भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 1.10

1.10.1

इति श्रीविष्णुपुराणे प्रथमे ऽंशे नवमो ऽध्यायः (9)
श्रीमैत्रेय उवाच
कथितं मे त्वाया सर्वं यत्पृष्टोसि मया मुने ।
भृगुसर्गात्प्रभृत्येष सर्गो मे कथ्यतां पुनः

1.10.2

श्रीपराशर उवाच
भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्विष्णुपरिग्रहः ।
तथा धातृविधातारौ ख्यात्यां जातौ सुतौ भृगोः

1.10.3

आयतिर्नियतिश्चैव मेरोः कन्ये महात्मनः ।
भार्ये धातृविधात्रोस्ते तयोर्जातौ सुतावुभौ

1.10.4

प्राणश्चैव मृकण्डुश् च मार्कण्डेयो मृकण्डुतः ।
ततो वेदशिरा जज्ञे प्राणस्यापि सुतं शृणु

1.10.5

प्राणस्य द्युतिमान्पुत्रो राजवांश् च ततो ऽभवत् ।
ततो वंशो महाभाग विस्तरं भार्गवो गतः

1.10.6

पत्नी मरीचेः संभूतिः पौर्णमासमसूयता ।
विरजाः पर्वतश्चैव तस्य पुत्रो महात्मनः

1.10.7

वंशसंकीर्तने पुत्रान्वदिष्येहं ततो द्विज ।
स्मृतिश्चाङ्गीरसः पत्नी प्रसूता कन्यकास् तथा ।
सिनीवाली कुहूश्चैव राका चानुमती तथा

1.10.8

अनसूया तथैवात्रेर्जज्ञे निष्कल्मषान्सुतान् ।
सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम्

1.10.9

प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस्तत्सुतो ऽभवत् ।
पूर्वजन्मनि यो ऽगस्त्यः स्मृतः स्वायंभुवेन्तरे

1.10.10

कर्दमश्चार्वरीवांश् च सहिष्णुश् च सुतास्त्रयः ।
क्षमा तु सुषवे भार्या पुलहस्य प्रजापतेः

1.10.11

क्रतोश् च संततिर्भार्या वालखिल्यानसूयत ।
षष्टिपुत्रसहस्राणि मुनीनामूर्ध्वरेतसाम् ।
अङ्गुष्ठपर्वमात्राणां ज्वलद्भास्करतेजसाम्

1.10.12

ऊर्जायां तु वसिष्ठस्य सप्ताजायन्त वै सुताः

1.10.13

रजो गोत्रोर्ध्वबाहुश् च सवनश्चानघस् तथा ।
सुतपाः शुक्र इत्येते सर्वे सप्तर्षयो ऽमलाः

1.10.14

यो ऽसावग्न्यभिमानी स्यात् ब्रह्मणस्तनयो ऽग्रजः ।
तस्मात्स्वाहा सुतांल्लेभे त्रीनुदारौजसो द्विज

1.10.15

पावकं पवमानं तु शुचिं चापि जलाशिनम्

1.10.16

तेषां तु सन्ततावन्ये चत्वारिंशच्च पञ्च च ।
कथ्यन्ते वह्नयश्चैते पितापुत्रत्रयं च यत्

1.10.17

एवमेकोनपञ्चशद्वह्नयः परिकीर्तिताः

1.10.18

पितरो ब्रह्मणा सृष्टा व्याख्याता ये मया द्विज ।
आग्निष्वात्त बर्हिषदो ऽनग्नयः साग्नयश् च ये

1.10.19

तेभ्यः स्वधा सुते जज्ञे मेनां वै धारीणीं तथा ।
ते उभे ब्रह्मवादिन्यौ योगिन्यावप्युभे द्विज

1.10.20

उत्तमज्ञानसंपन्ने सर्वैः समुदिर्तैर् गुणैः

1.10.21

इत्येषा दक्षकन्यानां कथिता सत्यसंततिः ।
श्रद्धावान्संस्मरन्नेतामनपत्यो न जायते

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc