भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 1.4

1.4.1

इति श्रीविष्णुपुराणे प्रथमे ऽंशे तृतीयो ऽध्यायः (3)
श्रीमैत्रेय उवाच
ब्रह्मनारायणाख्यो ऽसै कल्पादौ भगवान्यथा ।
ससर्ज सर्वभूतानि तदाचक्ष्व महामुने

1.4.2

श्रीपराशर उवाच
प्रजाः ससर्ज भगवान्ब्रह्मा नारायणात्मकः ।
प्रजापतिपतिर्देवो यथा तन्मे निशामय

1.4.3

अतीतकल्पावसाने निशासुप्तोत्थितः प्रभुः ।
सत्त्वोद्रिक्तस् तथा ब्रह्मा शून्यं लोकमवैक्षत

1.4.4

नारायणः परो ऽचिन्त्यः परेषामपि स प्रभुः ।
ब्रह्मस्वरूपी भगवाननादिः सर्वसम्भवः

1.4.5

इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ।
ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम्

1.4.6

आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः

1.4.7

तोयान्तःस्थां महीं ज्ञात्वा जगत्येकार्णवीकृते ।
अनुमानात्तदुद्धारं कर्तुकामः प्रजापतिः

1.4.8

अकरोत्स्वतनूमन्यां कल्पादिषु यथा पुरा ।
सत्स्यकूर्मादिकां तद्वद्वाराहं वरुरास्थितः

1.4.9

वेदयज्ञमयं रूपमशेषजगतः स्थितौ ।
स्थितः स्थिरात्मा सर्वात्मा परमात्मा प्रजापतिः

1.4.10

जनलोकगतैः सिद्धैः सनकाद्यैर् अभिष्टुतः ।
प्रविवेश तदा तोयमात्माधारो धराधरः

1.4.11

निरीक्ष्य तं तदा देवी पातालातलमागतम् ।
तुष्टाव प्रणता भूत्वा भक्तिनम्रा वसुन्धरा

1.4.12

श्रीपृथिव्युवाच
नमस्ते पुण्डरीकाक्ष शङ्खचक्रगदाधर ।
मामुद्धरास्मादद्य त्वं त्वत्तो ऽहं पूर्वसुत्थिता

1.4.13

त्वयाहमुद्धृता पूर्वं त्वन्मयाहं जनार्दन ।
तथान्यानि च भूतानि गगनादिन्यशेषतः

1.4.14

नमस्ते पर मात्मात्मन्पुरुषात्मन्नमोस्तु ते ।
प्रधानव्यक्तभूताय कालभूताय ते नमः

1.4.15

त्वं कर्ता सर्वभूतानां त्वं पाता त्वं विनाशकृत् ।
सर्गादिषु प्रभो ब्रह्मविष्णुरुद्रात्मरूपधृक्

1.4.16

सम्भक्षयित्वा सकलं जगत्येकार्णवीकृते ।
शेषे त्वमेव गोविन्द चिन्त्यमानो मनीषिभिः

1.4.17

भवतो यत्परं तत्त्वं तन्न जानाति कश्चन ।
अवतारेषु यद्रूपं तदर्चन्ति दिवौकसः

1.4.18

त्वामाराध्य परं ब्रह्म याता मुक्तिं मुमुक्षवः ।
वासुदेवमनाराध्य को मोक्षं समवाप्स्यति

1.4.19

यत्किञ्चिन्मनसा ग्राह्यं यद्ग्रह्यं चक्षुरादिभिः ।
बुद्ध्या च यत्परिच्छेद्यं तद्रूपमखिलं तव

1.4.20

त्वन्मयाहं त्वदाधारा त्वत्सृष्टा त्वत्समाश्रया ।
माधवीमिति लोकोयमभिधत्ते ततो हि माम्

1.4.21

जयाखिलज्ञानमय जय स्थूलमयाव्यय ।
जयानन्त जयाव्यक्त जय व्यक्तमय प्रभो

1.4.22

परापरात्मन्विश्वात्मञ्जय यज्ञ पते ऽनघ ।
त्वं यज्ञस्त्वं पषट्कारस्त्वमोङ्कारस्त्वमग्नयः

1.4.23

त्वं वेदास्त्वं तदङ्गानि त्वं यज्ञपुरुषो हरे ।
सूर्यादयो ग्रहास्तारा नक्षत्राण्य खितं जगत्

1.4.24

मूर्तामूर्तमदृश्यं च दृश्यं च पूरुषोत्तम ।
यच्चोक्तं यच्च नैवोक्तं मयात्र परमेश्वर ।
तत्सर्वं त्वं नमस्तुभ्यं भूयोभूयो नमोनमः

1.4.25

श्रीपराशर उवाच
एवं संस्तूयमानस्तु पृथिव्या धरणीधरः ।
सामस्वरध्वनिः श्रीमाञ् जगर्ज परिघर्घरम्

1.4.26

ततः समुत्क्षिप्य धरां स्वदंष्ट्रया महावराहः स्फुटपद्मलोचनः ।
रसातलादुत्पलपत्रसन्निभः समुत्थितो नील इवाचलो महान्

1.4.27

उत्तिष्ठता तेन मुखानिलाहतं तत्संभवाम्भो जनलोकसंश्रयान् ।
प्रक्षालयामास हि तान्महाद्युतीन् सनान्दनादीनपकल्मषान् मुनीन्

1.4.28

प्रयानिति तोयानि खुराग्रविक्षतरसातले ऽधः कृतशब्दसन्तति ।
श्वसानिलास्ताझ परितः प्रयान्ति सिद्धा जने ये नियता वसन्ति

1.4.29

उत्तिष्ठतस्तस्य जलार्द्रकुक्षेर्महावराहस्य महीं विगृह्य ।
विधुन्वतो वेदमयं शरीरं रोमान्तरस्था मुनयः स्तुवन्ति

1.4.30

त तुष्टुवुस्तोषपरीतचेतसो लोके जने ये निवसन्ति योगिनः ।
सनन्दनाद्या ह्यतिनम्रकन्धरा धराधरं धीरतरोद्धतेक्षणम्

1.4.31

जयेश्वराणां परमेश केशव प्रभो गदाशङ्खधरासिचक्रधृक् ।
प्रसूतिनाशस्थिहेतुरीश्वरस्त्वमेव नान्यत्परमं च यत्पदम्

1.4.32

पादेषु देदास्तव यूपदंष्ट्रा दन्तेषु जज्ञाश्चितयश् च वक्त्रे ।
हुताशजिह्वोसि तनुरुहाणि दर्भाः प्रभो यज्ञपुमांस्त्वमेव

1.4.33

विलोचने रात्र्यहनी महात्मन्सर्वाश्रयं ब्रह्मपरं शिरस्ते ।
सूक्तान्यशेषाणि सटाकलापो घ्राणं समस्तानि हवींषि देव

1.4.34

मुक्तुण्डसामस्वरधीरनादप्राग्वंशकाया खिलसत्रसन्धे ।
पूर्तेष्टधर्मश्रवणोसि देव सनातनात्मन्भगवन्प्रसीद

1.4.35

पदक्रमाक्रान्तभुवं भवन्तमादिस्थितं चाक्षरविश्वमूर्ते ।
विश्वस्य विद्मः परमेश्वरोऽसि प्रसीद नाथोसि परावरस्त

1.4.36

दंष्ट्राग्रविन्यस्तमशेषमेतद्भुमण्डलं नाथ विभाव्यते ते ।
विगाहतः पद्मवनं विलगानं सरोजिनीपत्रमिवोढपङ्कम्

1.4.37

द्यावापृथिव्योरतुलप्रभाव यदन्तरं तद्वपुषा तवैव ।
व्याप्तं जगव्द्याप्तिसमर्थदीप्ते हिताय विश्वस्य विभो भव त्वम्

1.4.38

परमार्थस्त्वमेवैको नान्योस्ति जगतः पते ।
तवैष महिमा येन व्याप्तमेतच्चराचरम्

1.4.39

यदेतद्दृश्यते मूर्तमेतज्ज्ञानात्मनस्तव ।
भ्रान्तिज्ञानेन पश्यन्ति जगद्रूपमयोगिनः

1.4.40

ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः ।
अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसंप्लवे

1.4.41

येतु ज्ञानविदः सुद्धचेतसस्ते ऽखिलं जगत् ।
ज्ञानात्मकं प्रपश्यन्ति त्वद्रूपं परमेश्वर

1.4.42

प्रसीद सर्व सर्वात्मन्भवाय जगतामिमाम् ।
उद्धरोर्वीममेयात्मञ्छन्नो देह्यब्जलोचन

1.4.43

सत्त्वोद्रिक्तो ऽसि भगवन् गोविन्द पृथिवीमिमाम् ।
समुद्धर भवायेश शन्नो देह्यब्जलोचन

1.4.44

सर्गप्रवृत्तिर्भवतो जगतामुपकारिणि ।
भवत्वेषा नमस्ते ऽस्तु शन्नो देह्यब्जलोचन

1.4.45

श्रीपारशर उवाच
एवं संस्तूयमानस्तु परमात्मा महीधरः ।
उज्जहार क्षितिं क्षिप्रं न्यस्तवांश् च महाम्भसि

1.4.46

तस्योपरि जलौघस्य सहती नौरिव स्थिता ।
विततत्त्वात्तु देहस्य न मही याति संप्लावम्

1.4.47

ततः क्षितिं समां कृत्वा पृथिव्यां सोचिनोद्गिरीन् ।
यथाविभागं भगवाननादिः परमेश्वरः

1.4.48

प्राक्सर्गदग्धान् अखिलान् पर्वतान् पृथिवीतले ।
अमोघेन प्रभावेण ससर्जामोघवाञ्छितः

1.4.49

भूविभागं ततः कृत्वा सप्तद्वीपान्यथातथम् ।
भूराद्यांश्चतुरो लोकान्पूर्ववत्समकल्पयत्

1.4.50

ब्रह्मरूपधरो देवस्ततो ऽसौ रजसा वृतः ।
चकार सृष्टिं भगवांश्चतुर्वक्रधरो हरिः

1.4.51

निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि ।
प्रधानकारणीभूता यतो वै सृज्यशक्तयः

1.4.52

निमित्तमात्रं मुक्त्वैवं नान्यत्किञ्चिदपेक्षते ।
नीयते तपतां श्रेष्ट स्वशक्त्या वस्तु वस्तुताम्

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc