारेषु विष्णोरेषानपायिनि
देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी ।
विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनुम्
यश्चैतच्छृणुयाज्जन्म लक्ष्म्या यश् च पठेन्नरः ।
श्रियो न विच्युतिस्तस्य गृहे यावत्कुलत्रयम्
पठ्यते येषु चैवेयं गृहेषु श्रीस्तुतिर्मुने ।
अलक्ष्मीः कलहाधारा न ते ष्वास्ते कदाचन
एतते कथितं ब्रह्मन्यन्मां त्वं परिपृच्छसि ।
क्षीराब्धो श्रीर्यथा जाता पूर्वं भृगुसुता सती
इति सकल विभूत्यवाप्तिहेतुः स्तुतिरियमिन्द्रमुखोद्गता हि लक्ष्म्याः ।
अनुदिनमिह पठ्यते नृभिर् यैर् वसति न तेषु कदाचिदप्यलक्ष्मीः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0