भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 1.7

1.7.1

इति श्रीविष्णुरुराणे प्रथमे ऽंशे षष्ठो ऽध्यायः (6)
श्रीपराशर उवाच
ततोभिध्यायतस्तस्य जज्ञिरे मानसाः प्रजाः ।
तच्छरीरसमुत्पन्नैः कार्यैस् तैः करणैः सह ।
क्षेत्रज्ञाः समवर्तन्त गात्रेभ्यस्य स्यः धीमतः

1.7.2

ते सर्वे समावर्तन्त ये मया प्रागुदाहताः ।
देवाद्याः स्थावरान्ताश् च त्रैगुण्यविषये स्थिताः

1.7.3

एवंभूतानि सृष्टानि चराणि स्थावराणि च

1.7.4

यदास्य ताः प्रजाः सर्वा न व्यवर्धन्त धीमतः ।
अथान्यान्मानसान्पुत्रान्सदृशानात्मनो ऽसृजत्

1.7.5

भृगुं पुलस्त्यं पुलहं क्रतुमङ्गिरसं तथा ।
मरीचिं दभमत्रिं च वसिष्ठं चैव मानसान्

1.7.6

नव ब्रह्माण इत्येते पुराणे निश्चयं गताः

1.7.7

ख्यातिं भूतिं च संभूतिं क्षमां प्रीतिं तथैव च ।
सन्नतिं च तथैवोर्जमनसूयां तथैव च

1.7.8

प्रसूतिं च ततः सृष्ट्वा ददौ तेषां महात्मनाम् ।
पत्न्यो भवध्व मित्युक्त्वा तेषामेव तु दत्तवान्

1.7.9

सनन्दनादयो ये च पूर्वसृष्टास्तु वेधसा ।
न ते लोकेष्वसज्जन्त निरपेक्षाः प्रजासु ते

1.7.10

सर्वे ते ऽभ्या गतज्ञाना वीतरागा विमत्सराः ।
तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मनाः

1.7.11

ब्रह्मणोभून्महान् क्रोधस्त्रैलोक्यदहनक्षमः ।
तस्य क्रोधात्स मुद्भूतज्वालामालातिदीपितम् ।
ब्रह्मणोभूत्तदा सर्वं त्रैलोक्यमखिलं मुने

1.7.12

भ्रकुटीकुटिलात्तस्य ललाटात् क्रोधदीपितात् ।
समुत्पन्न स्तदा रुद्रो मध्याह्नार्कसमप्रभः

1.7.13

अर्धनारीनरवपुः प्रचण्डो ऽतिशरीरवान् ।
विभजात्मानमित्युक्त्वा तं ब्रह्मान्तर्दधे ततः

1.7.14

तथोक्तोसौ द्विधा स्त्रीत्वं पुरुषत्वं तथाकरोत् ।
विभेदपुरुषत्वं च दशधा चैकधा पुनः

1.7.15

सौम्यासौम्योस्तदाशान्ताशान्तैः स्त्रीत्वं च स प्रभुः ।
विभेद बहुधा देवाः स्वरूपैर् असितैः सितैः

1.7.16

ततो ब्रह्मात्मसंभूतं पूर्वं स्वायंभुवं प्रभु ।
आत्मानमेव कृत वान्प्रजापाल्ये मनुं द्विज

1.7.17

शतरूपां च तां नारीं तपोनिर्धूतकल्पषाम् ।
स्वायंभुवो मनुर्देवः पत्नीत्वे जगृहे प्रभुः

1.7.18

तस्मात्तु पुरुषाद्देवी शतरूपा व्यजायत ।
प्रियव्रतोत्तानपादौ प्रसूत्याकूतिसंज्ञितम्

1.7.19

कन्याद्वयं च धर्मज्ञ रूपौदार्यगुणान्वितम् ।
ददौ प्रसूतिं दक्षाय आकूतिं रुचये पुरा

1.7.20

प्रजापतिः स जग्राह तयोर्जज्ञे सदक्षिणः ।
पुत्रो यज्ञे महाभाग दम्पत्योर्मिथुनं ततः

1.7.21

यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे ।
यामा इति समाख्याता देवाः स्वायंभुवे मनौ

1.7.22

प्रसूत्यां च तथा दक्षश्चतस्त्रो विंशतिस् तथा ।
ससर्ज कन्यास्तासां च सम्यङ्नामानि मे शृणु

1.7.23

श्रद्धा लक्ष्मीर्धृतिस्तुष्टिर्मेधा पुष्टिस् तथा क्रिया ।
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी

1.7.24

पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ।
ताभ्यः शिष्टयवीयस्य एकादश सुलोचनाः

1.7.25

ख्यातिः सत्यथ संभूतिः स्मृतिः पीतिः क्षमा तथा ।
सन्ततिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा

1.7.26

भृतुर्भवो मरीचिश् च तथा चैवाङ्गिरा मुनिः ।
पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस् तथा

1.7.27

अत्रिर्वसिष्ठो वह्निश् च पितरश् च यथाक्रमम ।
ख्यात्याद्य जगृहुः कन्या मुनयो मुनि सत्तम

1.7.28

श्रद्धा कामं चला दर्पं नियमं धृतिरात्मजम् ।
सन्तोषं च तथा तुष्टिर्लोभं पुष्टिरसूयत

1.7.29

मेधा श्रुतं क्रिया दण्डं नयं विनयमेव च

1.7.30

बोधं बुद्धिस् तथा लज्जा विनयं वपुरात्मजम् ।
व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयता

1.7.31

सुखं सिद्धिर्यशः कीर्तिरित्येते धर्मसूनवः ।
कामाद्रतिः सुतं हर्षं धर्मपौत्रमसूयत

1.7.32

हिंसा भार्या त्वधर्मस्य ततो जज्ञे तथानृतम् ।
कन्या च निकृतिस्ताभ्यां माया जज्ञे च वेदना

1.7.33

माया च वेदना चैव मिथुनं त्विदमेतयोः ।
तयोर्जज्ञेथ वै माया मृत्युं भूतापहारिणम्

1.7.34

वेदना स्वसूतं चापि दुःखं जज्ञे ऽथ रौरवात् ।
मृत्योर्व्याधिजराशोकतृष्णक्रोधाश् च जज्ञिरे

1.7.35

दुःखोत्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः ।
नैषां पुत्रोस्ति वै भार्या ते सर्वे ह्यूर्ध्वरेतसः

1.7.36

रौद्राण्येतानिरूपाणि विष्णोर्मुनिवरात्मज ।
नित्यप्रलयहेतुत्वं जगतोस्य प्रयान्ति वै

1.7.37

दक्षो मरीचिरत्रिश् च भृग्वाद्याश् च प्रजेश्वराः ।
जगत्यत्र महाभाग नित्यसर्गस्य हेतवः

1.7.38

मनवो मनुपुत्राश् च भूपा वीर्यधराश् च ये ।
सन्मार्गनिरताः शूरास्ते सर्वे स्थितिकारिणः

1.7.39

श्रीमैत्रेय उवाच
येयं नित्या स्थितिर्ब्रह्मन्नित्यसर्गस्तथेरितः ।
नित्याभावश् च तेषां वै स्वरूपं मम कथ्यताम्

1.7.40

श्रीपराशर उवाच
सर्गस्थितिविनाशांश् च भगवान्मधुसूदनः ।
तैस् तै रूपैर् अचिन्त्यात्मा करोत्यव्याहतो विभुः

1.7.41

नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको द्विज ।
नित्यश् च सर्वभूतानां प्रलयो ऽयं चतुर्विधः

1.7.42

ब्रह्मो नैमित्तिकस्तत्र च्छेतेयं जगतीपतिः ।
प्रयाति प्राकृतं चैव ब्रह्मण्डं प्रकृतौ लयम्

1.7.43

ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि ।
नित्यः सदैव भूतानां यो विनाशो दिवानिशम्

1.7.44

प्रसूतिः प्रकृतेर्या तु सा सृष्टिः प्राकृता स्मृता ।
दैनन्दिनी तथा प्रोक्ता नान्तरप्रलयादनु

1.7.45

भूतान्यनुदिने यत्र जायन्ते मुनिसत्तम ।
नित्यसर्गो हि स प्रोक्तः पुराणार्थविचक्षणैः

1.7.46

एवं सर्वशरीरेषु भगवान्भूतभावनः ।
संस्थितः कुरुते विष्णुरुत्पत्तिस्थितिसंयमान्

1.7.47

सृष्टि स्थितिविनाशानां शक्तयः सर्वदेहिषु ।
वैष्णव्यः परिवर्तन्ते मैत्रेयाहर्निशं समाः

1.7.48

गुणत्रयमयं ह्यतद्ब्रह्यन् शक्तित्रयं महत् ।
यो ऽतियाति सा यात्येव परं नावर्तते पुनः

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc