विष्णु पुराण · अध्याय 1.6
इति श्रीविष्णुपुराणे प्रथमे ऽंशे पञ्चमो ऽध्यायः (5)
श्रीमैत्रेय उवाच
अर्वाक्स्त्रोतास्तु कथितो भवता यस्तु मानुषः ।
ब्रह्मन्विस्तरतो ब्रूहि ब्रह्म तमसृजद्यथा
यथा च वर्णानसृजद्यद्गुणां श् च प्रजापतिः ।
यच्च तेषां स्मृतं कर्म विप्रादीनां तदुच्यताम्
श्रीपराशर उवाच
सत्याभिध्यायिनः पूर्वं सिसृक्षेर्ब्रह्मणो जगत् ।
अजायन्त द्विजश्रेष्ठ सत्त्वोद्रिक्ता मुखात्प्रजाः
वक्षमो रजसोद्रिक्तास् तथा वै ब्रह्मणो ऽभवन् ।
रजसा तमसा चैव समुद्रिक्तास्तथोरुतः
पद्भ्यामन्याः प्रजा ब्रह्मा ससर्ज द्विजसत्तम ।
तमःप्रधानास्ताः सर्वश्चातुर्वर्ण्यमिदं ततः
ब्रह्मणाः क्षत्रिया वेश्याः शूद्राश् च द्विजसत्तम ।
पादोरुवक्षस्थलतो मुखतश् च समुद्गताः
यज्ञनिष्पत्तये सर्वमेतद्ब्रह्या चकार वै ।
चातुर्वर्ण्यं महाभाग यज्ञसाधनमुत्तमम्
यज्ञैर् आप्यायिता देवा वृष्ट्युत्सर्गेण वै प्रजाः ।
आप्याययन्ते धर्मज्ञ यज्ञाः कल्याणहेतवः
निष्पाद्यन्ते नरैस् तैस् तु स्वधर्माभिरतैः सदा ।
विशुद्धाचरणैपेतैः सद्भिः सन्मार्गगामिभिः
स्वर्गापवर्गौ मानुष्यात्प्राप्नुवन्ति नरा मुने ।
यच्चाभिर् उचितं स्थानं तद्यान्ति मनुजा द्विज
प्रजास्ता ब्रह्मणा सृष्टाश्चातुर्वर्ण्यव्यवस्थि ताः ।
सम्यक्छ्रद्धाः समाचारप्रवणा मुनिसत्तम
यथेच्छावासनिरताः सर्वबाधाविवर्जिताः ।
शुद्धान्तः करणाः शुद्धाः कर्मानुष्ठा ननिर्मलाः
शुद्धे च तासां मनसि शुद्धेन्तःसंस्थिते हरौ ।
सुद्धज्ञानं प्रपश्यन्ति बिल्वाख्यं येन तत्पदम्
ततः कालात्म को यो ऽसौ स चांशः कथितो हरेः ।
स पातयत्यघं घोरम् अल्पम् अल्पाल्पसारवत्
अधर्मबीजमुद्भुतं तमोलोभसमुद्भवम् ।
प्रजासु तासु मैत्रेय रागादिकमसाधकम्
ततः सा सहजा सिद्धस्तासां नातीव जायते ।
रसोल्लासादयश्चान्याः सिद्धयोष्टौ भवन्ति याः
तासु क्षीणास्वशेषासु वर्धमाने च पातके ।
द्वन्द्वाभिभवदुःखार्तास्ता भवन्ति ततः प्रजाः
ततो दुर्गाणि ताश्चक्रुर्धान्वं पार्वतमौदकम् ।
कृत्रिमं च तथा दुर्गं पुरखर्वटकादिकम्
गृहीणि च यथान्यायं तेषु चकुः पुरादिषु ।
शीतातपादिबाधानां प्रशमाय महामते
प्रतीकारमिमं कत्वा शीतादेस्ताः प्रजाः पुनः ।
वार्तोपायं ततश्चक्रुर्हस्तसिद्धिं च कर्मजाम्
व्रीहयश् च यवाश्चैव गोधूमाश्चणवस्तिलाः ।
प्रियङ्गवो ह्युदा राश् च कोरदूषाः सतीनकाः
माषा मुद्गा मसूराश् च निष्पावाः सकुलात्थकाः ।
आढक्यश्चणकाश्चैव शणाः सप्तदश स्मृताः
इत्येता ओषधीनां तु ग्राम्यानां जातयो मुने ।
ओषध्यो यज्ञियाश्चैव ग्राम्यारण्याश्चतुर्दश
व्रीहयःसयवा माषा गोधूमाश्चाणव स्तिलाः ।
प्रियङ्गुसप्तमा ह्येते अष्टमास्तु कुलत्थकाः
श्यामाकास्त्वथ नीवारा जर्तिलाः सगवेधुकाः ।
तथा वेणुयवाः प्रोक्तस् तथा मर्कटका मुने
ग्राम्यारण्याः स्मृता ह्येता ओषध्यस्तु चतुर्दश ।
यज्ञनिष्पत्तये यज्ञस्तथासां हेतुरुत्तमः
एताश् च सह यज्ञेन प्रजानां कारणं परम् ।
परावरविदः प्राज्ञास्ततो यज्ञान्वितन्वेत
अहन्यहन्यनुष्ठानं यज्ञानां मुनिसत्तम ।
उपकारकरं पुंसां क्रियमाणा घशान्तिदम्
येषां तु कालसृषो ऽसौ पापबन्दुर्महामुने ।
चेतःसु ववृधे चक्रुस्ते न यज्ञेषु मानसम्
वेदवादांस् तथा वेदान्यज्ञ कर्मादिकं च यत् ।
तत्सर्वं निन्दयामासुर्यज्ञव्यासेधकारिणः
प्रवृत्तिमार्गव्युच्छित्तिकारिणो वेदनिन्दकाः ।
दुरात्मानो दुराचारा बभूवुः कुटिलाशयाः
संसिद्धायां तु वार्तायां प्रजाः सृष्ट्वा प्रजापतिः ।
सर्यादां स्थापयामास यथास्थानं यथागुणम्
वर्णा नामाश्रमाणां च धर्मधर्मभृतां वर ।
लोकांश् च सर्ववर्णानां सम्यग्धर्मानुपालिनाम्
प्रजापत्यं ब्रह्मणानां स्मृतं स्थानं क्रियावताम् ।
स्थानमैन्द्रं क्षत्रियाणां संग्रमेष्वनिवर्तताम्
वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तिनाम् ।
गान्धर्वं शूद्रजातीनां.परिचर्यानुवर्तिनाम्
अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् ।
स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम्
सप्तर्षिणां तु यत्स्थानं स्मृतं तद्वै वनौकसाम् ।
प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मसंज्ञितम्
योगिनाममृतं स्थानं स्वात्मसंतोषकारिणाम्
एकान्तिनः सदा ब्रह्मध्यायिनो योगिनश् च ये ।
तेषां तु परमं स्थानं यत्तत्पश्यन्ति सूरयः
गत्वागत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः
तामिस्त्रमन्धतामिस्त्रं महारौरवरौरवौ ।
असिपत्रवनं घोरं कालसूत्रमवीचिकम्
विनिन्दकानां वेदस्य यज्ञव्याघातकारिणाम् ।
स्थानमेतत्समाख्यातं स्वधर्मत्यागिनश् च ये
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0