विष्णु पुराण · अध्याय 1.8
इति श्रीविष्णुपुराणे प्रथमे ऽंशे सप्तमो ऽध्यायः (7)
श्रीपारशर उवाच
कथितस्तामसः सर्गो ब्रह्मणस्ते महामुने ।
रुद्रसर्गं प्रवक्ष्यामि तन्मे निगदतः शृणु
कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः ।
प्रादुरासीत्प्रभोरङ्के कुमारो नीललोहितः
रुरोद सुस्वरं सोथ प्राद्रवद्दि जसत्तम ।
किं त्वं रोदिषि तं ब्रह्म रुदन्तं प्रत्युवाच ह
नाम देहीति तं सो ऽथ प्रत्युवाच प्रजापतिः ।
रुद्रस्त्वं देवनाम्नासि मारो दीर्धैर्यमावह ।
एवमुक्तः पुनः सो ऽथ सप्तकृत्वो रुरोद वै
ततोन्यानि ददौ तस्मै सप्त नामानि वै प्रभुः ।
स्थानानि चैषामष्टानां पत्नीः पुत्रांश् च स प्रभुः
भवं शर्वमथेशानं तथा पशुपतिं द्विज ।
भीममुग्रं महादेवमुवाच स पितामहः
चक्रे नामान्यथैतानि स्थानान्येषां चकार सः ।
सूर्यो जलं मही वायुर्वह्निराकाशमेव च ।
दीक्षितो ब्रह्मणः सोम इत्येतास्तनवः क्रमात्
सुवर्चला तथैवोषा विकेशी चापरा शिवा ।
स्वाहा दिशस् तथा दीक्षा रोहिणी च यथाक्रमम्
सूर्यादीनां द्विजश्रेष्ठ रुद्राद्यैर् नामभिः सह ।
पत्न्यः स्मृता महाभाग तदपत्यानि मे शृणु
एषां सूतिप्रसूतिभ्यामिदमापूरितं जगत्
शनैश्चरस् तथा शुक्रो लोहिताङ्गो मनोजवः ।
स्कन्दः सर्गो ऽथ सन्तानो बुधश्चानुक्रमात्सुताः
एवंप्रकारो रुद्रो ऽसौ सतीं भार्यामनिन्दिताम् ।
उपयेमे दुहितरं रक्षस्यैव प्रजापतेः
दक्षकोपाच्च तत्याज स सती स्वकलेवरम् ।
हिमवद्दुहित साभून्मेनायां द्विजसत्तम
उपयेमे पुनश्चोमामनन्यां भगवान्हरः
देवौ धातृविधातारौ भृगोः ख्यातिरसूयत ।
श्रियं च देवदेवस्य पत्नी नारायणस्य या
श्रीमैत्रेय उवाच
क्षीराब्धौ श्रीः समुत्पन्ना श्रूयते ऽमृतमन्थने ।
भृगोः ख्यात्यां समुत्पन्नेत्येतदाह कथं भवात्
श्रीपराशर उवाच
नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनि ।
यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम
अर्थो विष्णुरियं वाणी नीतिरेषा नयो हरिः ।
बोधो विष्णुरियं बुद्धिर्धर्मो ऽसौ सत्क्रिया त्वियम्
स्त्रष्टा विष्णुरियं सृष्टिः श्रीर्भूमिर्भूधरो हरिः ।
सन्तोषो भगवाल्लङ्क्ष्मीस्तुष्टिर्मैत्रेय शाश्वती
इच्छा श्रीर्भगवान्कामो यज्ञो ऽसौ दक्षिणा त्वियम् ।
आज्याहुतिरसौ देवी पुरोडाशो जनार्दनः
पत्नीशाला मुने लक्ष्मीः प्राग्वंशौ मधुसूदनः ।
चितिर्लक्ष्मीर्हरिर्यूप इध्मा श्रीर्भगवान्कुशः
सामास्वरूपी भगवानुद्गीतिः कमलालया ।
स्वाहा लक्ष्मीर्जगन्नाथो वासुदेवो हुता शनः
शङ्करो भगवाञ्छौरिर्गौरीलक्ष्मीर्द्विजोत्तम ।
मैत्रेय केशवः सूर्यस्तत्प्रभा कमलालया
विष्णुः पितृगणः पद्मा स्वधा शाश्वतपुष्टिदा ।
द्यौः श्रीः सर्वात्मको विष्णुरवकाशोतिविस्तरः
शशाङ्कः श्रीधरः कान्तिः श्रीस्तथैवानपायिनी ।
धृतिर्लक्ष्मीर्जगच्चेष्टा वायुः सर्वत्रगो हरिः
जलधिर्द्विजगोविन्दस्तद्वेला श्रीर्महामुने ।
लक्ष्मीस्वरूपमिन्द्राणी देवेन्द्रो मधुसूदनः
यमश्चक्रधरः साक्षाद्धूमोर्णा कमलालया ।
ऋद्धिः श्रीः श्रीधरो देवः स्वयमेव धनेश्वरः
गौरी लक्ष्मीमंहाबागा केशवो वरुणः स्वयम् ।
श्रीर्देवसेना विप्रेन्द्र देवसेनापतिर्हरिः
अवष्टंभो गदापाणिः शक्तिर्लक्ष्मीर् द्विजोत्तम ।
काष्ठा लक्ष्मीर्निमेषो ऽसौ मुहूर्तो ऽसौ कला त्वियम्
ज्योत्स्ना लक्ष्मीः प्रदीपो ऽसौ सर्वः सर्वेश्वरो हरिः ।
लताभूता जगन्माता श्रीर्विष्णुर्द्रुमसंज्ञितः
विभावरी श्रीर्दिवसो देवचक्रगदाधरः ।
वरप्रदो वरो विष्णुर्वधूः पद्मवनाल या
नदस्वरूपी भगवाञ्छ्रीर्नदीरूपसंस्थिता ।
ध्वजश् च पुण्डरीकाक्षः पताका कमलालया
तृष्णा लक्ष्मीर्जगन्नाथो लोभो नारायणः परः ।
रती रागश् च मैत्रेय लक्ष्मीर्गोविन्द एव च
किं चातिबहुनोक्तेन संक्षेपेणेदमुच्यते
देवतिर्यङ्मनुष्यादौ पुन्नामा भगवान्हरिः ।
स्त्रीनाम्नी श्रीश् च विज्ञेया नानयोर्विद्यते परम्
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0