विष्णु पुराण · अध्याय 1.5
इति श्रीविष्णुपुराणे प्रथमे ऽंशे पृथिव्युद्धारश्चतुर्थो ऽध्यायः (4)
श्रीमैत्रेय उवाच
यथा ससर्ज देवो ऽसौ देवर्षिपितृदान वान् ।
मनुष्यतिर्यग्वृक्षादीन्भूव्योमसलिलौकसः
यद्गुणं यत्स्वभावं च यद्रूपं च जगद्द्विज ।
सर्गादौ सृष्टवान्ब्रह्मा तन्ममाचक्ष्व कृत्स्त्रशः
श्रीपराशर उवाच
मैत्रेय कथयाम्येतच्छृषुष्व सुसमाहितः ।
यथा ससर्ज देवोसौ देवादीनखिलान्विभुः
सृष्टिं चिन्तय तस्तस्य कल्पादिषु यथा पुरा ।
अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस्तमोमयः
तमोमोहो महामोहस्तामिस्त्रो ह्यन्धसंज्ञितः ।
अविद्य पञ्चपर्वैषा प्रागुर्भूता महात्मनः
पञ्चधावस्थितः सर्गो ध्यायतो प्रतिबोधवान् ।
बहिरन्तो ऽप्रकाशश् च संवृतात्मा नगात्मकः
मुख्या नगा यतः प्रोक्ता मुख्यसर्गस्ततस्त्वयम्
तं दृष्वासाधकं सर्गममन्यदपरं पुनः
तस्याभिध्यायतः सर्गस्तिर्यक्स्त्रोतोभ्यवर्तत ।
यस्मात्तिर्यक्प्रवृत्तिस्य तिर्यक्स्त्रोतास्ततः स्मृतः
पश्वादयस्ते विख्याता स्तमःप्राया ह्यवेदिनः ।
उत्पथग्राहिणश्चैव ते ऽज्ञाने ज्ञानमानिनः
अहङ्कृता अहंमाना अष्टाविंशद्वधात्मकाः ।
अतः प्रकाशास्ते सर्वे आवृताश् च परस्परम्
तमप्यसाधकं मत्वा ध्यायतोन्यस्ततो ऽभवत् ।
ऊर्ध्वस्त्रेतास्तृतीयस्तु सात्त्विकोर्ध्वमवर्तत
ते सुखप्रीतिबहुला बहिरन्तश् च नावृताः ।
प्रकाशा बहिरन्तश् च ऊर्ध्वस्त्रोतोद्भवाः स्मृताः
तुष्टात्मानस्तृतीयस्तु देवसर्गस्तु स स्मृतः ।
तस्मिन्सर्गेभवत्प्रीतिर्निष्पन्ने ब्रह्मणस्त दा
ततोन्यं स तदा दध्यौ साधकं सर्गमुत्तमम् ।
असाधकांस्तु ताञ्ज्ञात्वाः मुख्यसर्गादिसम्भवान्
तथाभिध्यायतस्तस्य सत्याभिध्यायिनस्ततः ।
प्रादुर्बभूव चाव्यक्तादर्वास्त्रेतास्तु साधकः
यस्मादर्वाग्व्यवर्तन्त ततोर्वाक्स्त्रोतसस्तु ते ।
ते च प्रकाशबहुलास्तमोद्रिक्ता रजोधिकाः
तस्मात्ते दुःखबहुला भूयोभूयश् च कारिणः ।
प्रकाशा बहिरन्तश् च मनुष्याः साधकास्तु ते
इत्येते कथिताः सर्गाः षडत्र मुनिसत्तम ।
प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः
तन्मात्राणां द्वितीयश् च भूतसर्गो हि स स्मृतः ।
वैकारिकस्तृतीयस्तु सर्ग एन्द्रियकः स्म-तः
इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः ।
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः
तिर्यक्स्त्रोतास्तु यः प्रोक्तस् तैर्यग्योन्यः स उच्यते ।
तदूर्ध्वस्त्रोतसां षष्ठो देवसर्गस्तु संस्मृतः
ततोर्ऽवाक्स्त्रोतसां सर्गः सप्तमः स तु मानुषः
अष्टमो ऽनुग्रहः सर्गः सात्त्विकस्तामसश् च सः ।
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः
प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः ।
इत्येते वै समाख्याता नव सर्गाः प्रजापतेः
प्राकृता वैकृताश्चैव जगतो मूलहेतवः ।
सृजतो जगदीशस्य किमन्यञ्छ्रोतुमिच्छसि
श्रीमैत्रेय उवाच
संक्षेपात्कथितः सर्गे देवादीनां मुने त्वया ।
विस्तराच्छ्रोतुमिच्छमि त्वत्तो मुनिवरोत्तम
श्रीपराशर उवाच
कर्मभिर् भाविताः पूर्वैः कुशलाः कुशलैस् तु ताः ।
ख्यात्या तया ह्यनिर्मुक्ताः संहारे ह्युपसंहृताः
स्थावरान्ताः सुराद्यास्तु प्रजा ब्रह्मश्चतुर्विधाः ।
ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसास्तु ताः
ततो देवासुरपितॄन्मनुष्यांश् च चतुष्टयम् ।
सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत्
युक्तात्मनस्तमोमात्रा ह्य् उद्रिक्ताभूत्प्रजापतेः ।
सिसृक्षोर्जघनात्पूर्वमसुरा जज्ञिरे ततः
उत्ससर्ज ततस्तां तु तमोमात्रात्मिकां तनुम् ।
सा तु व्यक्ता तनुस्तेन मैत्रेयाभूद्विभावरी
सिसृक्षुरन्यदेहस्थः प्रीतिमाप ततः सुराः ।
सत्त्वोद्रिक्ताः समुद्भुता मुखतो ब्रह्मणो द्विजः
त्यक्ता सापि तनुस्तेन सत्त्वप्रायमभूद्दिनम् ।
ततो हि बलिनो रात्रावसुरा देवता दिवा
सत्त्वमात्रात्मिकामेव ततोन्यां जगृहे तनुम् ।
पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे
उत्ससर्ज ततस्तां तु पितॄन्सृष्ट्वापि स प्रभुः ।
सा चोत्सृष्टाभवत्संध्या दिन नक्तान्तरस्थिता
रजोमात्रात्मिकामन्यां जगृहे स तनुं ततः ।
रजोमात्रोत्कटा जाता मनुष्या द्विजसत्तम
तामप्याशु स तत्याज तनुं सद्यः प्रजापतिः ।
ज्योत्स्त्रा समभवत्सापि प्राक्सन्ध्या याभिधीयते
ज्योत्स्त्रागमे तु बलिनो मनुष्याः पितरस् तथा ।
मैत्रेय संध्यासमये तस्मादेते भवन्ति वै
ज्योत्स्ना रात्र्यहनि संध्या चत्वार्यतानि वै प्रभोः ।
ब्रह्मणस्तु शरीराणि त्रिगुणोपाश्रयाणि तु
रजोमात्रात्मिकामेव ततोन्यां जगृहे तनुम् ।
ततः क्षुद्ब्रह्मणो जाता जज्ञे कामस्तया ततः
क्षुत्क्षामानन्धकारेथ सोसृजद्भगवांस्ततः ।
वुरूपाः श्मश्रुला जातास्तेभ्यधावं स्ततः प्रभुम्
मैवं भो रक्ष्यतामेष यैर् उक्तं राक्षसास्तु ते ।
ऊचुः खादाम इत्यन्ये ये ते यक्षास्तु जक्षणात्
अप्रियेण तु तान्दृष्ट्वा केशाः शीर्यन्तवेधसः ।
हीनाश् च शिरसो भूयः समारोहन्त तच्छिरः
सर्पणात्ते ऽभवन् सर्पा हीनत्वादहयः स्मृताः ।
ततः क्रुद्धो जगत्स्त्रष्टा क्रोधात्मानो विनिर्ममे ।
वर्णेन कपिशेनोग्रभूतास्ते पिशिताशनाः
ध्यायतोङ्गात्समुत्पन्ना गन्धर्वास्तस्य तत्क्षणात् ।
पिबन्तो जज्ञिरे वाचं गन्धर्वास्तेन ते द्विज
एतानि सृष्ट्वा भगवान्ब्रह्म तच्छक्तिचोदितः ।
ततः स्वच्छन्दतोन्यानि वयांसि वयसो ऽसृजत्
अपयो वक्षसश्चक्रे मुखतोजाः स सृषृवान् ।
सृशृवानुदराद्गाश् च पार्श्वभ्यां च प्रजापतिः
पद्भ्यां चाश्वान्समातङ्गान्रासभान्गवयान्मृगान् ।
उष्ट्रानश्वतरांश्चैव न्यङ्कूनन्याश् च जातयः
ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जत्रिरे ।
त्रेतायुगमुखे ब्रह्मा कल्पस्यादौ द्विजोत्तम ।
सृष्ट्वापश्चौषधीः सम्यग्युयोजस तदाध्वरे
गौरजः पुरुषो मेषश्चाश्वाश्वतरगर्दभाः ।
एतान्ग्राम्यान्पशूनाहुरारण्यांश् च निबोध मे
श्वापदा द्विखुरा हस्ती वानराः पक्षिपञ्चमाः ।
औदकाः पशवः षष्ठा सप्तमास्तु सरीसृपाः
गायत्रं च ऋचश्चैव त्रिवृत्सोमं रथन्तरम् ।
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात्
यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा ।
बृहत्साम तथोक्थं च दक्षिणादसृजन्मु खात्
सामानि जगतीछन्दः स्तोमं सप्तदशं तथा ।
वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात्
एकविंशमथर्वाणमाप्तोर्यामाणमेव च ।
अनुष्टुभं च वैराजमुत्तरादसृजन्मुखात्
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ।
देवासुरपितॄन् सृष्ट्वा मनुष्यांश् च प्रजापतिः
ततः पुनः ससर्जादौ संकल्पस्य पितामहः ।
यक्षान् पिशाचान्गन्धर्वान् तथैवाप्सरसां गणान्
नरकिन्नररक्षांसि वयः पशुमृगोरगान् ।
अव्ययं च व्ययं चैव यदिदं स्थाणुजङ्गमम्
तत्ससर्ज तदा ब्रह्म भगवानादिकृत्प्रभुः ।
तेषां ये यानि कर्माणि प्रक्सृष्ट्यां प्रतिपेदिरे ।
तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनःपुनः
हिस्त्राहिंस्त्रे मृदुक्रूरे धर्मधर्मावृतानृते ।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते
इन्द्रियार्थेषु भूतेषु शरीरेषु च स प्रभुः ।
नानात्वं विनियोगं च धातैवं व्यसृजत्स्वयम्
नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम् ।
वेदशब्देभ्य एवादौ देवादीनां चकार सः
ऋषीणां नामधेयानि यथा वेदश्रुतानि वै ।
तथा नियोगयोग्यानि ह्यन्येषामपि सो ऽकरोत्
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्य ये ।
दृस्यन्ते तानि तान्येव तथा भावा युगादिषु
करोत्येवंविधां सृष्टिं कल्पादौ स पुनः पुनः ।
सिसृक्षाशक्तियुक्तोसौ सृज्यशक्तिप्रचोदितः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0